भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 543, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 543
५०४कादम्बरी-[ कथायाम्-

ज्ञतया,^१ चातितपस्वितया च^२ प्रशान्तत्वेन च निरभिमानतया च महानुभावत्वेन च शुचितया चोपरूढगौरवोऽभूत्,^३ तदानीन्तु तेनापरेणं दर्शितसद्भावेन स्ववृत्तान्तकथनेन तया च कृतज्ञतया हृतहृदयः सुतरामा^४रोपितप्रीतिरभवत्। आर्दीकृतहृदयश्च शनैः शनैरेनामभाषत—'भगवति ! क्लेशभीरुरकृतज्ञः सुखासङ्गलुब्धो लोकः स्नेहसदृशं कर्म्मानुष्ठातुमशक्तो निष्फलेनाश्रुपातमात्रेण स्नेहमुपदर्शयन् रोदिति। त्वया तु कर्म्मणैव सर्वमाचरन्त्या किमिव न प्रेमोचितमाचेष्टितम्, येन रोदिषि। तदर्थमाजन्मनः^५ प्रभृति समुपचितपरिचयः प्रेयानप्यसंस्तुत इव^६ परित्यक्तो बान्धवजनः, सन्निहिता अपि तृणावज्ञयावधारिता विषयाः, मुक्तानि^७ आंतशयित-सुनासीरसमृद्धीन्यैश्वर्य्यसुखानि, मृणालिनीवार्तितनीयस्यापि नितरां तनिमानमनुचितैः^८

श्रयणेन, निरभिमानतया निरहङ्कारतया, महानुभावत्वेन महाप्रभावत्वेन, शुचितया पवित्रतया च कारणेन। उपारूढम् उत्पन्नं गौरवं महाश्वेतां प्रति गुरुत्वज्ञानं यस्य स तथोक्तः। दर्शितः प्रकटितः सद्भावः साधुत्वं येन तेन स्ववृत्तान्तकथनेन निजोदन्तनिवेदनेन। कृतज्ञतया उपरतस्यापि स्वामिन उपकाराय व्रतानुष्ठानेनेत्यर्थः। सुतरां नितान्तं यथा स्यात्तथा आरोपिता उपस्थापिता प्रीतिः स्नेहो यत्र सः, अभवत् आसीत्।

आर्दीति । तया प्रीत्या आर्दीकृतहृदयः क्लिन्नीकृतचेतश्च चन्द्रापीडः। एनां महाश्वेताम् अभाषत अवोचत। क्लेशभीरुः दुःखत्रस्त उपरतस्नेहिजनोपकाराय व्रताद्यननुष्ठानादित्याशयः, अत एव च अकृतज्ञः सुखासङ्गलुब्धः सुखभोगमात्रेच्छुको लोको जनः स्नेहसदृशं वात्सल्ययोग्यम्, कर्म आमुष्मिकोपकाराय संयमोपोषणवृत्तोत्सर्गादिकं कृत्यम् अनुष्ठातुम् आचरितुम् अशक्तोऽसमर्थः, क्लेशभीरुत्वादिति कारणादित्याशयः। निष्फलेन निष्प्रयोजनेन अश्रुपातमात्रेण केवलनयनाम्बुनिपातनेन स्नेहं प्रीतिम् उपदर्शयन् बाह्यवृत्त्या प्रकाशयन् लोकेभ्य इति शेषः रोदिति आक्रन्दति। कर्मणैव कर्त्तव्यरूपेणैव, आचरन्त्या व्यवहरन्त्या प्रेमोचितं स्नेहयोग्यं किमिव नाचेष्टितम्, अपि तु सर्वमेव विहितमित्यर्थः। अत एव तदुपकारस्य पर्याप्तत्वाच्च विद्यते रोदनापेक्षेत्याशयः।

तथाविधं कर्मोपपादयितुमाह—तदर्थमिति । तदर्थं पुण्डरीकार्थं नियमानुष्ठानेन पुण्डरीकस्यामुष्मिकोपकारायेत्यर्थः। समुपचितः लालनपालनादिना वर्धितः परिचयः स्नेहो यस्य स तथोक्तः, अत एव प्रेयान् अतिशयेन प्रियोऽपि बान्धवजनः पित्रादिस्वजनवर्गः, असंस्तुतः अपरिचितो जनो लोक इव परित्यक्तः उज्झितः, अन्यथा जनसमागमेन नियमानुष्ठानं व्याहन्येतेत्याशयः। सन्निहिता अपि सामीप्यादनायासेन भोग्या अपीत्यर्थः, विशिनोति बध्नातीति विषयाः स्त्रक्चन्दनवनितादयः, तृणावज्ञया तृणेष्विव अवहेलया, अवधीरिता उज्झिताः। अतिशयिताः तिरस्कृताः सुनासीरस्य सुराधिपस्य समृद्धयः सम्पत्तिनिबन्धनआनन्दा यैस्तानि ऐश्वर्यसुखानि सम्पत्तिभोगानन्दाः, मुक्तानि त्यक्तानि। मृणालिनीव कमलिनीव अवितनीयस्यापि स्वभावत एवात्यन्तकृशापि, तनुः इदं शरीरम्, अनुचितैः नृपपुत्रीत्वेन स्वस्यानुपयुक्तैः संक्लेशैः तपोदुःखैः, नितरां नितान्तम्, तनोर्भावः तनिमा पृथ्वादिभ्वादिमनिच् तं तादृशं

परित्याग, अतितपस्विता, शान्ति-पथावलम्बन, निरहङ्कारिता, महानुभावता और पवित्रतासे अधिक उत्पन्न हो गई थी। किन्तु उस समय तो साधुता प्रकाश कर अपना सब समाचार कहनेसे एवं कृतज्ञतासे उस (चन्द्रापीड) का हृदय मोहित (आकृष्ट) हो गया और अधिक प्रीति आविर्भूत हुई। हृदय आर्द्र हो जानेसे वह उस (महाश्वेता) से धीरे-धीरे कहने लगा—'भगवति ! क्लेशसे त्रस्त होनेवाले, अकृतज्ञ एवं केवल सुखाभिलाषी व्यक्ति सच्चे स्नेहके उपयुक्त कार्य नहीं कर सकते; केवल निरर्थक अश्रुपात करके ही लोक-समाजमें अपना स्नेह दिखानेके लिए रोया करते हैं। किन्तु आपने तो कार्य द्वारा ही सब कुछ करके क्या स्नेहके उपयुक्त नहीं किया, जिससे रुदन करती हो। जन्मसे ही जिनके प्रति आपको स्नेह-वृद्धि होती गई ऐसे अत्यन्त प्रिय बान्धव-जनोंको आप उनके लिए ही अपरिचितके समान छोड़ दी हैं। अनायाससुलभ होने पर भी भोग्य-विषयोंको तृणके समान अवहेलना कर त्याग दी हैं। इन्द्रकी समृद्धि-सुखसे भी उत्कृष्ट समृद्धि सुखको त्याग दी हैं। मृणालके समान स्वभावतः कृश


१. तपस्वितया। २. आसीत्। ३. तेनानेनापरेण। ४. सुतिरामतिदूरम्। ५. आजन्मतः। ६. प्रेयान-संस्तुत इव। ७. विमुक्तानि। ८. उचितैः।

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका) · पृष्ठ 543, कुल 709 में से · BharatKosha