कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 111, कुल 353 में से
संदर्भ में पढ़ें४ अध्याये ] नखच्छेद्यप्रकरणम्। १०३
अन्येषु तु स्थानेष्ववस्थाऽपेक्षया प्रयोगमाह— प्रयोज्यायां च तस्याङ्गसंवाहने शिरसः कण्डूयने पिटकभेद- ने व्याकुलीकरणे भीषणे च प्रयोगः ॥ १३ ॥
प्रयोज्यायां च कन्यायां तस्य प्रयोग इति विस्रम्भणार्थं नान्यस्येत- रस्य नखकर्मणः, संवाहने यत्र यत्र स्थाने मर्दनं तत्र तत्र, शिरःकण्डू- यने शिरस्येव, पिटकभेदने स्वल्पपिटकानां शरीरस्थानां भेदने, तद्देश- एव व्याकुलीकरणे किं चित्कर्तुमप्रयच्छन्त्या भीषणे भयं दर्शयितुमित्य- र्थः, एते संवाहनादिष्वावस्थिकाः सर्वास्वेव नायिकासु, अस्यावस्थि- ककार्यवशात्नायिकाऽपि प्रयोक्त्री ॥ १३ ॥
ग्रीवायां स्तनपृष्ठे च वक्रो नखपदनिवेशोऽर्धचन्द्रकः ॥ १४ ॥
ग्रीवायामिति । ग्रीवापार्श्वे बहिर्मुखाः स्तनपृष्ठे चोर्ध्वमुखाः, अर्ध- चन्द्रवद्वक्रोऽर्धचन्द्रः, सूच्यग्रेण कनिष्ठानखेन निष्पाद्यो मध्यमानखेना- र्धचन्द्रेण ॥ १४ ॥
तावेव द्वौ परस्पराभिमुखौ मण्डलम् ॥ १५ ॥
तावेव द्वाविति । अर्धचन्द्रौ क्रोडभावेन परस्पराभिमुखौ मण्डलं- तदाकारत्वात् ॥ १५ ॥
नाभिमूलककुन्दरवङ्क्षणेषु तस्य प्रयोगः ॥ १६ ॥
नाभिमूले रशनानायकवदेव स्थितं, ककुन्दरयोर्नितम्बस्योपरि- कूपकयोरन्तर्निहितप्रतिकूपकं मनोहारि, वङ्गणयोरूरुसन्ध्योः कर्णिकाऽ- लंकारवज्जघनस्य ॥ १६ ॥
सर्वस्थानेषु नातिदीर्घा लेखा ॥ १७ ॥
सर्वस्थानेति । लेखायाः स्थानविशेषाभावान्न स्थाने विशेषः, तेन ग्री- वात्रिकपृष्ठपार्श्वोरुमूलबाहुषु नातिदीर्घस्थानविशेषाद् द्व्यङ्गुला त्र्यङ्गुला वा प्रत्यग्रशिखरा निष्पाद्या ॥ १७ ॥
सैव वक्रा व्याघ्रनखकमास्तनमुखम् ॥ १८ ॥
सैवेति । लेखा, स्तनमुखादुत्थाप्याग्रतो वक्रीकृता व्याघ्रनखखण्ड- वत्स्तनकण्ठमलंकरोति ॥ १८ ॥
पञ्चभिरपि नखैर्लेखा चूचुकाभिमुखी मयूरपदकम् ॥ १९ ॥
पञ्चभिरपि नखैः सूच्यग्रशिखरकैः, चूचुकाभिमुखौति । स्तनमुखस्या- धस्तादङ्गुष्ठनखं विन्यस्योपरि च संश्लिष्टाङ्गुलिनखानि चूचुकाभिमुखमा- कर्षयेद्, मयूरपदकं तदाकारत्वात्, ॥ १९ ॥