कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 79, कुल 709 में से
संदर्भ में पढ़ें३० कादम्बरी- [ कथामुखे-
पुरुषेणाधिष्ठितपुरोभागम्, आकुलाकुल-काकपक्षाधारिणा कनक-शलाका-निर्मितसप्यन्त- र्गत-शुकप्रभाश्यामायमानं मरकतमयमिव पञ्जरमुद्वहता चण्डालदारकेणानुगम्यमानाम् असुर-गृहीतामृतापहरण-कृत-कपट-पटुं विलासिनीवेशस्य श्यामतया भगवतो हरेरिवानु- कुर्वतीम्, सञ्चारिणीमिवेन्द्रनीलमणिपुत्रिकाम्१, आगुल्फावलम्बिना४ नीलकञ्चुकेनाच्छन्न- शरीराम्, उपरि रक्तांशुक-विरचितावगुण्ठनां नीलोत्पलस्थलीमिव निपतितसन्ध्यातापाम्, एक-कर्णावसक्त-दन्तपत्रप्रभाधवलितकपोल-मण्डलाम् उद्यदिन्दुकिरणच्छुरित-मुखीमिव
नातिक्रूरा अभयङ्करा आकृतिः स्वरूपं यस्य तेन, अनुगृहीतः अङ्गीकृत आर्यवेशः सभ्यनेपथ्यं येन स तेन, शुक्लवाससा धवलवस्त्रेण केनचित् पुरुषेण अधिष्ठित आश्रितः पुरोभागो यस्याः सा ताम् ।
आकुलेति । आकुलाकुलः इतस्ततः संलग्नः यः काकपचः शिखण्डकः तं धारयितुं शीलं यस्य तेन ‘काकपचः शिखण्डकः’ इत्यमरः, ‘सः बालानां काकपचः शिखण्डकशिखण्डिकौ’ इति कोशः । कनकशालाकाः सुवर्णशलाकाः ताभिः निर्मितं रचितमपि अन्तर्गतस्य मध्यस्थितस्य शुकस्य कीरपक्षिणः प्रभया कान्त्या श्यामायमानं श्यामवर्णमिवावलोक्यमानम्, अत एव मरकतमयमिव मरकतमणिजातमिव पञ्जरं पञ्जरगण- स्थलमू उद्वहता धारयता, केनचित् चण्डालदारकेण अन्त्यजपुत्रेण । इह श्यामायमानमिति व्यङ्गतोपमा, मरकतमयमिवेति क्रियोत्प्रेक्षा अनयोरङ्गाङ्गिभावेन सङ्करालङ्कारः ।
असुरेति । असुरैः राक्षसैः गृहीतं स्वायत्तीकृतं यत् अमृतं सुधा तस्यापहरणे अपहर्त्तौ कृतो विहितः कपटो व्याजपूर्णः पटुः प्रकटी विलासिनीवेशो मोहनीस्त्रीस्वरूपम् येन तस्य भगवतः ।
‘उत्पत्तिं प्रलयञ्चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्याञ्च स वाच्यो भगवानिति ॥’
इत्युक्तलक्षणलक्षितस्य हरेः श्रीविष्णोः श्यामतया समानकृष्णवर्णतया अनुकुर्वतीमिव सादृश्य- मनुभवन्तीमिव विद्यमानाम् । इहानुकुर्वन्तीमिवेति क्रियोत्प्रेक्षा ।
पुरा क्षीरसागरमन्थनान्निःसृतममृतं दैत्या देवेभ्योऽप्रदाय स्वयमेव गृहीतवन्तः, भगवान् विष्णुस्तु तज्जिहीर्षयात्मनो मोहनी स्वरूपं कृत्वा तान् प्रतारयन् देवेभ्यस्तदमृतं ददाविति भागवतीया कथा ।
सञ्चारिणीमिति । सञ्चारिणीं गमनशीलाम् इन्द्रनीलमणिपुत्रिकां जङ्गमप्राणिरूपां नीलकान्तमणि- निर्मितपुत्तलिकामिव विद्यमानाम् । इह पुत्तलिकात्ववाच्यमुत्प्रेक्षा ।
आगुल्फेति । आगुल्फावलम्बिना घुटिकापर्यन्तपातिना नीलकञ्चुकेन नीलवर्णकूर्पासकेन आच्छन्नम् आवृतं शरीरं गात्रं यस्याः सा ताम् उपरि ऊर्ध्वप्रदेशे शिरसीत्यर्थः, रक्तांशुकेन लोहितवर्णवस्त्रेण विरचितं कृतम् अवगुण्ठनं मुखच्छादनं यया सा ताम्, अत एव निपतितः उपरि प्रातः सन्ध्याकालीन आतपः सूर्य- किरणो यस्यां ताम् एतादृशीं नोलोत्पलस्थलीमिव कुवलयकृत्रिमभूमिमिव । इह पदार्थहेतुककाव्यलिङ्गा- लङ्कारेणोपमालङ्कारः सङ्कीर्णो भवति ।
एकेति—एकस्मिन् कर्णे श्रोत्रे अवसक्तं लग्नं यत् दन्तपत्रं कर्णाभरणविशेषस्तस्य प्रभया कान्त्या धवलितं श्वेतीकृतं कपोलमण्डलं गण्डप्रदेशे यस्याः सा ताम्, अत एव उद्यन् उदयं प्राप्नुवन् य इन्दुश्चन्द्र-
जोड़े अभी तक फंसी हुई थीं तथा चाण्डाल होते हुये भी उसकी आकृति में उतनी कठोरता नहीं थी। उसके पीछे एक चाण्डाल बालक था जिसके उलझे हुए बालों में कहीं-कहीं कौवे के पंख लगे हुये थे। वह अपने हाथ में सोने की तीलियों से बना हुआ एक पिंजरा लिए था, जो उसके भीतर स्थित गहरे हरे रङ्ग के सुग्गे की झलक से मरकतमणि से बना हुआ प्रतीत हो रहा था। उस कन्या का साँवला स्वरूप भगवान् विष्णु के उस मायावी मोहनी रूप से मिलता जुलता सा प्रतीत हो रहा था जिसे उन्होंने असुरों के हाथ में पड़े हुए अमृत के घड़े को लौटाने के लिये धारण किया था। वह कन्या क्या थी नीलम की चलती-फिरती पुतली ही थी। उसका शरीर पैर की गाँठों तक नीले कंचुक (जामा) में और सिर लाल रेशमी ओढ़नी के घूँघंट से ढका हुआ था जिससे वह ऐसी प्रतीत हो रही थी मानो नीले कमलों की बनावटी भूमि पर डूबती हुई लोट रही हो। उसके दाहिने कान में लगा हुआ हाथी दाँत का पत्ता उसके साँवले मुख के दाहिने कपोल-मण्डल को अपनी श्वेत आभा से चमका रहा था जिससे वह पूर्व भाग में निकलते हुये चन्द्रमण्डल को धारण करने वाली चाँदनी रात के
१. कपटविलासिनी, ...वेपस्य । २. सञ्चारिणीमिन्द्र । ३. पुत्रिकामिव । ४. गुल्फावलम्बिनीला ५. गुरू । ६. उद्यदिन्दुबिम्बच्छुरित ।