भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 569, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 569
५३०कादम्बरी-[कथायाम्-

यत्र च^१ कन्यकाजनस्य कपोलतलालोक एव मुखप्रक्षालनम्, लोचनान्येव कर्णोत्पलानि, हसितच्छवय एवाङ्गरागाः, निश्वासाः^२ एवाधिवासगन्धप्रयुक्तयः, अधरद्युतिरेव कुङ्कुमानुलेपनम्^३, आलापा एव तन्त्रीनिनादाः, भुजलता एव चम्पकमालाः,^४ करतलान्येव लीलाकमलानि, स्तना एव दर्पणाः, निजदेहप्रभैवांशुकावगुण्ठनम्, जघनस्थलान्येव विलासमणिशिलातलानि कोमलाङ्गुलिराग एव चरणालक्तरसः, नखमणिमरीचय एव कुट्टिमोपहारकुसुमप्रकराः। यत्र चालक्तरसोऽपि^५ चरणातिभारः, बकुलमालिकामेखलाकलनमपि गमनविघ्न-

शब्दाम्। पुष्पमध्ये चरणस्खलनेन नार्यो भूतलपातसम्भावनाभयात् 'सीत्कारान्' कुर्वन्तीति तासां सौन्दर्यातिशयो ध्वन्यत इत्यवधेयम्। इह सापह्नवा क्रियोत्प्रेक्षा।

यत्रेति। यत्र कन्यान्तःपुरे कन्यकाजनस्य कुमारिकावर्गस्य कपोलतलालोक एव गण्डस्थलदीप्तिरेव, मुखं प्रक्षाल्यते अनेनेति मुखप्रक्षालनं तदुपयोगिसलिलस्वरूपम्। अनेन गण्डस्थलानां सौन्दर्यातिशयो ध्वन्यते। लोचनानि नयनान्येव कर्णोत्पलानि श्रवणभूषणानि, अनेन नयनानां नीलत्वं विस्तृतत्वञ्च प्रत्याय्यते। हसितच्छवय एव हास्यकान्तय एव अङ्गरागा विलेपनानि, अनेन हास्यद्युतीनां नितान्तवैशद्यं सूच्यते। निश्वासाः श्वासमरुत एव अधिवासगन्धप्रयुक्तयः देहसंस्काराय गन्धमाल्यादिप्रयोगाः, अनेन निश्वासानाम् अत्यन्तसौगन्ध्यं द्योत्यते। 'संस्कारो गन्धमाल्याद्यैः स्यात्तदधिवासनम्' इत्यमरः। एषु सर्वत्र यथासम्भवम् 'आसीत्, आसन्' वा क्रियापदं योजनीयम्। इत्थमग्रेऽपि अधरद्युतिरेव ओष्ठच्छविरेव कुङ्कुमानुलेपनं कुङ्कुमाङ्गरागः, एतेन तयोरभ्यन्तररक्तत्वं व्यज्यते। आलापा एव सम्भाषणान्येव तन्त्रीनिनादाः वीणाध्वनयः, अनेन तेषां परममधुरस्वरस्त्वमवगम्यते। भुजलता एव बाहुवल्ल्य एव चम्पकमाला हेमपुष्पस्रजः, अनेन तासामत्यन्तमृदुलगौरत्वं बोध्यते। करतलान्येव हस्ततलान्येव लीलाकमलानि क्रीडार्थपङ्कजानि, अनेन करतलानामालोहितत्वं प्रतीयते। स्तना वक्षोजा एव दर्पणा मुकुराः, एतेन निर्मलत्वं गम्यते। निजदेहप्रभैव स्वशरीरद्युतिरेवे अंशुकावगुण्ठनं वस्त्रावरणम्, अनेन शरीरप्रभाबाहुल्यं द्योत्यते। जघनस्थलान्येव कटिपुरोभागप्रदेशा एव विलासमणिशिलातलानि विभ्रमरत्नप्रस्तरतलानि, अनेन तेषां विस्तीर्णता उज्ज्वलता स्वच्छता च व्यज्यते। कोमलाङ्गुलिराग एव मृदुलचरणाङ्गुलिस्वाभाविकारक्तिमैव चरणालक्तरसः पाद्याक्तरसः, अनेन रागाधिक्यं सूच्यते। नखमणीनां चरणनखपरिहितानाभरणानां. मरीचयः किरणा एव कुट्टिमेषु बद्धभूमिषु उपहारकुसुमप्रकराः शोभासम्पादनाय विक्षिप्तप्रसूनसमूहाः, अनेन नखरत्नकिरणानां प्रतिपदं पुञ्जीभावो व्यज्यते।

इह प्रत्येकवाक्ये निरङ्गकेवलरूपकमलङ्कारः 'मुखं तव कुरङ्गाक्षि ! सरोजमिति नान्यथा' इति साहित्यदर्पणोदाहृतवदित्यवधेयम्।

यत्रेति। किञ्च, यत्र कन्यकासमुदाये अलक्तरसोऽपि पादयोर्यावकरसलेपोऽपि चरणातिभारः पादयोर्भारयितः, आसीदिति शेषः। एवमग्रेऽपि सौकुमार्यातिशयात् पादरागोऽपि भरायित इत्यभिप्रायः।

न्यस्त पुष्पोंके पतन होनेमें पीड़ाम्यञ्जक शब्द सीत्कार, यह सब उस (चन्द्रापीड, ने, अतिरिक्त सम्भोग-व्यापारको मानो ये स्त्रियां अभ्यास करती हों इस प्रकार, उनको देखा।

एवं जिस स्थानमें कन्याओंके गण्डस्थल (कपोल) का लावण्य ही मुखप्रक्षालन [जल] था; नयनयुगल ही कर्णोत्पल थे; हास्यकी शोभा ही अङ्गलेप था; निश्वासवायु ही शरीरसंस्कारके लिए सुगन्धित द्रव्यके प्रयोग थे; और अधर-प्रभा ही कुङ्कुमलेप था। परस्पर उनका आलाप ही तन्त्रीका झङ्कार (वीणाका शब्द) था, भुजलता ही चम्पकपुष्पकी माला थी; करतल ही लीला-कमल थे; कुच-मण्डल ही दर्पण थे; अपने शरीरकी कान्ति ही आवरण-वस्त्र था; जघनस्थल ही विलास करनेके मणिशिलातल थे; कोमल अङ्गुलियोंकी रक्तिमा (रंग) ही चरणोंका अलक्तक (महावर) था; एवं नखके ऊपर प्रदत्त रत्नोंकी किरणें ही बद्ध-भूमि (चबूतरे) पर शोभासम्पादनके लिए विक्षिप्त (बिखरे) पुष्पसमूह थे।

और जहाँ पर, अलक्तक (महावर) का रक्त भी चरणोंको अत्यन्त भार मालूम होता था; बकुल-पुष्पकी


१. यस्य च। २. निःश्वासाः। ३. कुङ्कुममुखावलेपनम्। ४. चम्पकदैक्षक्यमालाः। ५. यत्र चालक्तरसोऽपि।