कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 214, कुल 353 में से
संदर्भ में पढ़ें१ अध्याये ] प्रवासचर्याप्रकरणम् । २०७
प्रवासे चेति । मङ्गलमात्रमाभरणं शङ्खवलयादिकं यस्याः, नायकाभिवृद्धये देवतामुद्दिश्य च उपवासस्तत्परा, परग्रहणं कादाचित्कत्वनिवृत्त्यर्थं, वार्तायां स्थितेति । नायकवार्ताऽन्वेषणपरेत्यर्थः, ॥ ४३ ॥
गृहानवेक्षेतेति तात्स्थ्यात्कर्माण्वाह—
शय्या च गुरुजनमूले ॥ ४४ ॥
गुरुजनमूल इति । श्वश्रूजनसमीपे, शयनमात्मविशुद्ध्यर्थम् ॥ ४४ ॥
तदभिमता कार्यनिष्पत्तिः ॥ ४५ ॥
तदभिमतेति । गुरुजनाभिमतस्य कार्यस्यानुष्ठानमानुकूल्यख्यापनार्थम् ॥ ४५ ॥
नायकाभिमतानां चार्थिनामर्जने प्रतिसंस्कारे च यत्नः ॥४६॥
अर्जने प्रतिसंस्कारे च यत्न इति । नायकस्य येऽभिमताः, न च तेनापवर्जितास्तेषाम् ॥ ४६ ॥
नित्यनैमित्तिकेषु कर्मसूचितो व्ययः ॥ ४७ ॥
नित्यं कर्माशनपानादि, नैमित्तिकं कर्म बालकोत्सवादि, उचितोव्ययो यावता विधिः संपद्यते, नायककल्पितो वा ॥ ४७ ॥
तदारब्धानां च कर्मणां समापने मतिः ॥ ४८ ॥
तदारब्धानामिति । नायकारब्धानां देवकुलोद्यानादिकर्मणां समापने मतिः, येन प्रकारेण निष्पद्यते तथा कार्यमित्यर्थः ॥ ४८ ॥
ज्ञातिकुलस्यानभिगमनमन्यत्र व्यसनोत्सवाभ्याम् ॥ ४९ ॥
ज्ञातिकुलस्य=पितृगृहस्य, अनभिगमनं, कारणं विना तद्गमनं हि विनाशकारणं स्त्रीणां, कस्य चिद् व्यसने पुत्रशोकादौ, उत्सवे विवाहादौ यातव्यम् ॥ ४९ ॥
तत्रापि नायकपरिजनाधिष्ठिताया नातिकालमवस्थानमपरिवर्तितप्रवासवेषता च ॥ ५० ॥
नायकपरिजनाधिष्ठिताया गमनमात्मविशुद्ध्यर्थं, नातिकालमवस्थानमिति । नातिचिरकालमवस्थानं श्वशुरकोपभयाद्, अपरिवर्तितप्रवासवेषता चेति । उत्सवमधिकृत्येदं वचनम् ॥ ५० ॥
गुरुजनानुज्ञातानां करणमुपवासानाम् ॥ ५१ ॥
गुरुजनानुज्ञातानां करणं, स्वातन्त्र्यपरिहारार्थम् ॥ ५१ ॥