भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 687, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 687

६५० | कादम्बरी- | [ कथायाम-

विगतश्रममेषु पुरोनिखातकुन्तयष्टिषु संयतेषु वाजिषु, वाजिसमीप-विरचित-पर्णसंस्तरे^१ च दिवसगमन-खिन्न^२-परिवर्तितयामिके सुषुप्सति सैनिकजने, कृत-बहु-पावकप्रभा-पीत-तमसि दिवस इव विराजमाने सेनानिवेशे चन्द्रापीडः परिजनेनैकदेशे संयतस्येन्द्रायुधस्य पुरः परिकल्पितं प्रतीहार^५-निवेदितं शयनीयमगात्। निष्षण्णस्य चास्य तत्क्षणमेव पस्पर्श दुःखासिका हृदयम्, अरतिगृहीतश्च विसर्जयाञ्चभूव राजलोकम्, अतिवल्लभानपि नाललाप पार्श्वस्थान्, निमीलितलोचनो मुहुर्मुहुर्मनसा जगाम किम्पुरुषविषयम्, अनन्यचेताः सस्मार हेमकूटस्य^६, निष्कारण-बान्धवतामचिन्तयन्महाश्वेतापादानाम्^७, जीवितफलमभिललाष पुनः पुनः कादम्बरीदर्शनम्, अपगताभिमानपेशलाय नितरामस्पृहयन्मदलेखापरिचयाय, तमा-

पृष्ठानि येषां तेषां भावस्तया तादृश्या कारणेन विगतश्रमत्वेषु दूरीभूतायासेषु, वाजिषु तुरगेषु पुरः अग्रतो निखाताः प्रोथिता याः कुन्तयष्टयः प्रासलगुडाः तासु संयतेषु बद्धेषु सत्सु। वाजिनां तुरगाणां समीपेपु निकटेपु विरचिताः स्वापाय निर्मिताः पर्णसंस्तराः पत्रमयास्तरणानि येन तस्मिन्, दिवसं वासरपर्यन्तं गमनेन खिन्नाः केचन परिश्रान्ता अत एव अन्ये परिवर्त्तिताः परिवर्तनं कृता यामिकाः प्रहरिणो येन तस्मिन्, सुषुप्सति स्वपितुमिच्छति सति, तथा कृतानां जनितानां बहूनामनेकेषां पावकानां वह्नीनां प्रभाभिर्दीप्तिभिः पीतानि ग्रस्तानि विलोपितानि तमांसि अन्धकारा यस्य तस्मिन् तादृशे सेनानिवेशे सैन्यसमूहे, रजन्यामपि दिवस इव विराजमाने शोभमाने सति। परिजनेन सेवकेन एकदेशे एकभागे संयतस्य बद्धस्य। प्रतीहारेण द्वारपालेन निवेदितं विज्ञापितम्, शयनीयं तल्पम् अगात् गतवान्।

निष्षण्णस्येति। अपि च, दुःखस्य आसनम् आसिका दुःखप्राप्तिरित्यर्थः, 'पर्यायार्हणोत्पत्तिषु' इत्यनेन णुल्प्रत्ययः। निष्षण्णस्य तल्पे विद्यमानस्य, अस्य चन्द्रापीडस्य। पस्पर्श स्पृष्टवती। अपि च अरतिगृहीतः समस्तविषयेष्वेवारुचिसम्पन्नः विसर्जयाम्बभूव शयनायानुज्ञां प्रदत्तवान्, अतिवल्लभा नपि अतिप्रियानपि पार्श्वस्थान् समीपस्थायिनो नाललाप न बभाषे, निमीलिते मुद्रिते लोचने नयने यस्य सः। किंपुरुषविषयं किन्नरदेशं मनसा जगाम चिन्तयामासेत्यर्थः। मातुः स्मरति इतिवद् 'हेमकूटस्य' इत्यत्र, 'अधीगर्थदयेशां कर्मणि' इत्यनेन षष्ठी। महाश्वेतापादानां महाश्वेताया इत्यर्थः तपस्वितया गौरववशात्पादशब्दप्रयोगो बहुत्त्वं च सङ्गच्छते। वस्तुतस्तु - 'प्रसादानाम्'। इत्युचितः इव इति प्रतिभाति। जीवितफलं जीवनप्रयोजनस्वरूपम् कादम्बरीदर्शनम्। अभिललाष दवान्छ। अपगतेन दूरीभूतेन अभिमानेन अहङ्कारेण कारणेन पेशलो मनोहरः तस्मै, मदलेखापरिचयाय मदलेखासंस्तवाय। सावकाङ्क्षः

करनेसे पीठ आर्द्र हो जानेके कारण परिश्रम (थकावट) दूर हो गया और उनको सम्मुखमें प्रोथित (गड़ी हुई) भालोंकी लकड़ियोंसे बाँध कर रख दिया, दिन भर चलनेसे परिश्रान्त हुए प्रहरीगण (पहरेदार लोग) प्रहर निश्चय कर घोड़ोंके समीपमें ही पत्तोंकी शय्या (बिछौने) निर्माण कर उस पर शयन करनेकी अभिलाषा करने लगे और बहुत स्थानोंमें प्रज्वलित अग्निके आलोकसे अन्धकारका नाश हो जानेके कारण समस्त सेनानिवेश (सेनाका डेरा) दिनके समान शोभा पाने लगा, तब चन्द्रापीड किसी भृत्यके द्वारा एक भागमें बाँधे गए इन्द्रायुधके सम्मुख (सामने) निर्माण किए हुए निजी दौवारिकके द्वारा निवेदित किए हुए, शयनके कक्षमें प्रवेश किया। वहाँ आकर उस शय्याके ऊपर जब बैठा तत्काल ही दुःखासिका (अकुलाहट) आकर इसके हृदयका स्पर्श करने लगी, इस तरह समस्त विषयोंसे ही अरुचि हो जानेके कारण उसने समस्त राजाओं को विदा किया। समीपमें बैठे हुए अत्यन्त प्रियजनोंके साथ भी वह कुछ वार्तालाप नहीं कर सका। केवल नेत्रोंको सङ्कुचित (मींच) कर बारंबार मनसे किन्नरदेशकी भावना करने लगा। एकाग्रचित्तसे हेमकूट-पर्वतका स्मरण करने लगा। महाश्वेताकी अकारणकी दयावान् बान्धवताके विषयमें चिन्तन करने लगा। बारंबार कादम्बरीके दर्शन करनेसे ही सफल जीवन है, ऐसा मनमें समझकर उसकी ही इच्छा करने लगा अहङ्कार-रहित होनेके कारण बहुत ही मनोहर लगते मदलेखाके-आलाप-व्यवहारको फिरसे निरन्तर होनेकी


१ ॰॰॰प्रस्तरे, स्त्रस्तरे। २. खिन्नेषु। ३ ॰॰॰परिकल्पितयामिके। ४. प्रभाप्रकाशितातनसि दिवसामनामे सेनानिवेशे। ५ ॰॰॰प्रतिहार ॰॰॰। ६. हेमकूटं हेमकूटस्य स्मरवान्। ७. उत्कण्ठितोऽचिन्तयत्। ८. प्रसादानाम् ९. जीवितविन्द।