भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 685, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 685
६४६कादम्बरी-[ कथायाम्-

पुष्पिकापातोत्पादितक्रोधेन चण्डिकामपि मुखभङ्गिविकारैर्भृशमुपहसता, कदाचिन्निवार्यमाणावास-रुषिताध्वगारब्ध-बहु-बाहुयुद्ध-पात-भग्न पृष्ठकेन, कदाचित् कृतापराध-बालक-पलायनामर्ष-पश्चात्-प्रधावित-स्खलिताधोमुख-पात-स्फुटित शिरःकपालभुग्न-ग्रीवेण, कदाचिज्जनपदकृते नवागतापरधार्मिकादरमत्सरोद्वद्धात्मना, निःसंस्कारतया यत्किञ्चनकारिणा, खञ्जतया मन्दमन्द-सञ्चारिणा, बधिरतया संज्ञाव्यवहारिणा, रात्र्यन्धतया दिवाविहारिणा, लम्बोदरतया

कः प्रत्ययः, यानि कानिचित् अष्टसंख्याकानि कुसुमानीत्यर्थः । एवञ्च अतिरोपगतया अत्यन्तकोपस्वभावतया, कस्मिंश्चित्समये दुर्व्यवस्थाया अथवारूपे स्थापिताया अष्टपुष्पिकायाः, पातेन कुतूहलाद्भाग्याद्वा केनचित्पुरुषेण चण्डिकापीठात् पातनेन उत्पादितो जनितः क्रोधः कोपो यस्य तेन, अतएव मुखभङ्गिविकारैः चण्डिकामपि भृशमत्यर्थम् उपहसता हासं विदधता । अज्ञातानि यानि कानिचिदष्टौ पुष्पाणि चण्डिकायाः पीठे दुष्प्रकारेण विहितानि तानि पुष्पाणि दैवात्पतितानि कुतूहलाय केनचित्पातितानि वा । ततस्तदुपरि द्रविडस्य कोपश्चण्डिकाया उपरि भवति यत्त्वं पुष्पाण्यपि रक्षितुं नापारयः, अतएव मुखभङ्गिविकारैस्तामुपहसतीत्यभिप्रायः ।

कदाचिदिति । निवार्यमाणेन 'इह वासो न विधेयः' इति निषिध्यमानेन आवासेन निवासस्थानेन कारणेन, रुषितैः कुपितैः अध्वगैः पान्थैः आरब्धेषु बहुषु अनेकेषु बाहुयुद्धेषु भुजसङ्ग्रामेषु पातेन भग्नं स्फुटितं पृष्ठं पश्चाद्भागो यस्य तेन ।

कदाचिदिति ।। कृतो रजः पर्णादिक्षेपादिना विहितः अपराध भागो येन तस्य तथोक्तस्य बालकस्य शिशोः पलायनेन योऽमर्षः कोपः तेन यत् पश्चात् प्रधावितं शीघ्राममनं तेन यत् स्खलितं प्रच्युतिस्तस्मात् अधोमुखपातेन स्फुटितं भग्नं शिरः कपालं मस्तकखर्परं भुग्ना कुटिलीभूता च ग्रीवा यस्य तेन ।

कदाचिदिति । जनपदैः देशस्थितैः पुरुषैः कृतो विहितो यो नवागनस्य नूतनायातस्य अपरधार्मिकस्य अन्यसत्पुरुषस्य आदरः सन्मानं तत्र मत्सरेण विद्वेषेण उद्वद्धः स्वनिधनायोद्वन्धनावर्लम्बनीकृत आत्मा शरीरं येन नेन ।

'आत्मा कलेवरे यत्ने स्वभावे परमात्मनि । चित्ते धृतौ च बुद्धौ च परन्त्यावर्त्तनेऽपि च ।'

इति धरणिः ।

निरिति । निःसंस्कारतया शिक्षा-सत्सङ्गाद्युत्पन्नसाधुवासनारहितत्वेन, यत्किञ्चनकारिणा तुच्छ-कर्मविधायिना अकार्येष्वपि प्रवृत्तिविधायिनेत्यर्थः ।

खञ्जेति । खञ्जतया खोडतया मन्दं मन्दं शनैः शनैः सञ्चरितुं विहर्तुं शीलं यस्य तेन ।

बधिरेति । बधिरतया श्रवणेन्द्रियरहिततया, संज्ञया हस्तचालनादिकसङ्केतेन व्यवहर्त्तुं शीलं यस्य तेन ।

रात्र्यन्धेति । रात्र्यन्धतया रजन्यामनवलोकितत्वेन दिवाविहारिणा दिवसभ्रमणकारिणा ।

लम्बोदरेति । लम्बोदरतया प्रभूताहारिणा अत्यधिकभोजनकारिणा ।


इधर उधर रक्खी हुई अष्टपुष्पिका (आठ प्रकार के फूलोंका संग्रह) के गिर जाने पर उसको अभिनव क्रोध उत्पन्न हो जाता था, अतएव उस पुष्पकी रक्षा करनेमें समर्थ न होनेसे नानाविध मुखभङ्गी (मुँह बना-बना) कर चण्डिका देवीका भी अत्यन्त उपहास करता था वहाँ विश्राम करने की अभिलाषा वाले पथिकों (राहियों) को रहनेके लिए निषेध करने पर क्रुद्ध हुए उन लोगों के साथ अनेक बाहुयुद्ध होनेमें गिर पड़नेसे किसी समय उसकी पीठ टूट गई थी । किसी समय धूलि-पत्र आदि फेंककर अपराध करके भागे हुए बालकोंसे चिढ़ कर उनके पीछे दौड़नेमें पद-स्खलन हो (ठोकर लग) जाने पर अधोमुख (औंधे मुँह) होकर प्रस्तर पर गिर पड़नेसे उसके मस्तक और कपाल फूट गये थे तथा गर्दन टेढ़ी हो गई थी । वहाँके लोगोंके द्वारा किसी समय नवीन आए हुए अन्य किसी धार्मिकका आदर किया हुआ देखकर उसमें विद्वेष हो जानेके कारण वह आत्महत्या करनेके लिए गलेमें उद्बन्धन (फाँसी) लगा लेना था । शिक्षाजनित व्युत्पत्तिरहित होनेके कारण वह अतितुच्छ (चाहे सो कुछ) कार्य करता था। खञ्ज (लँगड़ा) होनेके कारण धीरे-धीरे चलता था। बधिर (बहरा) होनेके कारण अङ्गुल्यादि संकेतों (इशारों) से दूसरेके साथ व्यवहार करता था । रात्र्यन्ध (रतौंधी) होनेके कारण दिनमें ही बाहर भ्रमण करता था और लम्बा उदर (पेट) होनेके कारण प्रचुर भोजन करता था । विविध उपाधोंके


१. कदाचिन्निवार्यमाणवासिनाध्वगारब्धबहुबाहुयुद्धपातभग्नपृष्ठेन, कदाचिदनवगतानुजडित्तरलोहिना शिरः-कम्पनवक्रितग्रीवेण । २. ०...जनपदकृत ०... । ३... उद्बद्धात्मना । ४. मन्दं मन्दं सञ्चारिणा ।