कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पुण्डरीकं प्रति कपिञ्जलप्रश्न० ६७ ] चन्द्रकला-विद्योतिनीसहिता । ४६१
मेतत्^१ मम, केवलमिदमेव पृच्छामि—यदेतदारब्धं भवता, किमिदं गुरुभिरुपदिष्टम्, उत धर्म्मशास्त्रेषु पठितम्, उत धर्म्माज्जनोपायोऽयम्, उतापरस्तपसां प्रकारः, उत स्वर्गगमनमार्गोऽयम्, उत व्रतरहस्यमिदम्, उत मोक्षप्राप्तियुक्तिरियम्^२, आहोस्विदक्यो नियमप्रकारः। कथमेतद् युक्तं भवतो मनसापि चिन्तयितुम्, किं पुनराख्यातुमीक्षितुं वा ?। कथय किम्^३ अप्रबुद्ध इवानेन मन्मथहतकेनोपहासास्पदतां नीयमानमात्मानं नावबुध्यसे ? मूढो हि मदनेनायास्यते। का वा सुखाशा साधुजननिन्दितेष्वेवंविधेषु प्राकृतजनबहुमतेषु विषयेषु भवतः ?। स खलु धर्म्मबुद्ध्या विषलतावनं^४ सिञ्चति, कुवलयमालेति निस्त्रिशलतामालिङ्गति, कृष्णगुरुधूमलेखेति कृष्णसर्पमवगूहते,^५ रत्नमिति^६ ज्वलन्तमङ्गारमभिस्पृशति, मृणालमिति
भवता त्वया। आरब्धं प्रस्तुतम्। गुरुभिः हिताहितप्राप्तिपरिहारोपदेशकैः उपदिष्टं पठितमित्यर्थः। धर्मशास्त्रेषु मन्वादिस्मृतिषु पठितम् अधीतम्। धर्मार्जनोपायः पुण्योपार्जनप्रकारः। तपसां तपश्चर्याणाम् अपरो भिन्नः प्रकारो भेदः स्वर्गगमनमार्गः देवलोकप्राप्तिपथः। व्रतरहस्यम् आरब्धव्रतविषयेऽप्रकाशनीयो नियमविशेषः। मोक्षप्राप्तौ मुक्तिलाभे युक्तियोगविशेषः। अन्यः अस्माभिरज्ञातो नियमप्रकारो व्रतानुष्ठानभेदः। प्रागपि कपिञ्जलेनैवं प्रायमेव कथितम्।
कथमिति। एतत् कामिनीमग्नन्वहणमप्याचरणं मनसापि हृदयेनापि चिन्तयितुं भवतस्तव कथं युक्तम् उचितम् अपि तु कथमपि नेत्यर्थः। आख्यातं स्वच्छन्देन कामिनीं तद्विषयं वा आलपितुम्, ईक्षितुं स्वच्छन्देन कामिनीम् अवलोकितुं किं पुनर्वक्तव्यम् अपि तु किमपि नेत्यर्थः, सर्वस्मिन् स्थले ब्रह्मचर्यव्रतपालनत्वादित्याशयः।
कथयेति। अप्रबुद्ध इव अज्ञानीव। मन्मथहतकेन पापकारिणा कामेन उपहासास्पदतां परिहासास्थानतां नीयमानं प्राप्यमाणं नावबुध्यसे न जानासि ? ननु मन्मथव्यथया प्रज्ञालोपात् नाहमवजानामीति चेत्तमाह—मूढ इति। हि निश्चितम्, मूढो मन्दबुद्धिः मदनेन कामेन आयास्यते पीड्यते, न पुनः स्वयसदृशः प्रवृद्ध इत्यभिप्रायः।
केति। प्राकृतजनैः अज्ञलोकैः बहुमतेषु आदृतेषु, विषयेषु स्रक्चन्दनवनितादिभोग्येषु, भवतस्तव का वा सुखाशा आनन्दतृष्णा अपि तु कापि नेत्यर्थः, तत्सुखस्यापातरमणीयत्वेन परमपुरुषार्थत्वासम्भवादित्यभिप्रायः।
स इति। यो मूढो हिताहितज्ञानरहितो लोकः, अनिष्टानुबन्धिषु अधर्मक्लेशसाधनोत्पादकेषु विषयोपभोगेषु स्रक्चन्दनकामिनीत्यादिसम्भोगेषु सुखबुद्धिम् आनन्दोत्पादकत्वज्ञानम् आरोपयति करोति, स खलु लोकः धर्मबुद्ध्या इदं पुण्यकृत्यमिति धिया विषलतावनं विषवल्लीविपिनं सिञ्चति सलिलेनेति शेषः। कुवलयमाला इन्दीवरस्रक् इति धिया, निर्गतो, निःसृतः त्रिंशतः अङ्गुलीभ्यः त्रिंशदङ्गुलीभ्योऽधिकपरिमाण इति निस्त्रिशः खड्गः स लता वल्लीव लम्बमानत्वात्ताम् आलिङ्गति आशि्लष्यति, कृष्णागुरोः काकतुण्डस्य धूमलेखा दहनकेतनपङ्क्तिरिति बुद्ध्या कृष्णसर्पं दुधर्षभुजङ्गविशेषम् अवगूहते परिण्वजते
जानना हूं, परन्तु मैं केवल इतना ही पूछता हूँ कि यह जो घटना आपने आरम्भ किया है उसे क्या गुरुने उपदेश दिया है ? या धर्मशास्त्रमें पढा है ? अथवा यह धर्म एकत्रित करनेका साधन है ? किंवा किसी प्रकारकी तपस्या है ? या यह स्वर्गमें जानेका मार्ग है। अथवा यह आरब्ध व्रतका कोई गोपनीय नियम है ? किंवा मुक्ति-प्राप्ति करनेके लिए यह एक प्रकारका योग है ? अथवा व्रताचरणका कोई अवान्तर भेद है ? आपको इस विषयको मनमें चिन्ता करना भी क्या उचित है ? स्त्रियोंके साथ आलाप करने किंवा उन्हें देखनेके विषयमें तो कहना ही क्या है ? क्या अज्ञानीके समान, आप यह नहीं जानते कि यह दुराचारी कामदेवने आपको उपहासास्पद बना दिया है ? काम मूर्ख लोगोंको ही कष्ट देता है। साधुजनोंने निन्दित साधारण मनुष्योंके प्रिय इस प्रकारके विषयोंमें आपको सुखकी आशा क्या है ? जो मूढ जन परिणाममें दुःखदायी विषयोपभोगमें सुखकी अभिलाषा करते हैं वे, निश्चय ही धर्म समझकर, विष-लताके वनको सींचते हैं, नीलोत्पलकी माला समझ कर खड्गलता (तलवार) का आलिङ्गन करते हैं, काले अगुरुकी धूम-रेखा समझ कर भयङ्कर सर्पको पालते हैं, रत्न समझ कर जलते अङ्गार (वह्नियुक्त काष्ठ) का
१. सुविदितं सत्यमेतन्मम। २. क्वचित् 'इयम्' इति पदं न विद्यते। ३. क्वचित् 'कथय कि' मित्यपि नावलोक्यते। ४. विपलतां। ५. अवगृह्णाति। ६. महारत्नमिति।
४६२ कादम्बरी- [ कथायाम्-
दुष्टवारणदन्तमुसलम्¹ उन्मूलयति, मूढो विषयोपभोगेष्वनिष्टानुबन्धिषु² यैः सुखबुद्धिमारोप- यति । अधिगतविषयतत्त्वोऽपि कस्मात् खद्योत इव ज्योतिर्निर्वैर्य्यमिदं ज्ञानमुद्वहसि, यतो न निवारयसि प्रबलरजःप्रसरकलुषितानि स्रोतांसीवोन्मार्गप्रस्थितानीन्द्रियाणि, न नियम- यसि वा क्षुभितं मनः। कोऽयमनङ्गो नाम, धैर्यमवलम्ब्य 'निर्भर्त्सयतामयं दुराचारः' इत्येवं वदत एव मे वचनमाक्षिप्य प्रतिपक्ष्मान्तरालप्रवृत्तबाष्पवेणिकं प्रमृज्य चक्षुः करतलेन पाणौ मामवलम्ब्यावोचत्—
( आच्छिद्रति ) । रत्नं मणिरिति धिया ज्वलन्तमङ्गारम् अग्निसहितं काष्ठम् अभिसृशति गृह्णातीत्यर्थः । तथा मृणालं कमल्रकन्दमिति धिया दुष्टवारणस्य अशिक्षितकुपितगजस्य दन्तमुसलं दशनायोध्रम् 'अयोम्रो मुसलोऽस्त्री स्यात्' इत्यमरः । उन्मूलयति उत्पाटयितुं प्रवर्त्तते । परमार्थतोऽनिष्टपादकेषु स्रक्चन्दनवनि- तादिसम्भोगेषु आनन्दोत्पादकतया ज्ञानाध्यासः । पुष्पभ्रान्त्या विषलतावनसेचनमिव परिणामे भीषण- फलेशोत्पादक इत्थं सर्वत्राभिप्रायः ।
इह उक्तविधं बिम्बप्रतिबिम्बभावारोपणं विना वाक्यार्थसमन्वयाऽसम्भवान्माला रूपा निदर्शना । तथा यच्छब्दान्वितवाक्यस्य पूर्वमेव पाठो ज्यायान् अन्यथा विधेयाविमर्शदोषस्य निवारयितुं सर्वथा- सम्भवात् ।
अधीति । अधिगतं ज्ञातं विषयतत्त्वं भोग्यवस्तुस्वभावो येन स तथोक्तः सन्नपि त्वम् , कस्मात्कार- णात् खद्योतो ज्योतिरिङ्गणो ज्योतिः तदीयं तेज इव निर्वीर्यम् अहितनिवारणाभावाद् शक्तिरहितम् इदं ज्ञानम् उद्वहसि धारयसि । तथा च खद्योतो यथा निर्वीर्यं ज्योतिर्धारयति तथा त्वं निर्वीर्यं ज्ञानं धारय- सीति स्पष्टमन्वयः, अत एव न भग्नप्रक्रमत्वम् । इह श्रौतीवोपमा ।
अथ कथं शक्तिरहितमिदमिति ज्ञानमित्यत आह—यत इति । प्रबलः शक्तिशाली यो रजसः रजो- गुणसम्भूतस्य कामस्य प्रसरो वेगः तेन कलुषितानि दूषितानि । तथा चोक्तं गीतायाम्—
'काम एष क्रोध एष रजोगुणसमुद्भवः ।' इति ।
पक्षान्तरे तु प्रबलस्य रजसो रेणोः प्रसरेण • विस्तारेण कलुषितानि मलिनीकृतानि, स्वतःस्रोऽम्भः प्रसरणानि स्रोतांसि तानीव उन्मार्गप्रस्थितानि उत्पथप्रवृत्तानि इन्द्रियाणि चक्षुरादीनि न निवारयसि निवारयितुं समर्थो न भवसि क्षुभितं कामोद्वेलितं मनश्चित्तं वा न नियमसि नियमयितुं निरोद्धुं समर्थो न भवसि, सुतरां तव शक्तिरहितमिदं ज्ञानमित्यभिप्रायः । इह पूर्ववाक्ये पूर्णोपमा ।
कोऽयमिति । कोऽयमनङ्गो नाम नितान्ततुच्छ इत्याशयः । धैर्यं धीरताम् अवलम्ब्य आश्रित्य अयं पुरोदृश्यमानो दुराचारो दुर्व्यवहारो निर्भर्त्स्यतां तिरस्क्रियताम्, इत्येवं पूर्वोक्तप्रकारेण वदतः कथयत एव मे मम वचनं वाक्यम् आक्षिप्य समाप्तेः पूर्वमेव स्ववचनेन विच्छिद्य, प्रतिपक्ष्मान्तराले प्रत्येकलोममध्ये प्रवृत्ता प्रस्र्यन्दिता बाष्पवेणिका नयनाम्बुप्रवाहो यस्य तथोक्तं चक्षुर्नेत्रं प्रमृज्य प्रोञ्छ्य करतलेन पाणि- तलेन पाणौ मामवलम्ब्य मम हस्तौ गृह्ण्वित्यर्थः अवोचत् अब्रवीत् ।
स्पर्श करते हैं, और मृणाल जानकर दुष्ट हाथीके दन्तरूपी मुसलका उत्पाटन करनेमें प्रवृत्त होते हैं । समस्त विषयोंका तत्त्व जानकर भी खद्योत (जुगनू) के प्रकाशके समान निर्वीर्य ज्ञानको धारण करते हैं, क्योंकि—प्रबल रजोगुणजनित कामवेगसे दूषित एवं धूलके विस्तारसे कलुषित नदियोंके समान उत्पथगामी अपने इन्द्रियोंको आप दमन करनेमें समर्थ नही हो सकते, और क्षुभित (कामोद्वेलित) चित्तको भी निरुद्ध करनेमें समर्थ नही हो सकते ? यह कामदेव भी भला कुछ चीज है ! इसलिए धैर्य अवलम्बन कर इस दुराचारीकी भर्त्सना कीजिये । मैं इस प्रकार कह ही रहा था कि इतनेमें (पुण्डरीक) अपने वचनसे मेरे वचनमें बाधा देकर आँखोंमें से प्रत्येक रोओंके अन्तरालमें होकर गिरते अश्रुप्रवाहको अपने हाथसे पोंछकर और मेरा हाथ ।
१. ०'मुसलम् । २. अनुबन्धेपु । ३. परिणतिविरसेषु । - ४. निवार्यमिदं । ५. क्वचिद 'पाणौ' इति पदं न दृश्यते ।
कपिञ्जल प्रति पुण्डरीकोत्तरम् ० ६८ ] चन्द्रकला-विद्योतिनोसहिता ४६३
'सखे ! किं बहुनोक्तेन¹, सर्वथा सुस्थोऽसि²। आशीविषविषवेगविषमाणा मेतेषां कुसुम- चापसायकानां पतितोऽसि न गोचरे, सुखमुपदिश्यते परस्य। यस्य चेन्द्रियाणि सन्ति मनो वा³ वर्त्तते, यः पश्यति वा शृणोति वा श्रुतमवधारयति वा. यो वा शुभमिदं न शुभमि- दमिति विवेक्तुमलम्, स खल्वूपदेशमर्हति। मम तु सर्वमेवेदमतिदूरापेतम्। अवष्टम्भो ज्ञानं धैर्य्यं प्रतिसंख्यानमित्यस्तमितैषा कथा, कथमप्येवमेयतनविधृतास्तिष्ठन्त्यसवः, दूरातीत: खल्बुपदेशकालः, समतिक्रान्तो धैर्य्यावसरः, गता प्रतिसंख्यानवेला, अतीतो ज्ञानावष्टम्भ-
सख इति। सखे मित्र ! किं बहुनोक्तेन किं बहुभाषितेन, सर्वथा सर्वप्रकारेण सुस्थोऽसि उत्पात-शून्योऽसि, अत एव धन्यस्त्वमित्यभिप्रायः। तथा येन हि आश्यां तालुगतदंष्ट्रायां विषं गरलमस्येति आशीविषो विजातीयो सर्पगो मुजङ्गः 'आशीस्तालुगता दंष्ट्रा तया विद्धो न जीवति' इति रामाश्रिटीका। तस्य विषवेगवत् गरल्रवयवत् विषमाणां दुःसहानां कुसुमचापस्य पुष्पधनुषः कामस्येत्यर्थः। सायकानां बाणानां गोचरे विषये न पतितोऽसि, तेन खद्य परस्य पुरुषस्य सम्बन्धे सुखम् अनायासं यथा स्यात्तथा उपदिश्यते उपदेशं दातुं शक्यते, अन्यथा ममेव दशा भवेदित्यभिप्रायः।
इह वृत्त्यनुप्रासः, वाक्यार्थहेतुकं काव्यलिङ्गश्चैयुभयोः परस्परं नैरपेक्ष्येण संसृष्टिः।
इह हि चतुष्प्रकारा दशाः सम्भवन्ति जनानाम्। तत्र केचित् समर्थसकलेन्द्रियशालिनः, केचित् जगद्भाववैपरीत्येन रोगादिना वा किञ्चिद्विकलेन्द्रियः, केचित् संशयाकुलाः, केचिच्च जगद्भावातिवैपरीत्याद् रोगादेर्वा नितान्ताकर्मण्येन्द्रियः। तत्रादितस्त्रिषु उपदेशौचित्यम्, चरमे तु सर्वथैवोपदेशानर्हत्वमिति विभागं प्रदर्श्य निरूपयितुमाह—यस्येति। इन्द्रियाणि चक्षुरादिनिजनिजपदार्थग्रहणयोग्यानि करणानि, मनो वा सर्वथोत्पातरहितमित्याशयः। अनेकयोगसमस्तेन्द्रियशालित्वमंपमभिहितम्। यो वा जनः पश्यति, उद्वेगेन पित्तदोषादियुक्तेन वा नयने किञ्चिद्विकले जातेऽपि येन केनापि प्रकारेणावलोकयितुं समर्थो भवति, शृणोति वा उद्वेगेन मलादिना वा श्रवणे किञ्चिद्विकले जातेऽपि केनापि प्रकारेण श्रोतुं समर्थो भवति, श्रुतमवधारयति वा उद्वेगेन अन्यचेष्टया वा चित्ते किञ्चिद्विकले जातेऽपि श्रुतं विषयम् अवधारयितुं समर्थो भवति। अनेन किञ्चित् विकलेन्द्रियशालित्वमभिहितम्। यो वा जनः, इदं कृत्यं शुभं मङ्गलम् अथवा न शुभम् इति' इति विवेक्तुं विवेचनं विधातुम् अलं समर्थः, संशयानन्तरं कस्यचिदुपदेशे ज्ञाते इत्याशयः। अनेन संशयाकुलत्वमभिहितम्। स खलु प्रदर्शितरूपस्त्रिप्रकारक एव जन उपदेशयोग्यो वर्त्तते तत्फलस्य तत्रैव सम्भवादित्याशयः। तु किन्तु मम पुण्डरीकस्य इदम् इन्द्रियोपलम्भादिकं विवेचनपर्यन्तं सर्वमेव, अतिदूरपतितम्। अतिदूरं गतम्, मदनावेज्ञासितान्ताकर्मण्येन्द्रियतया तद्विद्यमानादिफलासत्त्वादित्याशयः। अनेन स्वस्य तुरीयरूपार्थं प्रतिपादितम्।
तत्प्रयोजनं दर्शयति—अदेति। अवष्टम्भः सदाचरणावलम्बनम्, ज्ञानं प्रबोधः, धैर्यं बाह्येन्द्रियनिरोधः, प्रतिसंख्यानं मातृवत्परधुविवेचनम्, इत्येषा कथा वात्तां अस्तमिता अस्तमुपगता। एवम् अयत्नविधृता रक्षणप्रवृत्त्यभावेऽपि स्वयमवस्थिताः, असवः प्राणाः कथमपि तिष्ठन्ति मम शरीरे वर्त्तन्ते। अनेन सम्प्रति प्राणप्रयानेऽपि न हानिरिति ध्वनितम्। धैर्यस्य अवसरः अवलम्बनसमयः समतिक्रान्तो व्यतीतः। प्रतिसंख्यानवेला साध्वनाधुविवेचनकालः गता दूरीभूता। ज्ञानस्य प्रबोधस्य अवष्टम्भसमयः
दण्ड कर वह मुझसे कहने लगा—'मित्र ! बहुत कहने से क्या लाभ ? तुम सब तरहसे स्वस्थ हो, क्योंकि-भयंकर सर्पके विषवेगके समान असह्य कामदेवके विषम बाणके लक्ष्य नहीं हुए हो, इसलिए ही अनायाससे दूसरोंको उपदेश देनेमें समर्थ हो। जिसकी इन्द्रियाँ जागृत हैं, चित्त ठिकाने हो, जो अवलोकन कर सकता हो, श्रवण कर सकता हो अथवा सुनकर विचार कर सकता हो, किंवा जो 'यह विषय अच्छा है, यह विषय बुरा है' इस प्रकार उपदेश पाकर विवेचना करनेमें समर्थ हो, वह व्यक्ति ही उपदेश देनेके योग्य है, परन्तु मेरे समीप से तो ये सबके सबही अधिक दूर चले गए हैं। अब एव सदश्य अवलम्बन करना, ज्ञान, धैर्य और सदसद्विवेक करना—ये सब अस्त हो गए, प्राण नहीं रखनेका प्रयत्न करता हूँ, किन्तु न जाने वे कैसे इस रूपमें ही अवस्थित हैं; उपदेशका समय तो अब बहुत दूर चला गया, धैर्य अवलम्बन करनेका समय भी अब बीत गया; सदसद्विवेचनाका
१. बहुतेन।
२. स्वस्थोऽसि।
३. क्वचित् 'मनो वा' इति नागराक्षरे विष्ट इति ?
