भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 77, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 77
२९कादम्बरी-[ कथामुखे-

परिवारजनमप्यद्वितीयम्, अनन्तगज-तुरग-साधनमपि खड्गमात्रसहायम्, एकदेशस्थित-मपि व्याप्तभुवनमण्डलम्, आसने¹ स्थितमपि धनुषि निषण्णम्, उत्सादिताशेषद्विपद्विन्धन-मपि² ज्वलत्प्रतापानलम्, आयतलोचनमपि 'सूक्ष्मदर्शनम्³-' महादोषमपि सकलगुणाधिष्ठानम्, कुपतिमपि कलत्रवल्लभम्⁴, अविरत-प्रवृत्त-दानमप्यमदम्, अत्यन्तशुद्ध⁵-स्वभावमपि कृष्णचरितम्, अकरमपि हस्तस्थित-सकल-भुवनतलं⁶ राजानमद्राक्षीत्।


अनन्तेति । अनन्तानि अपरिमितानि गजा हस्तिनस्तुरगा अश्वास्तेषां साधनानि उपकरणानि सहाया यस्य तम् 'निर्वर्त्तनोपकरणानुव्रज्यासु च साधनम्' इत्यमरः, एवम्भूतमपि खड्गमात्रसहायमिति विरोधः, युद्धे सर्वविधसैन्यान्वयेऽप्यनेन केवलतरवारिसहाय्येनैव विजयनिर्मिति तत्परिहारः ।

एकदेशेति । एकदेशः सभामण्डपादिरूप एकत्रस्मिन् जनपदे वा स्थितमपि वर्तमानमपि व्याप्तं समाक्रान्तं भुवनमण्डलं मर्त्यभुवनं येन तमिति विरोधः, व्याप्तं भुवनमण्डलं येन तमिति तत्समाधानम् 'व्याप्तं ख्याते समाक्रान्ते' इति विश्वः ।

आसन इति । आसने राजसिंहासने स्थितं निषण्णमपि धनुषि चापे निषण्णं स्थितमिति विरोधः' धनुषि विजयविश्वासिनमिति यद्वा धनुः संज्ञके स्थितनिति परिहारः 'धनुः संज्ञा प्रियालाद्रौ' इति विश्वः ।

उत्सादितेति । उत्सादितानि व्यापादितानि अशेषाणि समग्राणि द्विपन्तो रिपव एव इन्धनानि काष्ठानि येन तं तथाविधमपि ज्वलन् प्रतापः प्रभाव एवानलो वह्निः यस्य तं तादृशमिति इन्धनाभावे कथं ज्वलनमिति विरोधः, ज्वलन् दीप्यमानः सर्वत्र प्रबलभावेन वर्त्तमान इति तत्समाधानम् । शत्रुपु काष्ठसमारोपः प्रतापे अनलसमारोपस्य कारणमिति परम्परितरूपकसङ्कीर्णो विरोधाभासः ।

आयतेति । आयते विस्तीर्णे लोचने चक्षुषी यस्य तं तथाविधमपि सूक्ष्मे अविपुले दर्शने लोचने यस्य तमिति विरोधः, सूक्ष्मे अध्यात्मविषये दर्शनं ज्ञानं यस्येति परिहारः । 'सूक्ष्मं स्यात्कौतवेऽप्यारमे पुंत्यणौ त्रिषु चाल्पके ।' 'दर्शनं नयन-स्वप्न-बुद्धि-धर्मोपलब्धिषु' ।। इति विश्वः । महान् बहुः दोषोऽवगुणो यस्मिन् स तं तादृशमपि सकलगुणाधिष्ठानं समस्तगुणाभवांमति विरोधः महान्तौ दीर्घौ बाहू यस्य तमिति परिहारः 'दोर्दोषा च भुजो बाहु'रिति धनञ्जयः । कुत्सितो निन्दितश्चासौ पतिर्भर्त्ता चेति कुपतिरेवम्भूतमपि कलत्रवल्लभं स्त्रीजनमित्रमिति विरोधः, कुः पृथिवी तस्याः पतिः स्वामीति परिहारः 'गोत्रा कुः पृथिवी पृथ्वी, इत्यमरः। अविरतं निरन्तरं प्रवृत्तं दानं मदजलं यस्य तमेवम्भूतमपि अमदं मदजलशून्यमिति विरोधः अयञ्च विरोधो हस्तिसादृश्ये, अविरतं सन्ततं दानम् अर्थिभ्यो द्रव्यादिवितरणं यस्य तं तादृशमपि अमदं गर्वशून्यमिति तत्परिहारः। 'दानं गजमदे त्यागे पालनच्छेदशुद्धिषु' इति विश्वः, 'मदे रेतसि कस्तूर्यां गर्वे हर्षेनमानयोः' इति च मेदिनी । अत्यन्तमतिशयेन शुद्धः स्वच्छः स्वभावः प्रकृतिर्यस्य तं तथाविधमपि कृष्णं चरितमाचारो यस्य तमिति विरोधः, कृष्णस्य वा वासुदेवस्य चरितमिव चरितं यस्य तमिति तत्समाधानम् । 'कृष्णः सत्यवतीपुत्रे वायसे केशवेऽर्जुने' इति विश्वमेदिन्यौ । न विद्यते करः पाणिर्यस्य तं तादृशमपि हस्ते करे स्थितं शासनेनाधीनं सकलं समग्रं भुवनतलं यस्य तमिति विरोधः, न


अकेला था (उन सब में एक था)। असंख्य हाथी-घोड़ों के साधनों से भरपूर होते हुए भी युद्ध में वह केवल कृपाण ही को अपना साथी चुनता था। एक ही स्थान पर स्थित होते हुए भी वह (प्रताप द्वारा) सभी लोकों में व्याप्त था। वह आसन पर रहते हुए भी (उसके विजय का विश्वास) धनुष पर स्थित था। शत्रुरूपी ईंधन के चुक जाने पर भी उसके प्रताप की अग्नि जलती रहती थी। बड़ी-बड़ी आँखों के होते हुए भी वह सूक्ष्म दृष्टि से देखने वाला या अर्थात् संसार को चर्मचक्षुओं से न देखकर ज्ञानचक्षुओं से देखनेवाला था, महादोषी (१-महान अवगुणी २-लम्बी बांहोंवाला) होते हुए भी सभी गुणों का निवास-स्थान था, कुपति (१-बुरा पति, शठ नायक २-पृथ्वीपति) होते हुए भी सभी रानियों का प्रिय-पात्र (दक्षिण नायक) था, निरन्तर दानशील होते हुए भी (१-दान देने में लगा हुआ २-मद गिराने वाला) मदरहित (निरभिमानी) था, शिष्ट स्वभाव होते हुए भी कृष्णचरित (१-मलिन आचरण वाला २-भगवान के समान साधु आचार वाला) था और कर हीन होते हुए भी (१-बिना हाथ के २-बिना कर लिए ही) सारी पृथ्वी उसके हाथों में थी।


१. आसनगतम्, आसनस्थितम् ।
२. उत्सादिताशेषद्विषन्धनमपि ।
३. सूक्ष्मदर्शिनम् ।
४. कलत्रचन्द्रवल्लभम् ।
५. अविशुद्ध ।
६. हस्तस्थित भुवनतलम् ।