भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 500, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 500

पुण्डरीकं प्रति कपिञ्जलप्रश्न० ६७ ] चन्द्रकला-विद्योतिनीसहिता । ४६१

मेतत्^१ मम, केवलमिदमेव पृच्छामि—यदेतदारब्धं भवता, किमिदं गुरुभिरुपदिष्टम्, उत धर्म्मशास्त्रेषु पठितम्, उत धर्म्माज्जनोपायोऽयम्, उतापरस्तपसां प्रकारः, उत स्वर्गगमनमार्गोऽयम्, उत व्रतरहस्यमिदम्, उत मोक्षप्राप्तियुक्तिरियम्^२, आहोस्विदक्यो नियमप्रकारः। कथमेतद् युक्तं भवतो मनसापि चिन्तयितुम्, किं पुनराख्यातुमीक्षितुं वा ?। कथय किम्^३ अप्रबुद्ध इवानेन मन्मथहतकेनोपहासास्पदतां नीयमानमात्मानं नावबुध्यसे ? मूढो हि मदनेनायास्यते। का वा सुखाशा साधुजननिन्दितेष्वेवंविधेषु प्राकृतजनबहुमतेषु विषयेषु भवतः ?। स खलु धर्म्मबुद्ध्या विषलतावनं^४ सिञ्चति, कुवलयमालेति निस्त्रिशलतामालिङ्गति, कृष्णगुरुधूमलेखेति कृष्णसर्पमवगूहते,^५ रत्नमिति^६ ज्वलन्तमङ्गारमभिस्पृशति, मृणालमिति


भवता त्वया। आरब्धं प्रस्तुतम्। गुरुभिः हिताहितप्राप्तिपरिहारोपदेशकैः उपदिष्टं पठितमित्यर्थः। धर्मशास्त्रेषु मन्वादिस्मृतिषु पठितम् अधीतम्। धर्मार्जनोपायः पुण्योपार्जनप्रकारः। तपसां तपश्चर्याणाम् अपरो भिन्नः प्रकारो भेदः स्वर्गगमनमार्गः देवलोकप्राप्तिपथः। व्रतरहस्यम् आरब्धव्रतविषयेऽप्रकाशनीयो नियमविशेषः। मोक्षप्राप्तौ मुक्तिलाभे युक्तियोगविशेषः। अन्यः अस्माभिरज्ञातो नियमप्रकारो व्रतानुष्ठानभेदः। प्रागपि कपिञ्जलेनैवं प्रायमेव कथितम्।

कथमिति। एतत् कामिनीमग्नन्वहणमप्याचरणं मनसापि हृदयेनापि चिन्तयितुं भवतस्तव कथं युक्तम् उचितम् अपि तु कथमपि नेत्यर्थः। आख्यातं स्वच्छन्देन कामिनीं तद्विषयं वा आलपितुम्, ईक्षितुं स्वच्छन्देन कामिनीम् अवलोकितुं किं पुनर्वक्तव्यम् अपि तु किमपि नेत्यर्थः, सर्वस्मिन् स्थले ब्रह्मचर्यव्रतपालनत्वादित्याशयः।

कथयेति। अप्रबुद्ध इव अज्ञानीव। मन्मथहतकेन पापकारिणा कामेन उपहासास्पदतां परिहासास्थानतां नीयमानं प्राप्यमाणं नावबुध्यसे न जानासि ? ननु मन्मथव्यथया प्रज्ञालोपात् नाहमवजानामीति चेत्तमाह—मूढ इति। हि निश्चितम्, मूढो मन्दबुद्धिः मदनेन कामेन आयास्यते पीड्यते, न पुनः स्वयसदृशः प्रवृद्ध इत्यभिप्रायः।

केति। प्राकृतजनैः अज्ञलोकैः बहुमतेषु आदृतेषु, विषयेषु स्रक्चन्दनवनितादिभोग्येषु, भवतस्तव का वा सुखाशा आनन्दतृष्णा अपि तु कापि नेत्यर्थः, तत्सुखस्यापातरमणीयत्वेन परमपुरुषार्थत्वासम्भवादित्यभिप्रायः।

स इति। यो मूढो हिताहितज्ञानरहितो लोकः, अनिष्टानुबन्धिषु अधर्मक्लेशसाधनोत्पादकेषु विषयोपभोगेषु स्रक्चन्दनकामिनीत्यादिसम्भोगेषु सुखबुद्धिम् आनन्दोत्पादकत्वज्ञानम् आरोपयति करोति, स खलु लोकः धर्मबुद्ध्या इदं पुण्यकृत्यमिति धिया विषलतावनं विषवल्लीविपिनं सिञ्चति सलिलेनेति शेषः। कुवलयमाला इन्दीवरस्रक् इति धिया, निर्गतो, निःसृतः त्रिंशतः अङ्गुलीभ्यः त्रिंशदङ्गुलीभ्योऽधिकपरिमाण इति निस्त्रिशः खड्गः स लता वल्लीव लम्बमानत्वात्ताम् आलिङ्गति आशि्लष्यति, कृष्णागुरोः काकतुण्डस्य धूमलेखा दहनकेतनपङ्क्तिरिति बुद्ध्या कृष्णसर्पं दुधर्षभुजङ्गविशेषम् अवगूहते परिण्वजते


जानना हूं, परन्तु मैं केवल इतना ही पूछता हूँ कि यह जो घटना आपने आरम्भ किया है उसे क्या गुरुने उपदेश दिया है ? या धर्मशास्त्रमें पढा है ? अथवा यह धर्म एकत्रित करनेका साधन है ? किंवा किसी प्रकारकी तपस्या है ? या यह स्वर्गमें जानेका मार्ग है। अथवा यह आरब्ध व्रतका कोई गोपनीय नियम है ? किंवा मुक्ति-प्राप्ति करनेके लिए यह एक प्रकारका योग है ? अथवा व्रताचरणका कोई अवान्तर भेद है ? आपको इस विषयको मनमें चिन्ता करना भी क्या उचित है ? स्त्रियोंके साथ आलाप करने किंवा उन्हें देखनेके विषयमें तो कहना ही क्या है ? क्या अज्ञानीके समान, आप यह नहीं जानते कि यह दुराचारी कामदेवने आपको उपहासास्पद बना दिया है ? काम मूर्ख लोगोंको ही कष्ट देता है। साधुजनोंने निन्दित साधारण मनुष्योंके प्रिय इस प्रकारके विषयोंमें आपको सुखकी आशा क्या है ? जो मूढ जन परिणाममें दुःखदायी विषयोपभोगमें सुखकी अभिलाषा करते हैं वे, निश्चय ही धर्म समझकर, विष-लताके वनको सींचते हैं, नीलोत्पलकी माला समझ कर खड्गलता (तलवार) का आलिङ्गन करते हैं, काले अगुरुकी धूम-रेखा समझ कर भयङ्कर सर्पको पालते हैं, रत्न समझ कर जलते अङ्गार (वह्नियुक्त काष्ठ) का


१. सुविदितं सत्यमेतन्मम। २. क्वचित् 'इयम्' इति पदं न विद्यते। ३. क्वचित् 'कथय कि' मित्यपि नावलोक्यते। ४. विपलतां। ५. अवगृह्णाति। ६. महारत्नमिति।