४६४ कादम्बरी- [ कथायाम्-
समयः। केन वाऽन्येनास्मिन् समये भवन्तमपहायोपदेष्टव्यम्, उन्मार्गप्रवृत्तिनिवारणं वा करणीयम्, कस्यापरस्य वचसि मया स्थातव्यम्, को वाऽपरस्त्वत्समो मे जगति बन्धुः। किं करोमि यन्न शक्नोमि निवारयितुमात्मानम्, इयन्मानेनैव क्षणेन भवता दृष्टा दुष्टावस्था, तद्गत इदानीमुपदेशकालः। यावन् प्राणिमि तावदस्य कल्पान्तोदित-द्वादश दिनकर-किरणा-तप-तीव्रस्य मदनसन्तापस्य प्रतिक्रियां क्रियमाणामिच्छामि। पच्यन्त इव मेऽङ्गानि, उत्कथ्यत इव हृदयम्, प्लुष्यत इव दृष्टिः, ज्वलतीव शरीरम्। अत्र यत् प्राप्तकालं तत् करोतु भवान्' इत्यभिधाय तूष्णीमभवत्।
एवमुक्तोऽपि अहमेनं प्राबोधयं पुनः पुनः। तदा शास्त्रोपदेशविशदैः सनिदर्शनैः
अवलम्बनवेला प्रतीताः अतिक्रान्तः।
केनेति। अस्मिन् समये इदानीं भवन्तं त्वाम् अपहाय परित्यज्य केन लोकहितैषिणा उपदेष्टव्यम् शिक्षयितव्यम् न केनाऽपीत्यर्थः। उन्मार्गप्रवृत्तिनिवारणीयम् असत्यप्रतिषेधो वा (केन) करणीयं विधेयम्। अन्यस्य त्वद्व्यतिरिक्तस्य कस्य वचसि स्थातव्यं कस्य वक्यानुसारेण प्रवर्तितव्यम्। तत्र कारणमाह-क इति अपरोऽन्यः कः त्वत्समो भवत्सदृशो मे मम जगति संसारे बन्धुर्त्राता।
किमिति। किं करोमि किं कुर्वे, यत् यस्मात्कारणात्, आत्मानं स्वं निवारयितुं दुष्टप्रवृत्तेर्निरोद्धुं न शक्नोमि समर्थो न भवामि। अनेनैव क्षणेन समयेन भवता त्वया इयं दुष्टावस्था क्लेशदायिनी दशा दृष्टा अवलोकिता। अधुना कामावेशवशादचेतनवन्निष्पन्दरूपेण यदहमासं तत्सर्वं भवता दृष्टैवेत्यर्थः। तत्तस्मात् कारणात् इदानीं सम्प्रति गतो व्यतीतः उपदेशकालः शिक्षाप्रदानसमयः।
यावदिति। यावत् यावत्कालपर्यन्तम् अहं प्राणिमि जीवामि तावत् तावत्कालपर्यन्तम्, कल्पान्ते प्रलयसमये उदिता उदयं प्राप्ता ये द्वादशदिनकरा द्वादशसंख्याकाः सूर्याः तेषां किरणातपवत् रश्मि-सन्तापवत् तीव्रस्य, कठोरस्य, अस्य विद्यमानस्य मदनसन्तापस्य कामज्वरस्य प्रतिक्रियां उपशमं क्रियमाणां भवतैव विधीयमानाम् इच्छामि अभिलषामि, विवेकादिप्रतिक्रियाया असत्त्वे तया सह सङ्गम-रूपाप्राकृतप्रकृतिकैवैव भवता विधेया अन्यथा न प्र.जिमीत्यभिप्रायः।
इह ......'किरणातपतीव्रस्ये'त्यत्र लुप्तोपमा।
तीव्रतातपसम्पर्के पदार्थानां पाकाथदाहज्वलनसंज्ञाश्चतस्रो दशाः सम्भवन्ति, कन्दर्पतातपसन्ता-पेन यथाक्रमं स्वस्य ताः सर्वा निस्तरयितुमाह-पच्यन्त इत्यादि। मे मम अङ्गानि करचरणादीनि पच्यन्त इव पाकविषयीक्रियन्त इव मदनसन्तापेनेति शेषः। एवमग्रेऽपि सर्वत्र। हृदयं मनः उत्कथ्यत इव काथं प्राप्यत इव, दृष्टिलोचनं प्लुष्यत इव दह्यत इव, शरीरं देहं ज्वलतीव भस्मीभवन्तीव।
अत्रेति। प्राप्तः उपस्थितः कालः समयो यस्य तत् प्राप्तकालम् एतत्समयोचितं यत् तया सह सङ्ग्मरूपमित्यर्थः, भवान् तत्करोतु तद्विदधातु इति पूर्वोक्तम् अभिधाय उक्त्वा तूष्णीं मौनम् अभवत्।
एवमिति। एवम् अनेन विधिना उक्तोऽपि कथितोऽपि अहम् एनं पुण्डरीकं प्राबोधय ज्ञानमकार-यम्। पुनः पुनर्भूयो भूयः शास्त्रोपदेशेन धर्मप्रतिपादकग्रन्थशिक्षया विशदैः स्वच्छैः, सनिदर्शनैः दृष्टान्त-
काल भी अब जाता रहा एवं ज्ञानसे चित्तको धारण करनेका समय भी हो चुका। इस समय तुम्हारे अतिरिक्त न कोई मुझे उपदेश दे सकता है, न असत्पथमें जानेसे कोई निवारण कर सकता है, न ही अन्य जिसके वचनके अधीन रह सकता हूँ? इस संसारमें तुम्हारे समान मेरा अन्य बन्धु कौन हो सकता है? क्या करूँ? चित्तसे भी मनको निवारण करने (रोकने) में समर्थ नहीं हो रहा हूँ। मेरी कैसी दुरवस्था हो गई है इसे इस समय तुम देखते ही हो; इसलिए उपदेश देनेका समय तो अब जाता रहा। मैं केवल यही चाहता हूँ कि जितनी देर तक मैं जीवित हूँ उतनी देर तक—प्रलयकालमें उदय होने द्वादश सूर्योंकी किरणोंके तापके समान अत्यन्त तीव्र इस मदन-सन्तापको दूर करनेके लिए तुम कुछ उद्योग करो। मेरे अंग मानो रंधे (पके) जाते हैं, हृदय मानो उबला जाता है; नेत्रोंमें मानो दाह हो रहा है; शरीर मानो जला जाता है; इसलिए इस समय जो कुछ उचित हो तुम वही करो' इतना कहकर वह चुप हो गया।
इसके इस प्रकार कहने पर भी मैं उसको बराबर समझाने लगा, परन्तु अब शास्त्रीय उपदेशसे निर्मल,
१. दृष्टावस्था, रुदत्या दृष्टा।
२. उत्क्लेदि।
पुण्डरीकाधिज्वरशमनव्यापार० ६९] चन्द्रकला-विद्योतिनीसहिता । ४६५
सेतिहासैश्च वचोभिः सानुनयं सोपग्रहञ्चाभिधीयमानोऽपि नाकरोत् कर्णे, तदाहमचिन्तयम्—‘अतिभूमिमयं गतो न शक्यते निवर्त्तयितुमिति' इदानीं निरर्थकाः खलूपदेशाः, तत्प्राण-परिरक्षणेऽपि तावदस्य यत्नमाचरामि' इति कृतमतिरुत्थाय गत्वा तस्मात् सरसः सरसा मृणालिकाः समुद्धृत्य, कमलिनीपलाशानि जल-लव-लाञ्छितान्यादाय, गर्भ धूलि-कषाय-परिमल-मनोहराणि च कुमुद-कुवलय-कमलानि गृहीत्वागत्य तस्मिन्नेव लतागृह-शिलातले शयनमस्याकल्पयम् । तत्र च सुखनिषण्णस्य प्रत्यासन्नवर्त्तिनां चन्दनविटपिनां मृदूनि किसलयानि निष्पीड्य तेन स्वभावसुरभिणा तुषारशिशिरेण रसेन ललाटिकामकल्पयम् , आचरणादङ्गचर्च्चाञ्चारचयम् । अभ्यर्ण-पादप-स्फुटित वल्कल-विवर-शीर्णेन च करसञ्चूर्णितेन कर्पूररेणुना
सहितैः, सेतिहासैः पुरावृत्तसहितैः वचोभिर्वाक्यैः, सानुनयं सप्रणयं सोपग्रहं सानुकूल्यञ्च यथा स्यात्तथा ‘उपग्रहः पुमान् वन्द्यामुपयोगेऽनुकूलने’ इति मेदिनी । अभिधीयमानः कथ्यमानोऽपि कर्णे श्रवणे नाकरोत् अनाकर्णितमिव मदुक्तमकार्षीदित्यर्थः । तथा तस्मिन् समये अहम् अचिन्तयम् अप्यायम्—‘अतिभूमिं मदनस्य चरमां दशां गतः प्राप्तः, अत एव केवलम् उपदेशेन निवर्त्तयितुं ततो व्यावर्तयितुं न शक्यते न पार्यते, इति हेतोः, इदानीं सम्प्रति खलु निश्चयेन उपदेशाः शिक्षावचनानि निरर्थकाः निष्फलाः । तावत् प्रथमम् अस्य पुण्डरीकस्य प्राणपरिरक्षणेऽपि जीवितपरित्राणेऽपि यत्नम् उपायम् आचरामि विदधे इति एवं कृतमतिः कृतबुद्धिरहम् उत्थाय गत्वा प्रव्रजित्वा च अच्छोदाभिधं सर इति शेषः । तस्मात्सरसः अच्छोदसरोवरात् सरसा अभिनवत्वाद्याम्यन्तरिकद्रवसंयुताः मृणालिकाः कमलिनीः समुद्धृत्य उत्पाट्य, ताम्भो जलस्य सलिलस्य लवैः कणैः लाञ्छितानि चिह्नितानि व्याप्तानि, अतएवाधिकशीतलानीत्याशयः, कमलिनीपलाशानि नलिनीपत्राणि आदाय गृहीत्वा । गर्भे अभ्यन्तरे या धूलयः परागाः तासां कषायपरिमलैः सुरभिगन्धैः मनोहराणि सुन्दराणि, कुमुदानि श्वेतकमलानि कुवलयानि नीलकमलानि कमलानि पङ्कजानि च तानि गृहीत्वा आदाय आगत्य समेत्य तस्मिन्नेव लतागृह-शिलातले लताभवनप्रस्तरस्थले अस्य पुण्डरीकस्य शयनं तल्पम् अकल्पयम् अकरवम् ।
तत्रेति । किञ्च, आसन्नवर्त्तिनां निकटस्थायिनां चन्दनविटपिनां मलयजवृक्षाणां मृदूनि सुकुमाराणि किसलयानि पल्लवानि निष्पीड्य संमर्द्य, तेन अनिर्वचनीयेन स्वभावेनैव स्वारसिकेनेव सुरभिणा सौरभवता, तुषारो हिमं तद्वत् शिशिरेण शीतलेन रसेन निर्यासेन करणेन, तत्र प्रागुपकल्पितशयने सुखनिषण्णस्य सुस्थभावेनोपविष्टस्य पुण्डरीकस्य ललाटिकां तिलकविशेषम् अकल्पयम् अकरवम् , आचरणात् पादादारभ्य अङ्गचर्चां शरीरलेपनञ्च अरचयम् अकरवम् , शैत्यायेत्याशयः ।
इह तुषारशिशिरपदयोस्तुल्यतया श्रवणमात्रेण पौनरुक्त्यप्रतीतिः, अनन्तरञ्च तुषारवत् शिशिर इत्यर्थकरणात् पुनरुक्तवदाभासोऽलङ्कारः ।
अभ्यर्णेति । अभ्यर्णस्य समीपावस्थायिनः पादपस्य कर्पूरत्तरोः स्फुटितानि स्वयं भिन्नानि यानि वल्कलानि तरुत्वचः तेषां विवरेभ्यः छिद्रेभ्यः शीर्णेन निर्गतेन कराभ्यां हस्ताभ्यां सञ्चूर्णितेन निष्पिष्टेन कर्पूर-
दृष्टान्त-समन्वित और इतिहास-संयुक्त वाक्यों द्वारा अनुनय और आग्रहके साथ समझाने पर भी उसने कानमें रँगने तक (ध्यान) नहीं दिया, तब मैंने विचार किया कि—‘यह काम की अन्तिम दशा पर उपस्थित हो गया है इसलिए उपदेशसे इसकी निवृत्ति नहीं हो सकती है, अब सब उपदेश निरर्थक हैं । अत एव मै इसकी प्राण-रक्षाका प्रयत्न करता हूँ ।' इस प्रकार निश्चय करके मैंने उठकर प्रस्थान किया और उन सरोवरमेंसे सरस (हरी) मृणाल तोड़कर जल-विन्दु-सहित कमलके पत्ते, एवं अभ्यन्तरस्थ-रेणुके तृप्तिकर सौरभसे मनोहर लगते कितने कुमुद, नीलोत्पल और कमल लाकर मैंने लतामण्डपस्थित-प्रस्तरखण्ड (शिलातल) पर उसके लिए शय्या निर्माण कर (बिछौना बिछा) दिया । उसके ऊपर जब वह आनन्दसे बैठा तब समीपवर्ती चन्दन-वृक्षोंके कोमल पल्लव निष्पीडित (पीस) कर, मैंने उनका स्वभावसे ही सुगन्धित और हिमके समान शीतल रस उसके ललाट पर तिलक विशेष कर दिया (चुपटा) और चरणोंके तलुओं तक सर्वाङ्ग शरीरमें लेप किया । एवं निकट-वर्ती वृक्षोंमेंसे फलित छालके छिद्रों (दरारों) मसे निर्गत (रिसते) कपूरको हाथसे चूर्णी करके उससे प्रस्वेद-
१. क्वचित् 'इति' पदं न विद्यते । २. क्वचिच्च 'जल-लव' इत्यादि पदं न दृश्यते । ३. चादाय । ४. चन्दनविटपादीनां । ५. करसम्पुटचूर्णितेन ।
| ४६६ | कादम्बरी- | [ कथायाम्- |
|---|
स्वेदप्रतीकारम्¹ अकरवम्। उरेऽनिहितचन्दनद्रवार्द्रवल्कलस्य स्वच्छसलिलशीकरस्राविणो कदलीदलेन व्यजनक्रियामन्वतिष्ठम्। एवञ्च मुहुर्मुहुरन्यदन्यन्नलिनी²-दलशयनमुपकल्पयतः, मुहुर्मुहुश्चन्दनचर्चामारचयतः मुहुर्मुहुश्च स्वेदप्रतिक्रियां कुर्वतः, कदलीदलेन चानवरतं⁵ वीजयतः समुदभून्मे मनसि चिन्ता-'नास्ति खल्वसाध्यं नाम भगवतो मनोभुवः। क्वायं हरिण इव वनवासनिरतः स्वभावमुग्धो⁶ जनः, क्व च विविध-विलास-रस-राशिर्गन्धर्वराजपुत्री महाश्वेता। सर्वथा नहि किञ्चिदस्य दुघटं दुष्करमनायत्तमकत्तंव्यं वा जगति। दुरुपपादेष्वप्यर्थेष्वयं अवज्ञया विचरति। न चायं⁸ केनापि⁹ प्रतिकूलयितुं शक्यते। का वा गणना सचेतनेषु, अपगतचेतनान्यपि सङ्घटयितुमलं¹⁰, यद्यस्मै रोचते, कुमुदिन्यपि¹¹ दिनकरकरानुरागिणी भवति,
रेणुना कर्पूरधूलिना स्वेदप्रतीकारं घर्मशोषणञ्च अकरवम् अरचयम्।
उर इति। उरसि वक्षःस्थले निहितेन दत्तेन चन्दनद्रवेण मलयजरसेन आर्द्रं क्लिन्नम् उत्तरीयवल्कलं यस्य तस्य तथोक्तस्य पुण्डरीकस्य करचरणादिभिरित्यर्थः, स्वच्छानिर्मलाः सलिलशीकराः जलविन्दवः तत्स्राविणा वर्षकेण कदलीदलेन रम्भापत्रेण व्यजनक्रियां वायुसञ्चालनम् अन्वतिष्ठम् अकरवम्।
एवमिति। किञ्चेति चार्थः। एवम् अनेन विधिना मुहुर्मुहुः वारंवारम् अन्यदन्यत्, गात्रसन्तापेन पूर्वपूर्वस्य म्लानत्वादियाशयः। नलिनीदलशयनं कमलिनीपत्रशय्याम् उपकल्पयतो विदधतः। चन्दनचर्चां मलयजमण्डनम् आरचयतः कुर्वतः गात्रसन्तापेन पूर्वपूर्वस्याः शुष्कत्वादियाशयः। स्वेदप्रतिक्रियां घर्मजलप्रतीकारं तच्छोषणमिति तात्पर्यम्। कुर्वतो विदधतः। कदलीदलेन रम्भापत्रेण च अनवरतं निरन्तरं वीजयतः पवनं सञ्चालयतः मे मम मनसि चिन्ता समुदभूत् प्रादुरभूत्-
नास्तीति। भगवतो मनोभुवः कामदेवस्य असाध्यम् अनिष्पाद्यं नास्ति न विद्यते। हरिणो मृग इव वनवासनिरतः अरण्यवास्थानतत्परः, अयं जनः पुण्डरीकः, स्वभावेन प्रकृत्यैव मुग्धः सरलहृदयः। विविधा नानाप्रकारा ये विलासरसा विभ्रमभावाः तेषां राशिः समूहो यत्र सा तथोक्ता महाश्वेता च क्व। नितान्तविरुद्धस्वभावयोरनयोरन्योन्यभावावेशोत्पादनान्मनोभुवः किमपि दुष्करं नास्तीत्याशयः।
इह विषमयोः सङ्घटनया विषमालङ्कारः श्रौतोपमा चेत्युभयोः सङ्करः।
सर्वथेति। अस्य मनोभुवः, जगति संसारे, सर्वथा सर्वप्रकारेण दुर्घटं दुःसाध्यं दुष्करं कठिनम् अनायत्तम् अनधीनम् अकर्त्तव्यम् अकरणीयं वा किञ्चित् नास्ति स्वरूपं न विद्यते। अस्य सर्वं सुसाध्यमित्यर्थः। अयं मनोभूः दुरुपपादेष्वपि अन्यैर्दुष्करेप्वपि अर्थेषु विषयेषु अवज्ञाया नितान्तानादासविधेयत्वज्ञानादवहेलया विचरति प्रवृत्तो भवति। केनापि बुद्धिमता पुरुषेण अयं मनोभूः प्रतिकूलयितुं प्रतिरोधुं न च शक्यते पार्यते।
का वेति। सचेतनेषु मानवादिषु का गणना? अपगतचेतनान्यपि जडादीन्यपि सङ्घटयितुं संयोजयितुम् अलं समर्थः 'अयं मनोभूरि'ति शेषः। यदि चेत् अस्मै मनोभुवे रोचते संयोजयितुमभिलाषा भवति, तदा कुमुदिन्यपि कैरविण्यपि दिनकरकरानुरागिणी सूर्य्यरश्म्यनुरक्ता भवतीत्यादि सङ्गमनीयम्।
जल (पसीना) दूर किया। वक्षःस्थल (छाती) पर चन्दन-रसमें आर्द्र किया हुआ वल्कल रखकर निर्मल जल-विन्दु टपकाते हुए कदली-पत्रद्वारा उसका पखा किया। यों बारंबार कमलपत्रोंकी शय्याको एकके पीछे दूसरा बदलते-बदलते, बारबार चन्दन लेप करते करते, बारबार पसीना पोंछते पोंछते और कदली-दल द्वारा अनवरत पवन करते करते, मेरे मनमें यह चिन्ता उत्पन्न हुई कि—'इस संसारमें वास्तवमें भगवान् कामदेवके असाध्य कुछ नहीं है। कहाँ हरिणके समान वनवासमें निरत एवं स्वभावसे ही सरल-चित्त पुण्डरीक और कहाँ नानाविध विलास और हावभावसम्पन्ना गन्धर्वराजपुत्री महाश्वेता !! इस (संसार) में कामदेवके सर्वथा दुर्घट, दुष्कर अस्वाधीन या अकर्त्तव्य कुछ भी नहीं है! दुष्कर कार्योंको भी वह (कामदेव) अवहेलनापूर्वक करता है और किसी व्यक्तिमें उसके प्रतिरोध करने का सामर्थ्य नहीं है। सचेतन पदार्थोंका तो क्या अचेतन पदार्थोंको भी वह परस्पर संयोजन करनेमें समर्थ है। यदि इसका अभिप्राय हो तो कुमुदिनी भी रवि किरणोंमें अनुरागिणी
१. स्वेदप्रतिक्रियान्।
२. क्वचित् 'स्वच्छसलिलशीकरनिकरस्त्राविण' इति पाठो दृश्यते।
३. नलिनदल।
४. क्वचिद् द्विरुक्तिर्नास्ति।
५. कदलोदलेनानवरतम्।
६. स्वभावविषयविमुखः।
७. दुरुपपादेष्वर्थेषु।
८. नायन्।
९. केनचित्।
१०. सङ्घट्टयितुमलम्।
११. तत्कुमुदिन्यपि, यत्तत्कुमुदिन्यपि।
पुण्डरीकस्यज्वरसन्तापेत्यादि० ६९ ] चन्द्रकला-विद्योतिनीसहिता । ५६७
कमलिन्यपि शशिकरद्वेषमुज्झति, निशापि वासरेण सह मित्रतामेति, ज्योत्स्नाऽप्यन्धकारमनुवर्त्तते, छायापि प्रदीपाभिमुखमवतिष्ठते, तडिदपि जलदे स्थिरतां व्रजति, जरापि यौवनेन सञ्चारिणी भवति । किंवा तस्य दुःसाध्यमपरम्, एवंविधो येनायमगाधगाम्भीर्यसागरस्तृणवलघुताम्१ उपनीतः । क्व तपः क्वेयमवस्था। सर्वथा निष्प्रतीकारेयमापदुपस्थिता। किमिदानीं कर्त्तव्यम्, किंवा चेष्टितव्यम्,२कां दिशं३गन्तव्यम्, किं शरणम्, को ४वा उपायः, कः सहायः, कः प्रकारः, का युक्तिः, कः समाश्रयः, येनास्यासवः सन्धार्यन्ते५। केन वा कौशलेन, कतमया वा युक्त्या, कतरेण वा प्रकारेण, केन वावष्टम्भेन, कया प्रज्ञया, कतमेन वा समाश्वासनेनायं जीवेत्' इत्येते चान्ये च मे विषण्णहृदयस्य सङ्कल्पाः प्रादुरासन् । पुनश्चाचिन्तयम्-'किमनया अत्यन्तायतया निष्प्रयोजनया चिन्तया। प्राणास्तावदस्य येन केनाप्युपायेन शुभे-
कमलिन्यपि नलिनीति शशिकरद्वेषं चन्द्रद्वेषम् उज्झति त्यजति, निशापि रात्रिरपि वासरेण दिवसेन सह मित्रताम् एकताम् एति प्राप्नोति, ज्योत्स्नापि चन्द्रिकापि अन्धकारं तमः अनुवर्त्तते तद्रूपतां भजतीत्यर्थः। छायापि सूर्यदिनापि प्रदीपाभिमुखं दीपमाभिमुख्यम् अवतिष्ठते, तडिदपि विद्युदपि जलदे मेघे स्थिरतां स्थैर्यं व्रजति गच्छति, जरापि वार्द्धक्यमपि यौवनेन तारुण्येन सह सञ्चरणशीला भवतीत्यर्थः। एवञ्च एतान्यस्मै न रोचन्ते अत एव कुमुदिनीप्रभृतयः सूर्यकिरणानुरक्तादिरूपा न भवन्तीत्याशयः।
किमिति। येन मनोभुवा, एवंविधः पूर्वरूपः अगाधगाम्भीर्यसागरः अयं पुण्डरीकः तृणवत् लघुतां निःसारताम् उपनीतः प्रापितः, तस्य मनोभुवः अपरम् अस्मादन्यत् किंवा दुःसाध्यं दुष्करमस्तीति सम्बन्धः, नापि तु किमपि नास्तीत्यर्थः। इहार्यापत्तिः।
क्वेति। इयम् अवलोक्यमाना अवस्था नितान्तव्यग्रा दशा क्व तत् अनिर्वचनीयस्वरूपं तपः क्व, द्वौ द्वौ महदन्तरं सूचयतः। सर्वथा सर्वप्रकारेण निष्प्रतीकारा असाध्या इयं दृश्यमाना आपत् विपद् उपस्थिता प्राप्ता। इदानीं सम्प्रति किं कर्त्तव्यं विधेयम्। किं वा चेष्टितव्यम् आचरितव्यम्। गन्तव्यमित्यत्र भावे तव्यत्प्रत्ययः। शरणं रक्षकम् 'करणं गृहरक्षित्रोः' इत्यमरः। सहायः साहाय्यकृत् प्रकार एनद्विपत्प्रतिक्रियाया मार्गः। युक्तिः एतत्प्रतीकारसाधनाय उपपत्तिः। समाश्रयः अवलम्बनम्। येन कृत्वा अस्य पुण्डरीकस्य असवः प्राणाः सन्धार्यन्ते अवस्थाप्यन्ते मया (कपिज्जलेन) संरक्ष्यन्त इत्यर्थः।
इत्येते। कौशलेन चातुर्येण। युक्त्या उपपत्त्या। प्रकारेण मार्गेण। अवष्टम्भेन उपायाश्रयणेन। प्रज्ञया तद्धातुविद्यया बुद्ध्या। समाश्वासनेन सान्त्वनेन, जीवेत् प्राणं रक्षेत्। विषण्णहृदयस्य खिन्नमानसस्य सङ्कल्पा वितर्काः प्रादुरासन् प्रकटीबभूवुः।
पुनरिति। पुनर्भुयः, अचिन्तयं चिन्तितवान्-सनदा प्रत्ययविद्यमानया अत्यन्तायतया अपारत्वादतिविस्तीर्णया निष्प्रयोजनया निरर्थकया चिन्तया ध्यातया। नन्वेवं तर्हि विश्रम्यतामित्यत आह-प्राण इति। शुभेनाशुमेन मङ्गलेनामङ्गलेन वा येन केनचित् उपायेन, उद्योगेन अस्य पुण्डरीकस्य प्राणा
हो जाती है; कमलिनी भी चन्द्र-किरणोंके प्रति विद्वेष छोड़ देती है; रात्रि भी दिनके साथ मिश्रित हो जाती है; ज्योत्स्ना (चाँदनी) भी अन्धकारका अनुकरण करती है; छाया भी प्रदीपके सामने रहती है; विद्युत् भी मेघमें स्थायित्व प्राप्त कर लेती है; वृद्धावस्था भी तारुण्यके साथ सञ्चार करती है। जब उसने इस प्रकारके अगाध गाम्भीर्यके सागर पुण्डरीकको तृणके समान लघु (तुच्छ) कर डाला, तब इसे और क्या दुष्कर रहा ? कहाँ वह तपस्या और कहाँ यह अवस्था ? इस विपत्तिका मुक्त होने (छुटकारा पाने) का सर्वथा कोई उपाय नहीं है। इस समय क्या करना ? कैसी चेष्टा करना ? किस दिशाको जाना ? किसकी शरण लेना ? क्या उपाय करना ? किससे सहायता लेना ? किस मार्गसे चलना ? किस युक्तिका अवलम्बन करना ? किसका आश्रय लेना कि जिससे इसके प्राणरक्षा कर सकें? किस चतुरतासे ? किस युक्तिसे ? किस मार्गसे ? किस उपायके अवलम्बनसे ? किस बुद्धिसे ? किस समाश्वासनसे यह जीवित रह सकता है ?' इस प्रकारके और अन्यान्य प्रकारके सङ्कल्प मेरे विषण्ण (खिन्न) चित्तमें उपस्थित होने लगे। एवं फिरमै चिन्ता करने लगा कि-'अत्यन्त दीर्घ एवं प्रयोजनरहित ऐसी चिन्ता करनेसे क्या लाभ ? उचित या अनुचित चाहे जिस किसी उपायसे इसके प्राणोंकी रक्षा तो करनी ही
१. तृणमिवलघुताम्। २. किमिवचेष्टितव्यम्। ३. देशो। ४. कश्च। ५. धार्यन्ते। ६. ध्यातया सनयानापायथा, अत्यन्तायतया।
| ४६८ | कादम्बरी- | [ कथायाम्- |
|---|
नाशुभेन वा रक्षणीयाः। तेषाञ्च तत्समागममेकमपहाय नास्त्यपरः संरक्षणोपायः। बालभावादप्रगल्भतया च तपोविरुद्धमनुचितमुपहासमिव आत्मनो मदनव्यतिकरं मन्यमानो नियतमेकोच्छ्वासावशेषजीवितोऽपि नायं तस्याः स्वयमभिगमनेन पूरयति मनोरथम्। अकालान्तरक्षमश्चायमस्य मदनविकारः। सततमतिगर्हितेनाकष्ट्येनापि³ रक्षणीयान्⁴ मन्यन्ते सुहृदसून साधवः। तदतिहेपणमकत्र्त्तव्यमप्येतदस्माकमवश्यकत्र्त्तव्यतामापतितम्। किञ्चान्यत् क्रियते, का चान्या गतिः, सर्वथा प्रयामि तस्याः सकाशम्, आवेदयान्येतामवस्थाम्' इति चिन्तयित्वा चै⁵ 'कदाचिदनुचितप्रवृत्तं मां विज्ञाय सञ्जातलब्जो निवारयेदित्यनिवेद्यैव तस्मै तत्प्र-
असवो रक्षणीयाः पालनीयाः मयेति शेषः। अत एव तदुपयोगोऽवश्यं विधातव्य इत्याशयः।
अथैवं भवता कः खलु पायः मनसि सन्धार्यते इत्यत आह—तेषामिति। अपि चेति चार्थः। तस्या महाश्वेतायाः समागमं संमेलनरूपम् एकम् उपायम् उद्योगम् अपहाय त्यक्त्वा, अपरोऽन्यः, तेषां प्राणानां संरक्षणोपायो नास्तीति सम्बन्धः।
एवं सति पुण्डरीकः स्वयमेव तत्रोपेत्य महाश्वेतया समागमं विदधात्वित्यत आह—बालेति। एक एव उच्छ्वासो निश्वासोऽवशेषोऽवशिष्टो यस्य एवंविधं जीवितं प्राणितं यस्य सः गमनोद्यतप्राणोऽपीत्यर्थः, अय पुण्डरीकः, तपोविरुद्धं व्रतविरोधि अनुचितम् अयोग्यम् अत एव च उपहासमिव आत्मनः स्वस्य मदनव्यतिकरम् इदं कामावेशं मन्यमानं ज्ञायमानः सन् हीजनकत्वादित्याशयः, बालभावाद् बालत्वेन पूर्वाभ्यस्तकौशलाभावात्, अप्रगल्भतया प्रत्युत्पन्नधार्ष्ट्याभावं च तारुण्यवाङ्मनोवकामिनीसुरतोपयोगिकौशलाभावेन च कारणेनेत्यर्थः, स्वयं निजेनैव गत्वा तस्या महाश्वेताया अभिगमनेन संमिलनेन मनोरथम् अभिलापं न पूरयति न पूरयितुं शक्नोति इति नियतं ध्रुवम्; अत एवास्य प्राणसन्देह एव सञ्जात इत्याशयः।
ननु प्राप्तकाले समस्तस्यैव विनाशदर्शनात् कञ्चित्समयं प्रतीक्षतां स्वयमेवेयं कामदशा विनाशमेष्यतीत्यत आह—अकालेति। अकालान्तरक्षमः समयविलम्बासहः। अतः शीघ्रमेवास्य प्रतीकाराय मयोद्योगो विधातव्य इत्यभिप्रायः।
सम्प्रति प्रतीकाराय स्वस्यैव प्रवर्त्तनमुचितमिति प्रतिपादयितुं तत्र शिष्टसंमतिं दर्शयति—सततमिति। सततं निरन्तरम् अतिगर्हितेन अतिनिन्दितेन अकष्ट्येन अतिनिन्दितरवादेवाकार्येन विधातुमशक्येनाप्युद्योगेन साधवः सन्तस्सुहृदसूनू मित्रप्राणान् रक्षणीयान् पालनीयान् मन्यन्ते जानन्ति। ततस्माद् कारणात्, अतिहेपणं नितान्तलज्जाकरम् अकर्त्तव्यम् अविधेयमपि तापसत्वादित्याशयः, एतत् महाश्वेतया सह पुण्डरीकस्य समागमनम् अस्माकं पुण्डरीकमार्गानुवर्त्तिनाम् अवश्यकर्त्तव्यतां नियतविधेयताम् आपतितम् उपस्थितम्।
किञ्चेति। अन्यत् एतद्व्यतिरिक्तं किं क्रियते विधीयते। अन्या-एतद्व्यतिरिक्ता गतिः उपायः। तस्या महाश्वेतायाः सकाशम् अन्तिकम्, एतां दृश्यमानाम् अवस्थां दशाम् आवेदयामि कथयामि। चिन्तयित्वा विचिन्त्य। अनुचिते. अयोग्ये कर्मणि प्रवृत्तस्तत्परो यन्तम्। सञ्जातलब्जः समुत्पन्नत्रपः पुण्डरीक इति शेषः, निवारयेत् स्वसमीपनायातुं निषेधेत्, इति अस्मात्कारणात्, तस्मै पुण्डरीकाय
चाहिए। किन्तु एकमात्र महाश्वेताका समागम छोड़ कर इसको प्राणरक्षाका कोई दूसरा उपाय नहीं है। एक निश्वास परित्यागमात्र इसके जीवनका अवशिष्ट रह गया है, तथापि यह, बालभावसे चतुरता न होनेके कारण, काम-विकारको तपस्याके विरुद्ध अनुचित और अपने उपहासके समान मानता हुआ, अपने आप तो वहाँ जाकर, उस कन्या की अभिलाषा निश्चय ही पूर्ण नहीं करेगा। अब यह मदनविकार विलम्ब सहन नहीं कर सकता। सज्जन पुरुष, अत्यन्त गर्हित एवं अकर्तव्य कर्मोंसे (जिस किसी उपायसे) भी सर्वदा मित्रके प्राणोंकी रक्षा करना उचित समझते हैं। अत एव अब यह अत्यन्त लज्जाजनक एवं अकर्त्तव्य होनेपर भी मुझे अवश्य करना पड़ेगा। और दूसरा क्या किया जा सकता, अन्य उपाय ही क्या है? निश्चय ही महाश्वेताके निकट जाकर इसकी यह अवस्था सूचित कर दूँ। इस प्रकार विचारकर—यदि मुझे अनुचित कार्यमें प्रवृत्त होते समझकर लज्जासे पुण्डरीक
१. तत्समागमः।
२. उपनतमुपहासमिव।
३. कृच्छ्रेणापि।
४, परिरक्षणीयान्।
५. क्वचित् चकारो न विद्यते।
महाश्वेताचिन्तावर्णना ७० ] चन्द्रकला-विद्योतिनीसहिता । [ ४६६
देशात् सव्याजमुत्थाय्यागतोऽहम् । तदेवमवस्थिते यदत्रावसरप्राप्तम् ईदृशस्य चानुरागस्य सदृशम् , अस्मदागमनस्य चानुरूपम्, आत्मनो वा समुचितम्, तत्र प्रभवति भवती इत्य-भिधाय किमियं वक्ष्यतीति मन्मुखसक्तदृष्टिस्तूष्णीमासीत् । अहन्तु तदाकर्ण्य सुखामृतमये हृद इव निमग्ना, रतिरसमयमुदधिमिवावतीर्णा, सर्वा-नन्दानामुपरि वर्त्तमाना, सर्वमनोरथानामग्रमिवाधिरूढा, सर्वोत्सवानामतिमूमिमिवाधिश-याना, तत्कालोपजातया लज्जया किञ्चिदवनम्यमानवदनत्वादस्पृष्टकपोलमुदरैः, ग्रथितैरिवो-पर्य्युपरि पतनानुबन्धदर्शितमालाक्रमैः, अप्राप्तपक्ष्मसंश्लेषतया उपजातप्रथिमभश्चैरमलैरानन्द-बाष्पजलविन्दुभिः स्त्राङ्गरावेद्यमानप्रहर्षप्रसरो, तत्क्षणमचिन्तयम्—'दिष्ट्या तावदयमनङ्गो-
अनिवेद्यैव अकथयित्वैव तप्रदेशात् तस्थानात् सव्याजं कुसुमानयनादिकपटसहितं यथा स्यात्तथा। अहं कपिञ्जल आगतः उपस्थितः ।
तदिति। तत्तस्माद्धेतो एवमवस्थिते इत्थम्भूतोऽन्ते । अवसरप्राप्तम् एतत्समययोग्यम्, ईदृशस्य परां काष्ठां प्राप्तस्येत्यर्थः। अनुरागस्य स्नेहस्य सदृशं योग्यम्, अस्मदागमनस्य मदीयागमनस्य अनुरूपम् अनुकूलम् आत्मनः स्वस्य वा समुचितं योग्यम् , तत्र कार्ये भवती त्वं प्रभवति समर्था भवति, स्पृहा चेत् तद् विधातुं शक्नोतीत्यर्थः । अनेन त्वयैव तत्रोपेत्य पुण्डरीकेण सह समागमो विधेय इति प्रतीयत इति वस्तुना वस्तुध्वनिः। इत्यभिधाय इत्युक्त्वा इयं महाश्वेता किं वक्ष्यति अभिधास्यति इति कृत्वा मन्मुखे मद्बदने आसक्ता लग्ना दृष्टैर्यस्य स कपिञ्जलः तूष्णीमासीत् मौनमभवत् ।
अहमिति । नहं तत्पूर्वोक्तम् आकर्ण्य श्रुत्वा सुखम् आनन्द एव अमृतं पीयूषं तन्मये हृदे अगाध-जले निमग्ना इडितेव 'तत्रागाधजलो हृदः' इत्यमरः। रतिः अनुराग एव रसः सलिलं तन्मयम् उदधिं समुद्रम् अवतीर्णा मध्यप्रविष्टेव, तस्यापि तथाविधानुरागाकर्णनेन समानुरागस्य शतधा वृद्धिप्राप्तेरि-त्याशयः। सर्वानन्दानां समग्रप्रमोदानाम् उपरि वर्त्तमाना विद्यमानेव सर्वमनोरथानां समस्ताभिलाषा-णाम् अग्रं धुरम् अधिरूढेव उपर्याश्रितेव, सर्वोत्सवानां समस्तोद्धवानाम् अतिभूमिं सर्वोपरिस्थानम् अधिशयाना अधितिष्ठन्तीव, तत्कालोपजातया तत्समयोत्पन्नया लज्जया त्रपया किञ्चित् ईषत् अवनम्य-मानं प्रह्वीभूयमानं वदनम् आननं यस्याः तस्या भावः तत्त्वं तस्माद्धेतोः न स्पृष्टे कपोलयोर्गण्डयोः उदरे मध्यभागौ यैस्तैः, पतनानुबन्धेन पूर्वपूर्वस्य. उत्तरोत्तरस्यायिनः अविच्छिन्नपतनानुमरणेन दर्शिता प्रकर्टिता मालायाः स्रजः क्रमः अन्योन्यसंलग्नतारुपा परिपाटी यैस्तैः, अत एव उपर्य्युपरि ऊर्ध्वोर्ध्वे ग्रथितैः गुम्फितै-रिव विद्यमानैः, न प्राप्तो वदनस्य नम्रतया सरलाधःपतनात् नोपगतः पक्ष्मसु नयनरोमसु संश्लेषः सम्बन्धो यैस्तेषां भावस्तया कारणेन, उपजात उत्पन्नः प्रथिमसरः स्थौल्यातिशयो येषां तेः, पश्चान्तरे तु वाष्पजलविन्दूनां नेत्रलोमभिर्विभक्ततया क्षुद्रत्वं स्यादित्याशयः । अमलैः अञ्जनाभावात् स्वच्छैः छरद्भिः आनन्दबाष्पजलविन्दुभिः प्रमोदाश्रुविन्दुभिः आवेद्यमानो व्यज्यमानः प्रहर्षप्रसरः प्रकृष्टानन्दातिशयो यस्याः सा । इह 'सुखामृतमये' इत्यत्र 'रतिरसमयम्' इत्यत्र च निरङ्गकेवलरुपकम् , 'निमग्नेव' एवम् 'अवतीर्णेव' इत्यत्र च वाच्य क्रियाोत्प्रेक्षा अनयोरङ्गाङ्गिभावसङ्करः । 'वर्त्तमाना' इत्यत्र प्रतीयमाना क्रियो-त्प्रेक्षा । ततः 'अधिरूढेव' अधिशयानेव' 'ग्रथितैरिव' इत्येतेषु वाच्या क्रियोत्प्रेक्षा ।
दिष्ट्येति । दिष्ट्या भाग्येन, तावत् प्रथमम् अयम् अनङ्गः कामो मामिव, तं पुण्डरीकमपि अनु-
कहीं मुझे निषेध कर (रोक) न दे—इससे उसे बिना निवेदन किये ही वहाँसे मैं बहाना करके यहाँ चला आया हूँ । इसलिए इस प्रकारकी अवस्थामें जैसा अनुकूल हो, अनुरागके योग्य हो, मेरे आगमनके अनुरूप हो, एवं आपको भी जो उचित हो, उसे ही कीजिए।' इस प्रकार कह कर कपिञ्जल, 'यह क्या कहेगी' इसे सुननेकी उत्कण्ठासे मेरे मुखकी तरफ दृष्टि संलग्न कर मौन हो गया ।
किन्तु मैं तो यह सब कथा सुनकर, सुखरूपी अमृतके सरोवरमें ही मानो निमग्न (डूब) हो गई होऊँ, अनुराग-रूपी जलके समुद्रमें मानो अवगाहन किये होऊँ, सब प्रकारके आनन्दके ऊपर ही मानो बैठी होऊँ, सब मनोरथोंके आगे ही मानो चढ़ी होऊँ, एवं समस्त उत्सवोंकी चरमसीमाको ही मानो पहुँची होऊँ, ऐसी हो गई और उस समय लज्जा उत्पन्न हो जानेके कारण मेरा मुखमण्डल कुछ अवनत हो जानेसे कपोलयुगलके मध्यभागको बिना स्पर्श किये ही, मानो गूँथे हुएके समान एक के ऊपर एक बराबर गिरनेसे मालाकी परिपाटी दिखलाती एवं
१. '...प्रसङ्गा ।
४७० कादम्बरी— [ कथामुखम्-
मासिव तमप्यनुबध्नाति, यत्सत्यमनेनेमे सन्तापयताप्यंशेने दर्शितानुकूलता । यदि च सत्यमेव तस्येदृशी दशा वर्त्तते, ततः किमिव नोपकृतमनेन, किंवा नोपपादितम्, को वानेनापरः, समानो बन्धुः । कथं वा कपिञ्जलस्य स्वप्नेऽपि वितथा भारती प्रशान्ताकृतेरस्माद्वदनान्निष्क्रामति । इत्थम्भूते किं मयापि प्रतिपत्तव्यम् ? तस्य वा पुरः किमभिधातव्यम् ?' इत्येवं विचारयन्त्यामेव प्रविश्य ससम्भ्रमा प्रतीहारी मामकथयत्—'भर्तृदारिके ! त्वमसुस्थशरीरेति परिजनादुपलभ्य महादेवी प्राप्ता' इति । तच्च श्रुत्वा कपिञ्जलो महाजनसम्मर्दभीरुः सत्वरमुत्थाय 'राजपुत्रि ! महानयमुपस्थितः कालातिपातः। भगवांश्च भुवनत्रयचूड़ा-
बध्नाति अनुगच्छति, तदुपर्यपि निजावेशं स्थापयतीति भावः । अत एव मां सन्तापयतापि संज्वरयतापि अनेन कामेन मे मम अंशेन यत्सत्यम् अनुकूलता आनुकूल्यं दर्शिता प्रकटिता, न तु तामस्त्येन, अद्यापि समागमाभावादित्यभिप्रायः । 'यत्सत्यम्' इत्येकमेव पदं दर्शितेति क्रियाया विशेषणमित्यवगन्तव्यम् ।
यदीति । यदि चेत्, तस्य पुण्डरीकस्य सत्यमेव परमार्थत एव ईदृशी एवंविधा दशा अवस्था वर्त्तते विद्यते, ततस्तदा अनेन कामेन किमिव नोपकृतं किमुपकारो न कृतः, किंवा न उपपादितं सम्पादितम्, अनेन कामेन समानस्तुल्यः अपरोऽन्यः को वा मम बन्धुः, अपि तु न कोऽपीत्यर्थः, अनेनैव मनाभिलाषायाः पूरितप्रायत्वादित्याशयः ।
ननु कपिञ्जलवाक्यस्य परमार्थत्वे का युक्तिरित्यत आह—कथमिति । प्रशान्ता अप्रतारणाद्योतकभव्या आकृतिः मूर्तिः यस्य तस्य कपिञ्जलस्य अस्माद् वदनान्मुखात् स्वप्नेऽपि कथं वितथा असत्या भारती वाणी निष्क्रामति निःसरति कथमपि नेत्यर्थः । अस्य प्रशान्तस्वरूपमेव वचनस्य यथार्थत्वे प्रमाणम्, एवंविधस्वरूपस्य कदाचिदपि असत्यभाषणाश्रवणादित्यभिप्रायः ।
इत्थमिति । इत्थम्भूते एवंविधे समाचारे इति शेषः। प्रतिपत्तव्यं स्वकर्त्तव्यम् । तस्य पुरो वा पुण्डरीकस्य निकटे वा किम् अभिधातव्यं गत्वा वक्तव्यम्, अथवा सन्देशवाक्यं प्रेषयितव्यम् इत्येवं विचारयन्त्यां चिन्तयन्त्यामेव 'मयि' इति शेषः। इह 'विचारयन्त्या' इति पाठस्तु चिन्त्यः ।
ससम्भ्रमा सभया सती प्रतीहारी प्रविश्य गृहान्यन्तरे प्रवेशं कृत्वा माम् अकथयत् अवोचत्—'भर्तृदारिके राजपुत्रि ! असुस्थशरीरा अप्रकृतिस्था, परिजनात् अनुयायिवर्गात् उपलभ्य ज्ञात्वा महादेवी गन्धर्वराजमहिषी भवत्या जननी प्राप्ता उपगता ।
तच्चेति । महतोऽतिबृहतो जनसंमर्दात् महादेव्या सार्धं प्राप्तानां लोकानाम् अत्यन्तात् सङ्घर्षात् भीरुः भीतियुक्तः, अरण्येषु प्रायेणैकाकिन एव निवासादित्याशयः । उपस्थितः प्राप्तः कालातिपातः समयविलम्बः, भवत्यास्तत्र जिगमिषायां विद्यमानायामपि महादेव्यामप्रयातायां तदसम्भवादित्याशयः ।
नेत्रोंके लोमसंयुक्त न होनेसे अत्यन्त स्थूल दीखती निर्मल आनन्दाश्रुकी बूँदोंके गिरनेसे उत्पन्न आनन्दकी सूचना करती, उस क्षण विचार करने लगी—‘सौभाग्यवश ही यह कामदेव, मेरे समान उसका भी निरन्तर अनुहरण करता है ! यह सत्य है कि—मुझे सन्तप्त करता हुआ भी उसने कुछ अंशमें मेरी अनुकूलता दिखला दी है । यदि यथार्थमें उसकी ऐसी ही अवस्था हो तो फिर उसने मेरा कौनसा उपकार नहीं किया ? अथवा किस-किस कार्यकाही सम्पादन नहीं किया ? एवं इसके समान अन्य बन्धु ही मेरा कौन है ? शान्ताकृति कपिञ्जलके इस मुखमें से स्वप्नमें भी मिथ्या वाणी कैसे निकल सकती है ? ऐसी स्थितिमें मुझे भी क्या स्वीकार करना चाहिए ? अथवा उसके समीप ही वाचिक सन्देश क्या भेज देना चाहिए ? मैं मन ही मन इस प्रकार विचार कर रही थी कि—इतनेमें शङ्काके साथ प्रतीहारी मेरे घरके बीचके प्रदेश कर मुझसे कहने लगी—'राजकन्ये ! परिजनोंसे आपके शरीरका अस्वास्थ्य समझ कर ( आपको देखनेके लिए ) महारानी उपस्थित हुई है। यह सुनकर परिजनादिकोंके अत्यन्त सङ्घर्षके भयसे कपिञ्जल शीघ्रतासे हो उठा और मुझसे कहने लगा—'राजकन्ये ! यह गुरुतर कालविलम्ब
१. एतेन ।
२, कियताऽप्यंशेन, अपि कियतान्त्यंशेन ।
३. क्वचित् 'वर्त्तते' इति पदं न विद्यते ।
४. प्रतिधर्त्तव्यम् ।
५. अस्वस्थशरीरेति ।
पुण्डरीकविषयकचिन्ता० ७९ ] चन्द्रकला-विद्योतिनीसहिता । ४७१
मणिरस्तमुपगच्छति दिवसकरः, तद्गच्छामि । सर्वथाभिमतसुहृत्प्राण-रक्षा-दक्षिणार्थमयमु- परचितोऽञ्जलिः, एष मे परमो विभवः' इत्यभिधाय प्रतिवचनकालमप्रतीक्ष्यैव पुरोधायिना अम्बायाः प्रविशता कनकवेत्रलताकरेण प्रतीहारीजनेन कञ्चुकिलोकेन गृहीतं ताम्बूल-कुसुम- पटवासाङ्गरागेण चामरव्यग्रपाणिना कुब्ज-किरात-बधिर-वामन-वर्षवर-विकलमूकानुगतेनं परिजनेन सर्वतः संरुद्धे कथमप्यवाप्तनिर्गमः प्रययौ । अम्बा तु मत्त्समीपमागत्य सुचिरं स्थित्वा स्वभवनमयासीत् । तया तु तत्रागत्य किं कृतं किमभिहितं किमाचेष्टितमिति शून्य- हृदया सर्वं नालक्षयम् । गतायाञ्च तस्याम्, अस्तमुपगते भगवति-हारितहरित-वाजिनि सरोजिनीजीवितेश्वरे
भुवनत्रयचूडामणिः विष्टपन्नयशिरोरत्नं भगवान् दिवसकरः सूर्यनारायणः अस्तम् अस्तमनम् उपग- च्छति प्रयाति । सर्वथैव अभिमतस्य चेतोमतस्य सुहृदः मित्रस्य प्राणरक्षणाय दक्षिणार्यम् अयम् अञ्जलिः पाणिंसंयोजनरूप उपचितो विहितः, एषः अञ्जलिरचनाम्प एव मे मम परमो विभवः सम्पत्तिः, तपस्विनि ! नेतः परमुत्कृष्टं मे धनमस्ति यत्तुभ्यमर्पणीयमित्यभिप्रायः । प्रतिवचनकालं प्रत्युत्तर- समयम् अप्रतीक्ष्य प्रतीक्षामविधायैव, अम्बया जनन्याः पुरोधायिना अग्रगामिना सुना अभ्यन्तरमा- गच्छत्येत्यर्थः, कनकवेत्रलता सुवर्णखचिता वेतसयष्टिः करे पाणौ यस्य तेन, प्रतीहारीजनेन द्वारिनियुक्त- स्त्रीजनेन कञ्चुकिलोकेन सौविदल्लेन, गृहीता आत्ताः ताम्बूलं नागवल्ली, कुसुमं पुष्पं, पटवासः पिष्टातकः, अङ्गरागः अङ्गविलेपनद्रव्यञ्च ते येन तेन, चामरेण बालव्यजनेन व्यग्रो व्यासक्तः पाणिर्यस्य तेन, कुब्जा वक्रशरीराः, किराताः कृशशरीराः, बधिराः श्रवणसामर्थ्यरहिताः, वामनाः खर्वाकृतयः, वर्षवरा नपुंसकाः, विकला विकलावयवाः, मूका वचनसामर्थ्यशून्याश्च जनास्तैः अनुगतेन अनुयातेन । संरुद्धे आक्रान्ते । कथमपि कष्टेन अवाप्तो लब्धः निर्गमनमार्गो निस्सरणवर्त्म येन स तथोक्तः कपिञ्जलः प्रययौ प्रजगाम । अनेन धनसंमर्दाधिक्यान्निस्सरन्तमपि कपिञ्जल न कोऽपि बुबुध इति ध्वनितम् ।
अन्वेति । मत्त्समीपं मदन्तिकम् । अयासीत् अगात् । नया अम्बया । किमाचेष्टितं किमर्थक उद्योगो विहितः । शून्यहृदया विषयान्तरवोधरहितमानसा । नालक्षयं न ज्ञातवती, केवलं पुण्डरीक- विषय एवायधिकचिन्तनादित्याशयः ।
गतायामिति । तस्याम् अम्बयायां गतायां यातायाम्, हारीतो ‘हारिल’ इति लोकप्रसिद्धो हरिद्वर्णपक्षिविशेषः, तद्वत् हरिता नीला वाजिनोऽश्वा यस्य तस्मिन्, सरोजिनी कमलिनी तस्या जीविते- श्वरः प्राणनाथः तस्मिन् चक्रवाकस्य रथाङ्गस्य पक्षिणः सुहृदि यन्धौ, सूर्यस्य विद्यमानत्व एव चक्रवाकदम्प- त्योः संमिलनादविद्यमानत्वे च विश्लेषादित्याशयः सवितरि सूर्ये अस्तम् अस्ताचलम् उपगते प्राप्ते सति ।
इह छेकानुप्रासश्रुत्यनुप्रासयोः संसृष्टिः । तथा सूर्यनारायणस्य यानि त्रीणि विशेषणानि च तानि प्रस्तुतार्थस्य किञ्चिदुपकारिणीति हेयान्येव अन्ययापुष्टार्थतादोषस्य वज्रलेपादित्वादित्यवधेयम् ।
उपस्थित हो गया है, इधर त्रिभुवनके चूडामणि भगवान् सूर्य भी अस्त होने जा रहे हैं; इसलिए मैं तो जाता हूँ, पर सब प्रकारसे अभिमत मेरेन्द्रनिभमित्र की प्राणरक्षारूपी दक्षिणाके लिये मैं यह हाथ जोड़ कर आपसे विनय करता हूँ, यही मेरा परम धन है।' इतना कह कर, प्रत्युत्तर की प्रतीक्षाका समय न देख कर ही वह, स्वर्णखचित वेत्रयष्टियोंको धारण करने वाली मातृदेवीके आगे आगे प्रवेश करती प्रतीहारियोंसे, ताम्बूल, पुष्प, पटवास (अबीर) और अङ्गलेपनद्रव्य लेकर चलते कञ्चुकियोंसे और कुब्ज, कृशशरीर, बधिर, वामन, नपुंसक, विकलांग और मूकजनोंके आगे हाथमें चमर लेकर चलते परिजनोंसे सब तरफसे ही अवरुद्ध द्वारदेशमेंसे किसी प्रकार निकल कर चला गया । माता मेरे समीप आकर बहुत काल तक बैठ अपने भवनमें लौट गई । परन्तु उन्होंने वहाँ आकर क्या किया, क्या कहा, और किस लिए कौनसा उद्योग किया ? - यह सब कुछ ही शून्य-हृदय होनेसे मैं लक्षित नहीं कर सकी ।
उनके चले जानेके बाद जिस समय हारीतपक्षीके समान हरितवर्ण अश्ववाले एवं कमलिनीके प्राणनाथ और
१. नापृहीत... । २. ०वर्षवरच्छेदरू, वर्वरविकलमूक । ३. ०कञ्चुकानुगेनेन । ४. सख्याम् ।
| ४७२ | कादम्बरी- | [ संपादान- |
|---|
चक्रवाकसुहृदि सवितरि, लोहितायमाने पश्चिमाशामुखे हरितायमानेषु कमलवनेषु नीलायमाने पूर्वदिग्विभागे, पातालपङ्ककलुषेण महाप्रलय-जलधिपयःपूरेणेव तिमिरेणावष्टभ्यमाने जीव-लोके, किंकर्त्तव्यतामूढा तामेव तरलिकामपृच्छम्—'अयि तरलिके ! कथं न पश्यसि दृढमा-कुलं मे हृदयम्; अप्रतिपत्तिविह्वलानि चेन्द्रियाणि । न स्वयमण्वपि कर्त्तव्यमलमास्म ज्ञातुम्, उपदिशतु मे भवती यदत्र साम्प्रतम् । अयमेवं त्वत्समक्षमेवाभिधाय गतः कपिञ्जलः । यदि तावदितरकन्यकेव विहाय लज्जाम्, उत्सृज्य धैर्यम्, उन्मुच्य³ विनयम्, अचिन्तयित्वा जनापवादम्, अतिक्रम्य सदाचारम्, उल्लङ्घ्य शीलम्, अवगणय्य कुलम्, अङ्गीकृत्यायशः, रागान्धवृत्तिः, अननुज्ञाता पित्रा, अननुमोदिता मात्रा, स्वयमुपगम्य ग्राहयामि पाणिम्, एवं गुरुजनातिक्रमादधर्मो महान् । अथ धर्मानुरोधादितरपक्षावलम्बनद्वारेण मृत्युमङ्गी-
लोहितेति। पश्चिमाशामुखे प्रतीचीमुखे लोहितायमाने रक्तायमाने सति सन्ध्यारागादित्याशयः। कमलवनेषु पङ्कजकाननेषु हरितायमानेषु नीलायमानेषु सत्सु कमलानां सङ्कुचिततया केवलपत्रप्रभा-प्रकाशादित्याशयः। पूर्वदिग्विभागे प्राचीदिग्विभागे नीलायमाने हरितायमाने सति, अन्धकारोद्गमादि-त्याशयः। पातालस्य दृढवाहुलस्य यः पङ्कः कर्दमः तद्वत् कलुषेन, आविलं मलिने तेन। पङ्कस्य नाळि-न्यातिशयसूचनार्थं पातालपदप्रयोगः। महाप्रलये यो जलधिः समुद्रः तस्य यः पयःपूरो जलौघः तेनेव सर्वाच्छादकेनेत्यर्थः, तिमिरेण, जीवलोके संसारे अवष्टभ्यमाने आक्षीयमाणे सति।
इह 'पातालपङ्ककलुषेण' इत्यत्र लुप्तोपमा। 'महाप्रलयजलधिपयःपूरेणेव' इत्यत्र चोत्प्रेक्षा।
अयीति। न पश्यसि नावलोकयसि, दृढं नितान्तम् आकुलं विह्वलम्, उद्वेगाद्यनेकभावावेशादि-त्याशयः। अप्रतिपत्त्या कर्त्तव्यनिर्णयाभावेन विह्वलानि व्यग्राणि च इन्द्रियाणि चक्षुरादीनि करणानि, अत एव स्वयम् आत्मना मण्वपि लेशमपि कर्त्तव्यं विधेयं ज्ञातुं निर्णोतुं नालमस्मि न शक्तास्मि, सुतरा-मेव अत्र विषये यत् साम्प्रतं युक्तम्, तद् भवती त्वं मे उपदिशतु शिक्षयतु। 'युक्तं द्वे साम्प्रतम्' इत्यमरः।
अयमिति। अयं कपिञ्जलः, त्वत्समक्षमेव त्वत्प्रत्यक्षमेव एवम् अमुना प्रकारेण अभिधाय कथयित्वा गत इति सम्बन्धः। इतरकन्यकेव नीचकुलोत्पन्नकन्येव लज्जां त्रपां विहाय त्यक्त्वा, उत्सृज्य दूरीकृत्य। उन्मुच्य परित्यज्य, विनयम् उपदेशम् उपदेशजनितेन्द्रियवेगरोधनमित्यर्थः। जनापवादं लोकापवादां निन्दाम् अचिन्तयित्वा अगणयित्वा, सदाचारं शोभनानुष्ठानम् अतिक्रम्य उल्लङ्घ्य, शीलं परपुंस्त्वेष्ठनभिरतित्वनामकम् उल्लङ्घ्य सतिक्रम्य, कुलं वंशम् अविगणय्य अवहेलयित्वा, अयशोऽपकीर्त्तिम् अङ्गीकृत्य स्वीकृत्य, रागेण कामासक्त्या लब्धा साध्वसाधुविवेकविरहिता वृत्तिः अध्यवसायो यस्याः सा, पित्रा तातेन अननुज्ञाता अदत्तानुशासना, मात्रा जनन्या च अननुमोदिता असमर्थिता, स्वयम् आत्मना उपगम्य वन्तिकमुपेत्य पाणिं हस्तग्रहणं ग्राहयामि करोमि। एवम् इत्थं तदेत्यर्थः, गुरुजनानां तातमात्रादीनाम् अतिक्रमात् आज्ञाया अनपेक्षणात् महान् अधर्मः अत्यधिकप्रत्यवायः स्यात् स त्वनुचित इति शेषः।
कथं तवागस्य प्राग्दवेव निजमदने संतिष्ठतामित्यत आह—अथेति। धर्मानुरोधात् इतरपक्षस्य
चक्रवाकोंके मित्र, भगवान् सूर्यनारायण अस्तमित हुए; पश्चिम दिशाका मुख रक्ताभ होने लगा; कमल-वन, पुष्प-सङ्कुचित होनेसे हरित्वर्ण होने लगा; पूर्व दिशाका भाग नीलवर्ण होने लगा और समस्त संसारमें—पाताल-पङ्कके समान मलिनवर्ण सर्वव्यापी-अन्धकार, महाप्रलयकालीन समुद्रजलके प्रवाहके समान, विस्तार होने लगा उस समयमें—किंकर्त्तव्यविमूढ होकर (कुछ न सूझ पड़नेसे) उस तरलिकामे ही मैंने पूछा—'अये तरलिके ! तुम क्या नहीं देखतीं कि मेरा मन अत्यधिक व्याकुल हो गया है एवं इन्द्रियाँ अपने-अपने कर्त्तव्य निश्चय करनेमें असमर्थ होनेके कारण विह्वल हो गई हैं ? मुझे अपना कर्त्तव्य थोड़ा भी नहीं समझ पड़ता इसलिए इस विषयमें जो उचित/युक्त हो तुम उसे ही मुझे उपदेश दो। इस प्रकार कपिञ्जल उस बातें तुम्हारे सामने ही कह कर चला गया है। इस समय यदि मैं नीचकुलोत्पन्न कन्याके समान लज्जा, धैर्य और विनयको छोड़ कर लोकनापवादकी चिन्ता न कर, सदाचारका अतिक्रमण कर, स्वभावका उल्लङ्घन कर, वंशकीऽवज्ञा कर एवं लोकनिन्दा स्वीकार कर, अनुरागसे सदसद्विवेकनाविहीन होकर, पिताकी अनुमति न लेकर एवं माताका अनुमोदन न पाकर, अपने आप जाकर पाणिग्रहण करूँ तो गुरुजनका अतिक्रमण होनेसे इसमें बड़ा अधर्म होगा; और यदि मैं
१. शून्यानि।
२. नैवम्।
३. उत्सृज्य।
महाश्वेतायाः स्वविधेयालो० ७२] चन्द्रकला-विद्योतिनीसहिता । ४७३
करोमि, एवमपि प्रथमं तावत् स्वयमागतस्य¹ प्रथमप्रणयिनस्तत्रभवतः कपिञ्जलस्य प्रणयप्रसरभङ्गः । पुनरपरं यदि कदाचित्तस्य जनस्य मत्कृतादाशाभङ्गात् प्राणविपत्तिरुपजायते, तदपि मुनिजनवधजनितं महदेनो भवेत्' । इत्येवमुच्चारयन्त्यामेव मयि, आसन्न²-चन्द्रोदयजन्मुना विरलविरलेनालोकेन वसन्तवनराजिरिव कुसुमरजसा धूसरतां वासवी दिगयासीत् ।
ततः शशि-केशरि-कर-नखर-विदार्यमाणं तमः-करि-कुम्भ-सम्भवेन मुक्ताफलक्षोदेनेव धवलतामुपनीयमानम्, उदयगिरि-सिद्ध-सुन्दरी-कुचच्युतेन चन्दनचूर्णराशिनैव पाण्डुरीक्रियमाणम्, चलित-जलधि-जल-कल्लोलानिलोल्लासितेन वेलापुलिन-सिकतोद्गमेनेव पाण्डु-
अनुरोधेन निजमवनावस्थानपक्षस्य अवलम्बनद्वारेण साध्यद्वारेण मृत्युं प्राणवियोगम् अङ्गीकरोमि स्वीकुर्वे । अनेन तदनुसारणात्पाणिग्रहणाभावे मम प्राणवियोगोऽवश्यम्भावीति ध्वनितम् । एवमपि प्राणविमोचनेऽपि प्रथमं तावत् दूषणमिति शेषः । स्वयमागतस्य स्वयमायात्तस्य प्रथमप्रणयिन आद्यस्नेहवतः तत्रभवतः पूज्यस्य कपिञ्जलस्य तपस्वित्वात्तकस्य प्रणयप्रसरस्य प्रार्थनातिशयस्य भङ्गो निष्फलतासम्पादनं स्यात् ।
ननु भवतु नाम तत्प्रार्थनातिशयनिष्फलसम्पादनं न तेन काऽपि हानिः धर्माद्यपेक्षया तस्याकिञ्चित्करत्वादित्यत आह-पुनरिति । धर्मानुरोधरागाग्निग्रहाभावपक्षाश्रयणद्वारेण पुनरपरमिदं दूषणमित्यर्थः । तस्य जनस्य पुण्डरीकस्य चेतसा स्वामित्वेन वरणात् पुण्डरीकनामग्रहणमिवगवधेयम् । प्राणानाम् असूनां विपत्तिर्विनाशः उपजायते भवेत्, तदपि तदापि मुनिजनवधजनितं तापसजनहननोत्पन्नं महदेनो महापातकं भवेत् 'ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः' इत्यादिमनुवचनात् स्वस्य च तत्र कारणत्वादित्याशयः ।
इतीति । उच्चारयन्त्यां वदन्त्यामेव, वासवस्य इन्द्रस्येयमिति वासवी प्राची दिक्, कुसुमरजसा पुष्परागेण वसन्तवनराजिरिव काननपङ्किरिव, आसन्नाद् अव्यवहितोत्तरसमयभाविनः चन्द्रोदयात् शशाङ्कोद्गमात् जन्म उत्पत्तिर्यस्य तेन विरलविरलेन स्वल्पाल्पेन आलोकेन प्रकाशेन धूसरताम् ईषत्पाण्डुताम् अयासीत् प्रापत् । उपमा ।
तत इति । शशिश्चन्द्र एव केशरी सिंहः भेदनकर्त्तृस्वसादृश्यात् तस्य करा रश्मय एव नखराः पुनर्भवास्तैः भेदनकरणत्वसादृश्यात् विदार्यमाणो भिद्यमानः तमोऽन्धकार एव करिकुम्भो हस्तिशिरःपिण्डः कृष्णत्वसादृश्यान् तस्मात् सम्भवेन सञ्जातेन, मुक्ताफलक्षोदेनेव मौक्तिककर्णेनेव इन्दुधाम्ना चन्द्रकिरणेन, धवलतां श्वेतताम् उपनीयमानं प्राप्यमाणम्, 'पश्चिमेतरदिगन्तरम्' इत्यस्याग्रतनस्य विशेषणमिदम् इह समस्तवस्तुविषयमाङ्गरूपकाण्युत्प्रेक्षयोरङ्गाङ्गिभावसङ्करः ।
उदयेति । उदयगिरौ उदयाचले याः सिद्धसुन्दर्यः देवयोनिविशेषकामिन्यः तासां कुचेभ्यः वक्षोजेभ्यः च्युतेन गलितेन, चन्दनचूर्णराशिनैव मलयजक्षोदसमूहेनेव इन्दुधाम्ना, पाण्डुरीक्रियमाणं शुभ्रतामाद्यमानं दिगन्तरम् । जात्युत्प्रेक्षा ।
चलितेति । चलितं कम्पितं यज्जलधिजलं समुद्रतोयः तस्य कल्लोलानां महातरङ्गाणाम् अनिलैः पवनैः उल्लासितः उत्थानं प्राप्तितः तेन वेलापुलिनस्य तटसमीपस्यानायोन्यिनदेशस्य सिकतानां बालु-
धर्मके अनुरोधसे दूसरे पक्षका अवलम्बन कर प्राणत्याग स्वीकार करूं तो ऐसा होने पर उसमें भी पहले तो दोष यह है कि अपने आपही उपस्थित हुए एवं पहली ही प्रार्थना करने वाले माननीय कपिञ्जलकी प्रार्थना भङ्ग होती है, और द्वितीय दोष यह है कि कदाचित् मेरी दी हुई आशाके भङ्ग होनेसे उस पुरुषके प्राण पर कुछ विपत्ति उत्पन्न हो जाय तो मुनिजनके वधका महापातक लगेगा।' मेरे इस प्रकार कहते कहते; पुष्परेणुसे वसन्तकालकी वनपङ्किके समान, सन्निहित चन्द्रोदयसे उत्पन्न थोड़े थोड़े प्रकाशसे पूर्वदिशा धूसरवर्ण होने लगी ।
इसके बाद, चन्द्रकिरणने पूर्वदिगन्तर, चन्द्ररूपी सिंहके किरणरूप नखद्वारा विदीर्ण (छेदे गये) अन्धकाररूपी हाथीके कुम्भसे उत्पन्न मुक्तचूर्णके समान मानो धवलवर्ण हुआ, उदयाचलस्थित सिद्धसुन्दरियोंके स्तनोंके छुटे हुए चन्दन-चूर्ण-राशिक समान मानो पाण्डुवर्ण हुआ, एवं वेगशाली पूर्वसमुद्रके महातरङ्गोंसे फैली हुई पवनसे उत्थापित (उड़ाई हुई) तीरके निकटवर्त्ती तोयोत्थित देशके आकाशमें उठे हुए बालूकाराशिक समान
¹ लग्नात् ।
² क्वचित् आसन्नेति पदं न दृश्यते ।
³ शशिकेशरावादार्यमान, शशिकेशरिकर-विदार्यमानः.... ।
३० का०
| ४७४ | कादम्बरी- | [ कथायाम्- |
|---|
तामापाद्यमानम् पश्चिमेतरदिन्दुधाम्ना दिगन्तरमदृश्यत । शनैः शनैश्चन्द्रदर्शनान्मन्दमन्द- स्मिताया दशनप्रभेव ज्योत्स्ना निष्पतन्ती निशाया मुखशोभामकरोत् । वदत्तु रसातलादव- तीमवदार्य्य^१ उद्गच्छता शेषफणामण्डलेनेव^२ रजनिकरबिम्बेन^३ अराजत रजनी। क्रमेण च सकलजीवलोकानन्दकेन कामिनीजनवल्लमेन किञ्चिदुन्मुक्तवालभावेन मकरध्वजबन्धुभू- तेन समुपाढरागेण सुरतोत्सवोपभोगैकयोग्येन अमृतमयेन यौवनेनेवारोहता शशिना रम- णीयतामनीयत यामिनी।
अथ तं प्रत्यासन्न-समुद्र-विद्रुम-प्रभा-पाटलीतमिव उदय-गिरि-सिंह-करतलाहत-निज^४-
कानाम् उद्गमेन ऊर्ध्वगमनेन शुभ्रत्वसादृश्यनिरूपणाय गगनोद्धृतसिकतेनेत्यर्थः इन्दुधाम्ना चन्द्रकिरणेन, पाण्डुताम् आपद्यमानं प्राप्यमाणम्, पश्चिमेतरद् प्रतीच्या दिशः समस्तविपरीतं पूर्वमित्यर्थः दिगन्तरं पौर्वी दिग्भागम् अदृश्यत आलोक्यत जनैरिति शेषः ।
इह तरङ्गवायुभिः पुलिनस्य. सिकतासमूह एव बड्डीय उपरिगतो भवेत्तेनेवेति जात्युत्प्रेक्षा । तयै- कार्य एवं प्रयुक्तेन विशेषणत्रयेण नेहाधिकदोषः, तेषामलङ्कारग्रथनसामर्थ्यप्रकटनार्थत्वात् ।
शनैरिति । चन्द्रदर्शनात् निजप्राणनाथावलोकनाद्धेतोः मन्दमन्दं स्मितं प्रकाशो हास्यञ्च यस्याः तस्या निशाया रात्रेः, दशनप्रभेव दन्तकान्तिरिव शनैः शनैः मन्दं मन्दं निष्पतन्ती ज्योत्स्ना चन्द्रिका, मुखशोभां तस्या निशाया एव पूर्वभागसौन्दर्यं च अकरोत् व्यदधात् ।
इहेन्दुरात्र्योः पुँस्त्रीलिङ्गत्वाभ्यां स्मितकार्य्येण च स्त्रीपुरुषव्यवहारसमारोपात् समासोक्तिः। सा च 'दशनप्रभेवे' ति जात्युत्प्रेक्षया सङ्कीर्यते ।
वदन्विति । रजनी रात्रिः सर्वानी पृथिवीम् अवदार्य भित्त्वा रसातलात् नागलोकात् उद्गच्छता उत्तिष्ठता, शेषस्य श्वेतरूपस्य अनन्तनागस्य फणामण्डलेन फणासमूहेनेव शुभ्रेण गोलाकारेण चेत्याशयः, रजनिकरबिम्बेन चन्द्रमण्डलेन अराजत अशोभत । द्रव्योत्प्रेक्षा ।
क्रमेणेति । सकलजीवलोकानन्दकेन समस्तमनुष्यलोकप्रमोदोत्पादकेन कामिनीजनवल्लमेन सुन्द- रीजनप्रियेण । किञ्चिदुन्मुक्त ईषदपरित्यक्तो बालभावः शावकभावः प्रथमोदितभावश्च येन तेन । मकर- ध्वजः कामः तस्य बन्धुभूतेन स्वजनभूतेन स्थानद्वयेऽप्युद्दीपकत्वादित्याशयः ।- समुपाल्हः सञ्जातः रागोऽनुरागो लौहित्यं च यत्र तेन । सुरतोत्सवः सम्भोगानन्दः तस्य उपभोगे एकयोग्यः सर्वथा समर्थ- स्तेन प्रकाशाधिक्यादुद्दीपकत्वाच्चेत्याशयः । तथा अमृतमयेन आनन्दाधिक्येन पीयूषात्मकेन च । यौवने- नेव तारुण्येनेव आरोहता देहम् आकाशञ्च अधिरोहता शशिना चन्द्रेण कर्त्रा, यामिनी रात्रिः रमणी- यतां शोभनीयताम् अनीयत प्राप्यत, एकत्र निजाविर्भावेन निखिलवयवपूर्णतात् परत्र चन्द्रिकया प्रकाशादित्याशयः ।
इह चन्द्रस्य यौवनौपम्यं शाब्दं यामिन्याः सुन्दर्यौपम्यमार्थमिति श्लेषानुप्रणिता एकदेशवि- वर्त्तिन्युपमेति कुशलाः ।
अथेति । अथ आरोहणानन्तरम्, अभिनवोददयरागलोहितं नूतनोद्गमनरागरक्तम्, अत एव प्रत्या- सन्नस्य द्वयोरप्युदयगिरिसामीप्यात् निजसमीपस्य, समुद्रस्य पूर्वोदधेः विद्रुमाणां प्रवालानां प्रभाभिः कान्तिभिः पाटलीतम् आरक्तीकृतमिव, उदयगिरिः उदयाचलः तत्रः यः सिंहः तस्य करतलेन हस्ततलेन
मानो शुभ्रवर्ण हुआ देख पड़ा । चन्द्रका दर्शन होनेसे मन्दमन्दहास्य करती रजनीकी दन्तप्रभाके समान चन्द्रिका धीरे धीरे भूतलमें गिरती उसकी मुखशोभाका सम्पादन करने लगी । उसके पश्चात्, भूतलविदारण कर पातालसे उत्थित [ बाहर आए ] अनन्तनाग के फणामण्डलके समान, चन्द्रमण्डलद्वारा रात्रि शोभ पाने लगी । क्रमसे समस्त जीवलोकके आनन्ददायक कामिनीजनवल्लभ, कन्दर्पबन्धु, रागसन्वन्वित [ अनुरागयुक्त, रक्तवर्ण ] सुरतोत्सवके एकमात्र उपभोगके ही योग्य और अमृतमय [ आनन्दमय, सुधामय ] एवं अल्पपरिमाणमें बालभाव [ शिशुत्व, रक्तिमा ] परित्यागकारी, शरीरारोही यौवनके समान गगनारोही चन्द्रमण्डल रात्रि को मनोहर करने लगा ।
इसके बाद समीपवर्ती पूर्वसमुद्रके प्रवालमणिके किरणसे मानो रक्तवर्णके समान, उदयाचलस्थित
.१. अवदीर्य्य । २. शेषफणमण्डलेनेव । ३. रजनिकरबिन्देन । ४, क्वचित् निजपदं न विद्यते ।
महाश्वेतायाः स्वविचेष्टा० ७२ ] चन्द्रकला-विद्योतिनीसहिता । ४९५
हरिण-शोणित-शोणीकृतमिव रति-कलह-कुपित-रोहिणी-चरणालक्तक-रस-लाञ्छितमिव अभि- नवोदय-रागरोहितं¹ रजनीकरम्², उदितं विलोक्य अन्तर्ज्वलितमदनानलाप्यन्धकारितहृदया, तरलिकासङ्गविधृतशरीरापि मन्मथहस्तवर्तिनी, चन्द्रगतनयनापि मृत्युमालोकयन्ती तत्क्षणम्- अचिन्तयम्-'एकत्र खलु मधुमास-मलयमारुतप्रभृतयः समस्ताः, एकत्र चायं पापकारी⁴ चन्द्र- हतको न शक्यते सोढुम् इदमतिदुर्विषहमदनवेदना तुरञ्च मे हृदयम्, अस्य चोद्गमनमिदं सदाहज्वरस्ये अङ्गारवर्षः, शीतार्त्तस्य तुषारपातः, विस्फोटे-मूर्च्छितस्य कृष्णसर्पदंशः इत्येवं चिन्तयन्तीमेव चन्द्रोदयोपनीता कमलवनम्लानिनिद्रेव मूर्च्छा मां निमीलितलोचनामका-
आहतः प्रहतो यो निजहरिणः स्वीयोरुत्सङ्गस्थायी मृगः तस्य शोणितेन रुधिरेण शोणीकृतमिव रक्तवर्णी-कृतमिव, तथा रतिकलहे सुरतविवादे कुपिता क्रुद्धा या रोहिणी नक्षत्रात्मिका स्वस्त्री तस्याः चरणयोः पादयोः अलक्तकरसेन लाक्षारसेन लाञ्छितमिव पादप्रहारात् चिह्नितमिव, उदितं तं रजनीकरं शशिनं विलोक्य निरीक्ष्याहम्, अन्तः अभ्यन्तरे ज्वलितः प्रदीप्तो मदनानलः कामवह्निः यस्यां साऽपि अन्धकारितहृदयेति विरोधः, तद्विहायप्रमोदशून्यमानसेति परिहारः । तरलिकाया उत्सङ्गे निजक्रोडे विधृतं स्थापितं शरीरं वपुर्यस्याः सा तथोक्ता मय्यपि मन्मथहस्तवर्तिनी कामदेवकरस्याधीनेति विरोधः, मन्मथवशीभूतेति तत्परिहारः । तथा चन्द्रगतनयनापि शशिप्राप्तलोचनापि मृत्युं मरणम् आलोकयन्ती पश्यन्तीति विरोधः, प्रियतमागमाभावे कान्तनाशात् संयुक्तमस्य मरणं सम्भावयन्तीति तत्परिहारः । एवंविधा सती तत्क्षणं तत्कालम् अचिन्तयं चिन्तितवती ।
इह 'प्रथमाऽत्रे' त्यादयस्तिस्रः क्रियोत्प्रेक्षाः पदार्थाहेतुककाव्यलिङ्गेन सङ्कीर्णाः, उत्तरे च त्रयो विरोधाभासा इत्येतेषां मिथो नैरपेक्ष्येण संसृष्टिः ।
एकत्रेति, एकस्मिन् पक्षे पापकारी पापिष्ठः चन्द्रः शशी एव हतको घातकः, उद्दीपनकार्ये मलयमारुतादीनामनेकानां प्रतिद्वन्द्व्ये अयमेक एव चन्द्रतुल्य इत्यभिप्रायः। अत एव सोढुं न शक्यते न पार्यते । तेन च इदं मे मम हृदयं मनः अतिदुर्विषहया अतिदुःसहया मदनवेदनया कामपीडया आतुरं विह्वलं जातमिति शेषः। अस्य चन्द्रहतकस्य च इदम् उद्गमनम् उदयः, दाहज्वरो दहनसन्तापः तेन सह स्थितः तस्य सदाहज्वरस्य लोकस्य सम्बन्धे अङ्गारवर्षः ज्वलदङ्गारवृष्टिरिवरूपम् शीतार्त्तस्य शीतपीडितस्य लोकस्य सम्बन्धे तुषारपातः हिमपतनस्वरूपम्, तथा विस्फोटेन विषवरपीडोत्पादकव्रणविशेषेण मूर्च्छितस्य मूर्च्छा प्राप्तस्य लोकस्य सम्बन्धे कृष्णसर्पदंशः विजातीयविषघरदंशनस्वरूपम्, कामपीडाव्यथितस्य लोकस्य सम्बन्धे पुनर्नितान्तपीडोत्पादकमित्याशयः।
इह निरङ्गं मालारूपकं दर्पोदाहरणं 'निर्माणकौशलं धातुः' इतिवदिति कुशलाः ।
इत्येवमिति । चिन्तयन्तीं ध्यायन्तीमेव, चन्द्रोदयेन शशाङ्गोद्गमेन उपनीता उपस्थापिता, कमलवनस्य पद्मषण्डस्य म्लानिः सङ्कोच एव निद्रा प्रमीला सेव, मूर्च्छा मां महाश्वेतां निमीलितलोचनां
सिंहके करप्रहारसे आहत हुए अपने क्रोडरित हरिणके रुधिरसे, मानो रक्तवर्ण किए हुएके समान और सम्भोग-कलहमें कुपित हुई रोहिणीदेवीके चरणोंके महावरसे मानो रञ्जित हुएके समान नूतन उदय-रागसे रक्त चन्द्र-मण्डलको उदित हुआ देख, मैं अपने अभ्यन्तरमें कामाग्निसे ज्वलित रहने पर भी अन्धकार (जहां क्या कहें क्या न कहें इस प्रकार सूझ न हो ऐसेसे ) युक्त हृदयवाली, तरलिकाकी गोदमें मेरा शरीर रहनेपर भी कामदेवके हाथोंमें पड़ी, चन्द्रके ऊपर दृष्टि रखने पर भी मृत्युको देखती, उस समय विचार करने लगी—एक ओर तो चैत्रमास और मलयमारुतप्रभृति सकल उद्दीपक-पदार्थ, और दूसरी ओर यह पापाचारी मन्दस्वभाव चन्द्र असहनीय हो रहा है। मेरा हृदय भी अत्यन्त दुःसह मदन-वेदनासे व्याकुल हो रहा है। हाय ! इसका उदय मुझे, दाहज्वरसे पीडित पर जलते हुए काष्ठ (अंगारों) की वर्षा, शीतसे कम्पायमानके ऊपर हिमपातः विर्षके व्रणसे मूर्च्छितको भयङ्कर सर्पके काटनेके समान है। मैं इस प्रकार चिन्ता करती ही थी कि उस समयमें चन्द्रोदय होनेसे कमलवनके सङ्कोचनिद्राके समान, मुझे मूर्च्छा आ गई मेरी आंखें मुद्रित हो (मिच) गईं किन्तु थोड़ी ही देरमें ग्रीष्मवाले
१ '०उदयलोहितं । २. रजनीकरम् । ३. मदनमनलम् ....। ४. एकत्र चापकारी।' ५. अतिदुर्विषहं मदनातुरश्च, अतिदुर्विषहमदनातुरञ्च । ६. सदाहज्वरग्रस्तस्य । ७. विस्फोटोत्.... । ८. विनिन्मयन्तीमेव । ९. म्लानिनिद्रेव ।
| ४०६ | कादम्बरी- | [ कथायाम्- |
|---|
षीत्। अचिरेण च सम्भ्रान्ततरलिकोपनीताभिश्चन्दनचर्चाभिस्तालवृन्तानिलैश्चोपलब्धसंज्ञा सामेवाकुलाकुलां मूर्तेनेवाधिष्ठितां विषादेन, मल्ललाटविधृत-स्रवच्चन्द्रकान्तमणिशलाकाम्, अविच्छिन्न-बाष्पजलधारान्धकारितमुखीं रुदतीं तरलिकामपश्यम्। उन्मीलितलोचनाञ्च मां सा कृतपादप्रणामाचन्दनपङ्कार्ड्रेण करयुगलेन बद्धाञ्जलिरवादीत्-'भर्तृदारिके! किं लज्जया गुरु-जनापेक्षया वा। प्रसीद, प्रेषय माम्, आनयामि ते हृदयदयितं जनम्; उत्तिष्ठ स्वयं वा तत्र गम्यताम्, अतः परमसमर्थास्मि सोढमिमं प्रबल-चन्द्रोदय-विजृम्भमाणोत्कलिकाशतमृदधि-मिव मकरचिह्नम्' इत्येवंवादिनीं तामहमवोचम्¹-'उन्मत्ते!² किं मन्मथेन। नन्वयं सर्वविक-ल्पानपहरन्³, सर्वोपायदर्शनान्युत्सारयन्, ⁴सर्वानन्तरायान् अन्तरयन्, सर्वशङ्कास्तिरस्कुर्वन्,
मुद्रितनेत्राम् अकार्षीद् अकरोत् । उपमा ।
अचिरेणेति । किञ्चेति चार्थः । सम्भ्रान्तया सत्वरया तरलिका उपनीताभिः दत्ताभिः चन्दनस्य मलयजस्य चर्चाभिः लेपनैः, तरलिकासञ्चालितैः तालवृन्तानिलैः व्यजनपवनैश्च, अचिरेण अल्पसमये-नाहम् उपलब्धसंज्ञा प्राप्तचेतना सती, आकुलाकुलां मम दशावलोकनेनात्यन्तव्यग्राम्, मूर्तेनेव शरीर-धारिणेव विषादेन अधिष्ठिताम् आश्रिताम् मम ललाटे भाले विधृता शान्त्यर्थं निहिता स्रवन्ती चन्द्र-किरणस्पर्शात् सलिलं क्षरन्ती चन्द्रकान्तमणिशलाका यया ताम्, तथा अविच्छिन्नया अनुटितया बाष्प-जलधारया नयनाम्बुप्रवाहेण लब्धकारितं 'समुत्पन्नततिमिरं मलिनमित्यर्थः, मुखं वदनं यस्याः ताम् । रुदतीम् आक्रन्दतीम् ।
इह 'मूर्तेनेव' इति मूर्त्तिसम्बन्धित्वोत्प्रेक्षणाद् गुणोत्प्रेक्षा ।
उन्मीलितेति , किञ्च, उन्मीलितलोचनां, विकसितनयनां मां, कृतो विहितः पादयोर्मम चरणयोः प्रणामो नमस्कारो यया सा, तरलिका, चन्दनस्य . मलयजस्य पङ्केन मदङ्गलेपनसमयसंसक्तेन गाढद्रवेण आर्द्रं क्लिन्नं तेन, करयुगलेन हस्तद्वयेन बद्धाञ्जलिः अन्योन्यसंयुक्तपाणिः अवादीद् अब्रवीत्—'भर्तृदा-रिके राजपुत्रि ! गुरुजनापेक्षया मातापित्राद्यपेक्षया लज्जया त्रपया वा किं न किमपीत्यर्थः। हृदयदयितं प्राणप्रियम्। प्रबलः प्रकृष्टो यः चन्द्रोदयः शशाङ्कोद्गमः तेन विजृम्भमाणं वर्द्धमानम् उत्कलिकाशतम् उत्कण्ठावृन्दं तरङ्गसमुदायश्च यत्र तं तथोक्तम्, उदधिं सागरमिव मकरचिह्नं पताकारूपलक्षणं यस्य तं तादृशं मकरकेतुं मवत्त्यां समुत्पन्नं कामम्, अतः परं सोढुं सहन॑ विधातुम् असमर्थास्मि अक्षमास्मि, अत एव स्वयं वा तत्र व्रज्यतामित्याशयः। पूर्णोपमा।
उन्नत्त इति । उन्मत्ते उन्मादवति ! बहुविधप्रलापात् अथ च यथार्थपरिज्ञानादित्याशयः । मन्मथेन किम् एकेन कामदेवेन किं कृतमित्यर्थः । नन्वित्यामन्त्रणे, 'प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु' इत्यमरः। येन हि, मृत्योः सकाशं तत्रप्राप्तौ कामदेवात्याचारात् मृत्योर्निकटम्, वा अथवा सति सम्भवे तस्य कुमारस्यैव सकाशं नेतार मां गमयिता अयं दृश्यमानः कुमुदानां बान्धवः स्वजनश्चन्द्रः, सर्वान् समस्तान् विकल्पान् पूर्वप्रतिपादितरूपान् वितर्कान् अपहरन् दूरीकुर्वन् यथाक्षमासहनतप्रतिपादनेन अवसरप्रदानादित्याशयः, सर्वेषां समस्तानाम् उपायानां कामपीडाविनाशकारणीभूतानां मलयजद्रव-लेपनादीनां दर्शनानि तत्पीडापनोदकत्वेन ज्ञानानि उत्सारयन् विनाशयन् स्वमाहात्म्येन तैस्तद्दिनाशा
तरलिकाद्वारा की हुई चन्दनचर्चा (लेपन) और तालव्यजन [पंखों] की हवासे मुझे चेतना प्राप्त हुई और मैंने देखा तो तरलिका, मानो मूर्तिमान् साक्षात् विषाद ही हो ऐसी, अत्यन्त विह्वल होकर बैठी थी। मेरे ललाटके ऊपर जलस्रावी एक चन्द्रकान्त-मणिकी शलाका रख वह रो रही थी और निरन्तर अश्रुजलकी धारासे उसका मुखपटल मलिन हो गया था। मेरी आँखें खुली देख उसने मेरे चरणोंमें प्रणाम किया और चन्दनरससे आर्द्र अपने दोनों हाथ जोड़ कर कहा—राजकन्ये ! अब लज्जा किंवा गुरुजनोंके भयसे क्या है ? प्रसन्न होकरके मुझे भेजिए मैं आपके प्राणनाथको ले आऊँ, अथवा आप ही स्वयं उठ कर वहां जाइये। स्फुट चन्द्रोदयसे समुद्र-तरंगके समान आपकी भी उत्कण्ठा शतगुणित वृद्धि पा रही है, इसलिए अब आप इस कामदेवको अधिक देर तक सहन नहीं कर सकती हैं। तब इस प्रकार कहती हुई तरलिकाको मैंने प्रत्युत्तर दिया—'अरी उन्मत्ते ! अकेले कामदेव क्या है ? देखो,—समस्त वितर्कोंको हरनेवाला, समस्त उपायोंके दर्शन दूर करनेवाला, समस्त प्रतिबन्धोंको छिपानेवाला,
१. तामवोचम् । २. उन्मत्तिने । ३. अपाहरत् । ४. क्वचित् 'सर्वान्' इति पदं न विद्यते ।
महाश्वेताया अभिसारवर्णना ७३ ] चन्द्रकला-विद्योतिनीसहिता । ७५७
लज्जामुन्मूलयन्, स्वयमभिगमनलाघवदोषमावृण्वन्, कालातिपातं परिहरन्, आगत एष मृत्योस्तस्यैव वा सकाशं नेता कुमुदबान्धवः। तदुत्तिष्ठ यथाकथञ्चिदनुगमनेन जीविता¹ सम्भावयामि हृदयदयितमायाशकारिणं जनम्' इत्यभिदधाना मदनमूर्च्छास्वेदविह्लैरङ्गैः कथम्विदवलम्ब्य तामेवोदतिष्ठम् । उच्चलितायाश्च मे दुर्निमित्तनिवेदकमस्पन्दत दक्षिणं लोचनम् । उपजातशङ्का चाचिन्तयम्—'इदमपरं किमप्युपक्षिप्तं दैवेन²' इति ।
अथ नातिदूरोद्गतेन त्रिभुवनप्रसादमहाप्रणालातुकारिणा सुधासलिलप्लवानिव वहता चन्दनरसनिर्झरनिकरानिव क्षरता अमृतसागरपूरानिदोद्विरता³ श्वेतगङ्गाप्रवाहसहस्राणीव
सम्भवात्, सर्वान् अन्तरायान् जनसाक्षात्काराप्रभृतीन् विघ्नान् अन्तरयन् व्यवधानं कुर्वन् निजोत्कण्ठोत्सुक्यस्य प्रकृष्टत्वात् सर्वशक्ताः पितृमात्राद्यननुमति-निबन्धनातङ्कान् तिरस्कुर्वन् न्यक्कुर्वन् साम्प्रतिकोत्सुक्यतस्तथाविघातङ्कानां सर्वथा दुर्बलत्वात् , लज्जां त्रपाम् उन्मूलयन् उत्पाटयन् एतदौत्सुक्यसमीपे त्रपायास्तुच्छत्वात् , स्वयम् आत्मना अभिगमनेन अनुसरणेन यः स्वस्य लाघवं लघुत्वरूपो दोषस्तम् आवृण्वन् आच्छादयन् साम्प्रतीकौत्सुक्यस्य सर्वोपरिस्थायित्वात् , कालातिपातं समयविलम्बं परिहरन् परित्यजन् कामपीडायाः सर्वथा असोढव्यत्वाद् , आगत एव मां तत्र नेतुं प्राप्त एव, अतएव न विद्यते नानाकल्पकाशप्रयोजनमित्यभिप्रायः ।
तदिति । तत्तस्माद् कारणात् उत्तिष्ठ उत्थानं विधेहि अतिशीघ्रेणेति शेषः । यथाकथञ्चित् क्लेशेनापीत्यर्थः, भीषग्कामपीडावशात्निःसारदेहतयेत्याशयः, अनु तं कुमारमुद्दिश्य गमनेन जीविता श्वसिता अहम् , आयासकारिणं तद्गभयेनैव तावत्क्लेशोत्पत्तेः कष्टदायिनं हृदयदयितं प्राणप्रियं तं जनं सम्भावयामि उच्छ्वासयामि । अनेन समागमाभावे स चाहञ्च प्राणत्यागं करिष्याव इति द्योतितम् । मदनमूर्च्छाया कथम्वित् क्लेशेन अवलम्ब्य विश्रूय उदतिष्ठम् उत्थितवती ।
उच्चलीति । अपि च उच्चलितायास्तं प्रति प्रस्थिताया मे मम दक्षिणम् अपसव्यं लोचनं नयनं दुर्निमित्तनिवेदकम् अमङ्गलसूचकं यथा स्यात्तथा अस्पन्दत अस्फुरत् । उपजातशङ्का समुत्पन्नात्तंङ्का । दैवेन विधिना । किमपि अमङ्गलमित्यर्थः, उपक्षिप्तम् उपस्थापितम् , नारीणां दक्षिणाक्षिस्रुरणस्य स्वजनविनाशद्योतकत्वादित्यभिप्रायः ।
अथेति । अथ दुर्निमित्तप्राप्त्यनन्तरं प्रदोषसमय एव 'तस्मात् प्रासादशिखरादवातरम्' इत्यग्रिमेण सम्बन्धः । त्रिभुवनं त्रिविष्टपमेव प्रासादः सौधः तस्य महाप्रणालं विपुलसलिलनिस्सरणमार्गम् अनुकरोतीति तेन । जलसदृशशीतलमयूखनिःसारणाद् गोलाकारत्वाच्च प्रासादोपरिप्रान्तस्थायि-गोलाकारजलनिर्गमनमार्गानुकारित्वं चन्द्रस्येत्यवधेयम् । सुधा प्रासादलेपनद्रव्यं तद्युक्तं सलिलं जलमिति सुधासलिलंतस्य प्लवान् ओघान् वहता दधतेव, तथाविद्यद्युभ्रमयूररवदित्यशायः,एवमग्रेऽपि । चन्दनरसस्य मलयजद्रवस्य निर्झरनिकरान् धारासमूहान् क्षरता स्रवतेव । अमृतसागरस्य सुधासमुद्रस्य पूरान् ओघान् उद्विरता वमतेव । तथा श्वेतगङ्गायाः श्वेतजाह्नव्याः प्रवाहाणां धाराणां सहस्राणि समूहान् वमता उद्विरतेव । ज्ञाति-
समस्त संशयोंको टालनेवाला, समस्त शङ्काओंको मिटानेवाला, लज्जाका विनाश करनेवाला, अपने आपही उसके समीप जानेकी लघुताके दोषका आच्छादन करनेवाला, विलम्बका दूर करनेवाला, मृत्युके अथवा उस मुनि कुमारके ही निकट ले जानेवाला, यह चन्द्रमा उपस्थित हो ही गया है। अत एव उठो; जितनी देर तक मैं जीवित हूँ उतनी देर तक किसी प्रकारसे उसके पास चल क्लेशदायक उस प्राणवल्लभको जीवित रक्खूँ' यों कहती कहती मैं काममूर्च्छाजनित स्वेदसे विह्वल हुए अङ्गोंसे उस (तरलिका) का ही सहारा लेकर जिस किसी प्रकार उठी, उठकर उसी दिशा की ओर चलते ही, अमङ्गल-परिणामसूचक दक्षिण-नयन स्पन्दित होने (फड़कने) लगा उससे मुझे आशङ्का उत्पन्न हुई और विचार हुआ कि 'विधाताने कोई एक दूसरा विघ्न उपस्थापित किया।'
तदनन्तर त्रिभुवन-रूपी अट्टालिकाके ऊपर मार्गमें महाप्रनाल (विशाल पनाला) का अनुकरण करते सुधा-सलिलकी धाराको मानो नीचे बहाते, चन्दन-रसके प्रवाहसमूह (झरनों) को मानो निस्सारण कराते (झराते,)
१. अनुगतजीविता, अनुगमनजीवना ।
२. क्षेपे ।
३. ०पूरानिव ।
| ४४८ | कादम्बरी- | [ कथायाम्- |
|---|
वमता चन्द्रमण्डलेन प्लाव्यमाने¹ ज्योत्स्नया भुवनान्तराले, श्वेतद्वीपनिवासमिव सोमलोक-दर्शनसुखमिवानुभवति, जने, महावराह-दंष्ट्रामण्डलनिभेन शशिना क्षीरसागोदरादिवोद्ध्रियमाणे महीमण्डले, प्रतिभवनसङ्गनाजनेन विकचमुकुदगन्धैश्चन्दनोदकैरुपह्रियमाणेषु चन्द्रोदयार्घ्येषु, कामिनी-प्रहित-सुरत-दूती-सहस्र-सङ्कुलेषु राजमार्गेषु, नीलांशुकावगुण्ठनासु चन्द्रालोकभयचकितासु कमलवनलक्ष्मीष्विव नीलोत्पलप्रभापिहितासु² इतस्ततः पलायमानास्वभिसारिकासु, प्रतिकुमुदमाबद्धमधुकरमण्डलासु प्रबुध्यमानासु भवनदीर्घिकाकुमुदिनीषु,
दूरोद्गतेन सतिविप्रकृष्टोदितेन चन्द्रमण्डलेन शशिबिम्बेन कर्त्रा, ज्योत्स्नया चन्द्रिकया करणेन, भुवनान्तराले विष्टपमध्ये प्लाव्यमाने पूर्यमाणे सति ।
इह 'त्रिभुवनप्रासादमहाप्रणालानुकारिणा' इत्यत्र निरङ्गं केवलरूपकम् अर्थोपमा च अनयोरेकाश्रयानुप्रवेशरूपः सङ्करः । 'वमतेव' इत्याद्यपञ्चततः क्रियोत्प्रेक्षाः, आसासुक्तसङ्करस्य च मिथो नैरपेक्ष्येण संसृष्टिः । 'श्वेतगङ्गा' इत्यत्र श्वेतपदं च कालिन्दीजलाशयसंपृक्तांशशोधनेन शुक्लतमात्रमवगमयेति सुधीभिराकलनीयमिति कृकलाः ।
श्वेतेति । जने लोके, श्वेतद्वीपे निवासं वसतितिमिव तथा सोमलोकस्य चन्द्रलोकस्य दर्शनसुखमिव अवलोकनानन्दमिव अनुभवति साक्षात्कुर्वति सति, समस्तश्वेतसाक्षात्कारादित्यशयः ।
इह क्रियोत्प्रेक्षागुणोत्प्रेक्षयोः परस्परनैरपेक्ष्येण संसृष्टिः ।
महावराहेति । महीमण्डले क्षोणीमण्डले, महावराहस्य विष्णोस्तृतीयावतारस्य दंष्ट्रामण्डलनिभेन दन्तसमूहसदृशेन श्वेतत्वादित्याशयः । शशिना चन्द्रेण क्षीरसागरस्य दुग्धाग्बुधेः उदराद् अभ्यन्तरात् उद्ध्रियमाण इव बहिर्निष्काश्यमान इव सति, दुग्धक्षरणवत् समन्तात् शुभ्ररश्मिप्रसरणादित्यशयः ।
इह 'दंष्ट्रामण्डलनिभेन' इत्यत्रार्थोपमा, 'उद्ध्रियमाण इव' इत्यत्र क्रियोत्प्रेक्षैत्युभयोरङ्गाङ्गिभावसङ्करः ।
प्रतीति । प्रतिभवनं प्रतिगृहम् सङ्गनाजनेन स्त्रीवर्गेण कर्त्रा, विकचा विकसिता ये कुमुदाः कैरवाः तेषां गन्धः परिमलो येषु तैः तथोक्तैः चन्दनोदकैः मलयजसलिलेः करणेः, चन्द्रोदयार्घेषु शशाङ्कोद्गमनपूजासु उपह्रियमाणेषु दीयमानासु सत्सु ।
कामिनीति । राजमार्गेषु राजपथेपु, कामिनीभिः रमणीभिः प्रहिताः प्रियवसङ्गमसमीपेषु प्रेरिता याः सुरतदूत्यः रमणसञ्चारिकाः तासां सहस्रेण समूहेन सङ्कलेषु व्याप्तेषु सत्सु ।
नीलांशुकेति । नीलांशुकैः श्यामवर्णवस्त्रैः अवगुण्ठनम् अन्धकारसादृश्येन तत्र जनानामनिरीक्षणाय देहवेष्टनं यासां तासु, अतएव नीलोत्पलानाम् इन्दीवराणां प्रभाभिः कान्तिभिः पिहितासु आवृतासु कमलवनलक्ष्मीष्विव पद्मवनश्रीष्विव अभिसारिकासु सङ्केतस्थानादिगामिनीषु नायिकाविशेषेषु चन्द्रस्य शशिनः आलोकेन प्रकाशेन यद्भवं जनावलोकनाद् त्रासः तेन चकितासु उद्विग्नासु विद्यमानासु, इतस्ततः पलायमानासु धावमानासु विद्यमानासु । इह श्रौतोपमा सा च पदार्थहेतुककाव्यलिङ्गेन सङ्कीर्णा ।
साहित्यदर्पणकृता अभिसारिकास्वरूपमेवमभिहितम्—
'अभिसारयते कान्तं या मन्मथवशंवदा ।
स्वयं वाभिसरत्येषा धीरेरुक्ताभिसारिका ॥'
प्रतिकुमुदमिति । कुमुदं कुमुदं प्रति प्रतिकुमुदम् आबद्धं घृतं मधुकरमण्डलं द्विरेफगणो याभिस्तासु, भवनदीर्घिकाया गृहवापिकायाः कुमुदिनीषु कैरविणीषु, प्रबुध्यमानासु स्फुटमानासु सतीषु ।
अमृतसमुद्रके जलराशिको मानो उद्गिरण करते, श्वेतगङ्गाके असंख्य प्रवाहोंको मानो वमन करते ( उगलते ), चन्द्रमण्डलका थोड़ा-थोड़ा उदय होनेसे आकाश वद ज्योत्स्ना ( चाँदनी ) में डूब गया था, सब लोग मानो श्वेतद्वीपमें निवासका या चन्द्र-लोकके दर्शनका सुख अनुभव करते थे, पृथिवीमण्डलको-आदि वराहके दन्तमण्डलके समान-चन्द्रमण्डल मानो क्षीरसागरके अन्यन्तरमेंसे बाहर निकलता था, प्रत्येक घरमें सुन्दरियाँ प्रस्फुटित कुमुदसे सुगन्धित किए हुए चन्दन-जलद्वारा चन्द्रोदयके उद्देश्यसे अर्घ्य देती थीं, राजमार्ग कामिनियोंद्वारा प्रेरित हजारों रति-दूतियोंसे व्याप्त हुआ था, नील-वस्त्रसे समस्त शरीरको आच्छादित कर चन्द्र-प्रकाश मध्य-लोगोंके देखनेके भयसे उद्विग्न होकर-नीलोत्पलकी प्रभासे आच्छादित हुई कमल-वन शोभाके समान अभिसारिकाएँ जब इधर उधर भाग रही थीं, प्रत्येक कुमुदके ऊपर भ्रमरोंके झुण्ड आकर बैठे हुए थे ऐसी भवनस्थित
१. आप्लाव्यमाने ।
२. सनीलोत्पलप्रभासु ।
महाश्वेताया अभिसारवर्णना ७३ ] चन्द्रकला-विद्योतिनीसहिता । ४७६
स्फुटितकुमुदवन-बहुल-धूलि-धवलितोदरे निशा-नदी-पुलिनायमाने अन्तरिक्षे^१, चन्द्रोदयान- न्दनिर्भरे महोदधाविव रतिसमय इव उत्सवमय इव विलासमय^२ इव प्रीतिमय इव जीव- लोके, शशिमणिप्रणालनिर्मरे प्रमोद-मुखर-मयूर-स्वरम्ये प्रदोषसमये, गृहीत-विविध-कुसुम- ताम्बूलाङ्गराग-पटवास-चूर्णया तरलिकयानुगम्यमाना, तेनैव मूर्च्छानिहितेन किञ्चिदाश्यान- चन्दन-ललाटिका-लग्न-धूसरा-कुन्तलकेन चन्दनरसचर्चाङ्गरागवेशेनार्द्रेण^३, तथैव च तया कण्ठस्थितयाक्षमालया श्रवणशिखरचुम्बिन्या च पारिजातमञ्जर्या, पद्मरागरत्नरेमिनिम्मि-
स्फुटितेति । अन्तरिक्षे गगने, स्फुटितस्य विकसितस्य कुमुदवनस्य कैरवारण्यस्य बहलधूलिभिः प्रचुरपरागैः धवलितं श्वेतीकृतम् उदरम् अभ्यन्तरं यस्य तस्मिन् तथोक्ते सति, अत एव निशा रात्रिरेव नदी श्यामात्वसादृश्यादित्याशयः, तस्याः पुलिनायमाने तोयोत्थितसैकतमयदेशवदाचरति सति धूलीनां सैकतवच्छ्वेतत्वादित्याशयः ।
इह निरङ्गकेवलंरूपकत्रयश्चेतोपमयौरेकाश्रयानुप्रवेशरूपः सङ्करः, तथा पदार्थहेतुकं काव्यलिङ्गम्, इत्युभयोः पुनरङ्गाङ्गिभावसङ्करः ।
चन्द्रोदयेति । चन्द्रोदयेन शशाङ्कोद्गमेन आनन्दनिर्भरेः प्रहर्षातिशयो यत्र तथोक्ते, अतएव महोदधौ समुद्राविव स्फीत इति शेषः, जीवलोके प्राणिवर्गे, रतिसमय इव शृङ्गारमय इव, विलासमय इव लीलामय इव, प्रीतिमय इव स्नेहमय इव च सति ।
इह पदार्थहेतुकं काव्यलिङ्गं श्रौतोपमा चेत्यनयोरङ्गाङ्गिभावसङ्करः, 'रतिसमय' इत्याद्यप्रक्षतस्रो गुणोत्प्रेक्षाश्चेत्यासां परस्परं नैरपेक्ष्येण पुनः संसृष्टिः । तथा 'रसस्योक्तिः स्वशब्देन स्थायिसञ्चारिणौ तथा' इत्युक्तदिशा स्थायिभावस्य रसस्य चेह 'रतिरसै'त्यनेनाभिधानाद्दोषः समापतति स च 'औत्सुक्यमय इव' इति पाठेन परिहार्यः ।
शशीति । शशिमणयः चन्द्ररश्मिसम्पर्केण मलिलस्राविणश्चन्द्रकान्ता एव प्रणालाः सलिलनिः- सरणालाभानि तेषां निर्झरो वारिप्रवाहो यत्र तथोक्ते, तथा प्रमोदेन वर्षाभ्रमाजातानन्देन मुखराणां शब्दयामानानां मयूराणां बर्हिणां रवैः केकाशब्दैः रम्ये मनोहरे प्रदोषसमये रजनीमुखकाले जाते सति । इह निरङ्गं केवलरूपकम्, भ्रान्तिमांश्चापीति केचित् ।
गृहीतेति । गृहीतानि आतानि विविधानि नानारूपाणि ताम्बूतानि नागवल्लीदलानि अङ्गरागो लेपनं पटवासचूर्णानि पिष्टातकचूर्णानि च यया तथा, तरलिकया पूर्वोक्तया. दास्या अनुगम्यमाना अनु- वज्यमाना । मूर्च्छानिहितेन मूर्च्छासमये तरलिकया स्थापितेन, किञ्चिदाश्याना समयेन शुष्कतया ईषद्- घनीभूता या चन्दनस्य मलयजस्य ललाटिका भाले तिलकविशेषः तत्र लग्नाः संलग्ना अतएव धूसराः किञ्चित्पाण्डुराः लाकुला विक्षिप्ता अलकाः स्खलितकुन्तला यत्र तेन । आईण तत्कालेऽपि किञ्चित्क्लिन्नेन चन्दनरसस्य मलयजद्रवस्य चर्चा लेपनमेव अङ्गरागः स एव च वेशो नेपथ्यं तेन उपलक्षिता । अपि च, तथैव तत्काले स्थापनरूपेणैव, कण्ठस्थितया गलनिहितया अक्षमालया जपमालया चोपलक्षिता । तथा श्रवणशिखरचुम्बिन्या कर्णोपरिव्यापिन्या, तथा पारिजातमञ्जर्या मन्दारवल्लर्या चोपलक्षिता इह प्रियसम्बन्धि तदिद मण्डनमिति शरीरात्पृथक्तुं नाशाकीति न विस्मर्त्तव्यम् । तथा पद्मरागरत्नस्य लोहित-
सरोवरकी कुमुदिनी प्रस्फुटित होने (खिलने) लगी थीं, प्रस्फुटित कुमुद-वनकी अतिशय रजसे मध्यभाग श्वेत- वर्ण हो जानेके कारण आकाश रात्रिरूप नदीके पुलिन (तोयोत्थित बालुकामय देश) के समान दिखलाई देता था, समस्त जीवलोक महासमुद्रके समान, चन्द्रोदयसे आनन्दमें मग्न होकर, मानो शृङ्गाररसमय, उत्सवमय, विलासमय एवं प्रीतिमय हो गया था, चन्द्रकान्तमणिमयी प्रणाली (पनालों) में से जलनिस्ररण होने लगा था, . हर्षे-प्रमोदसे गान करते मयूरोंके स्वरसे मनोहर-प्रदोषकाल उपस्थित होने पर, नानाविध पुष्प, ताम्बूल, अङ्गलेपनद्रव्य और अबीर चूर्ण लेकर पीछे-पीछे आती तरलिकाके साथ-मूर्च्छाके समय ललाट पर लगाए, थोड़े- थोड़े शुष्क, चन्दन-रसमें संलम्न हो (चिपक) जानेसे धूसरवर्ण हुए और बिखरी लटों सहित, चन्दनरसके लेपन- रूपी अंगरागसे अत्यन्त आर्द्र हुए वेश-विन्यास-सहित, वैसीकी वैसी गलेमें धारण की हुई जपमाला-सहित
१. अन्तरिक्षे । • २. प्रीतिमय इव, मदनमय इव विलासमय इव । ३. अङ्गाङ्गेण ।
४८० | कादम्बरी- | [ कथायाम्-
तेनैव रक्तांशुकेन कृतशिरोऽवगुण्ठना केनचिदात्मीयेनापि परिजनेनानुपलक्ष्यमाणा तस्मात्प्रासादशिखरादवातरम्।
अवतीर्य च पारिजातकुसुम-मञ्जरी-परिमलाकृष्टेन रिक्तीकृतोपवनेन कुमुदवनान्यपहाय धावता मधुकरजालेन नीलपटावगुण्ठनविभ्रममिव सम्पादयतानुबध्यमाना प्रमदवनपक्षद्वारेण निर्गत्य तत्समीपमुदचलम्।
प्रयान्ती च तरलिकाद्वितीयमपरिजनम्² आत्मानमालोक्य³ अचिन्तयम्-'प्रियतमाभिसरणप्रवृत्तस्य जनस्य किमिव कृत्यं बाह्येन परिजनेन ! नन्वेव एव परिजनलीलामुपदर्शयन्ति। तथाहि, समारोपितशरासनात्सहायकोऽनुसरति कुसुमायुधः, दूरप्रसारितकरः
क्रमशः रश्मिभिः कान्तिभिः निर्मितेन रचितेनेव, रक्तवसादृश्यादित्याशयः, रक्तांशुकेन लोहितवस्त्रेण कृतं विहितं शिरसो मस्तकस्य अवगुण्ठनं यया सा। केनचित् आत्मीयेनापि स्वकीयेनापि परिजनेन सेवकेन अनुपलब्यमाना अज्ञातमाना। तस्मात् पूर्वोक्तात् प्रासादशिखरात् सौधमन्थाद् अवातरम् उत्तीर्णा।
इह 'निर्मितेनेव' इत्यत्र क्रियोत्प्रेक्षा। =
अवेति। पारिजातस्य मन्दारस्य या कुसुममञ्जरी पुष्पवल्लरी तस्याः परिमलेन सौरभेण आकृष्टम् आकर्षितं तेन। रिक्तीकृतं समस्तानामेव मधुकराणां तत्रावापनात् शून्यीकृतम् उपवनं प्रमदवनं येन तेन। नीलपटेन कृष्णांशुकेन यद् अवगुण्ठनं शिरोवेष्टनं तस्य विभ्रमं विलासं शोभां सम्पादयता निष्पादयतेव, शिरस उपरि भ्रमणादित्याशयः, कुमुदवनानि कैरवषण्डानि अपहाय परित्यज्य धावता शीघ्रं गच्छता मधुकरजालेन भ्रमरगणेन, अनुबध्यमाना अनुबध्यमाना रुहम्, प्रमदवनस्य स्वीयोपवनस्य पक्षद्वारेण पार्श्वद्वारेण निर्गत्य निःसृत्य, तस्य कुमारस्य समीपं निकटम् उदचलम् उदगच्छम्। इह 'सम्पादयतेवे'ति क्रियोत्प्रेक्षा।
प्रयान्तीति। प्रयान्ती गच्छन्ती, तरलिका द्वितीया अपरा यस्य तत्, अतएव अपरिजिनं द्वितीयपरिवर्जनवर्जितम् आत्मानं स्वम् अवलोक्य निरीक्ष्य अचिन्तयं चिन्तितवती - 'प्रियतमस्य हृदयवल्लभस्य प्रियतमाया हृदयवल्लभाया वा अभिसरणे अनुगमने प्रवृत्तस्य उद्यतस्य जनस्य लोकस्य नाधिकारो नाऽऽकास्य वा बाह्येन बहिर्भूतेन परिजनेन किं नाम कृत्यं विधेयं प्रयोजनं विद्यते, अपि तु न किमपीत्यर्थः।
इह पूर्वं दया 'प्रासादशिखरादवातरम्, इत्यभिधाय 'अवतीर्य च' इत्युक्तं तथा 'तत्समीपमुदचलम्' इत्यभिधाय 'प्रस्थवन्ती' इत्येव वक्तुं युक्तम्, अन्यथा 'प्रवृत्तो वन्त्रिहुतस्तैः पावकाः प्रद्यमयावत्' इति दर्पगोदाहृतवन्नप्रक्रमतारोषस्य निवारयितुमशक्यत्वादिति समालोचनीयम्।
स्रथैवंकेन विधेयं रखजावेषण्यादिकं सेवन कृत्यमित्यत आह-नन्वेति। अवधारणार्थको ननु शब्दः। तथा चामरः-'प्रश्नावधारणानुज्ञानुनयामन्त्रने ननु' इति। एते अग्रे प्रतिपाद्यमानाः कुसुमायुधप्रभृतयः, परिजनस्य लीलां व्यवहारम् उपदर्शयन्ति प्रकटीकुर्वन्ति। समारोपितं सजीकृतं यद् शरासनं धनुः तत्र शासक्तः सायुधः सायको बाणो यस्य स तथोक्तः कुसुमायुधो मदनः अनुसरति अनुगच्छति। अनेनास्य
और कानपर विद्यमान पारिजात-मञ्जरी सहित, प्रभातपल्लवोंही किरणसे निर्मिके समान रक्त (लाल) वस्त्रसे मस्तक अवगुण्ठन (ओढ़) कर, कोई अपने परिजन भी देख न पावें ऐसे डरते, प्रासादशिखर परसे मै उतरी।
वहांसे नीचे उतर कर, जिस समय मैं प्रमदवनके एक छोरके द्वारसे बाहर होकर उसके समीप आनेको निकली, उस समय पारिजातपुष्पमञ्जरीके सौरभसे आकृष्ट हुए, समस्त उपवन शून्य कर और कुमुदवन छोड़ कर दौड़ आते, मानो नीलवर्ण वस्त्रके अवगुण्ठन (बुरके) की शोभा ही उत्पन्न करके, भ्रमरोंके झुण्ड मेरे पीछे पीछे आने लगे।
मैं जाते के समय अपने साथ केवल तरलिका ही को-अन्य किसी परिजनके बिना देख विचार करने लगी-'जो व्यक्ति प्रियतमके निकट अभिसार करने (जाने) के लिए प्रवृत्त हैं, उसको बाहरी परिजनसे क्या प्रयोजन है ! क्योंकि ये ही सब परिजनोंका कार्य सम्पादन-जैसे कामदेव धनुष चढ़ा कर और उस पर बाण रख कर
१.निर्मितेन । २.द्वितीयामिव । ३.तरलिकाहितीयामरिजनम्। ४.अन्ववेक्ष्य ।