कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 232, कुल 353 में से
संदर्भ में पढ़ें१ अध्याये ] व्यावर्त्तनकारणप्रकरणम् । २२९
शुष्काभियोगीत्याशङ्का ॥ २८ ॥
शुष्काभियोगी निष्कारणमभियुङ्क्त इत्याशङ्का ॥ २८ ॥
तेजस्वीति साध्वसम् ॥ २९ ॥
तेजस्वीति साध्वसं, प्रमादावस्खलितेऽनर्थं करिष्यतीति ॥ २९ ॥
चण्डवेगः समर्थो वेति भयं मृग्याः ॥ ३० ॥
मृग्या इति । मन्दवेगायाः, चण्डवेगः समर्थो वेत्यश्व इति भयम् ॥ ३० ॥
नागरकः कलासु विचक्षण इति व्रीडा ॥ ३१ ॥
नागरक इति । यो नागरकवृत्तावधिकृतः, कलासु च विचक्षणो-नागरकादन्यो व्रीडा ग्राम्याया अविदग्धायाश्च ॥ ३१ ॥
सखित्वेनोपचरित इति च ॥ ३२ ॥
सखित्वेनेति । मित्रत्वेन मयाऽयमुपचरितः कथं ? पुनरेवं कुर्यामिति च व्रीडा ॥ ३२ ॥
अदेशकालज्ञ इस्यसूया ॥ ३३ ॥
अदेशकालज्ञ इति । असूया देशकालयोर्नाभियुङ्क्त इति ॥ ३३ ॥
परिभवस्थानमित्यबहुमानः ॥ ३४ ॥
परिभवस्थानं नीचत्वात्, ततश्च सखीजनोऽन्यो वा मां परिभविष्य-त्यसत्सँगतेति, तस्मिन्नबहुमानः कारणम् ॥ ३४ ॥
आकारितोऽपि नावबुध्यत इत्यवज्ञा ॥ ३५ ॥
आकारित इति । अभिप्रायं दर्शितो नावबुध्यत इत्यवज्ञा, न विदग्ध-इति ॥ ३५ ॥
शशो मन्दवेग इति च हस्तिन्याः ॥ ३६ ॥
हस्तिन्या इति । चण्डवेगायाः, शशो मन्दवेग इति चावज्ञा ॥ ३६ ॥
मत्तोऽस्य मा भूदनिष्टमित्यनुकम्पा ॥ ३७ ॥
मत्तोऽस्येति । मन्निमित्तेन मामधिगच्छतो मा भूदनिष्टं शरीरतोऽर्थ-तो वेत्यनुकम्पा ॥ ३७ ॥
आत्मनि दोषदर्शनान्निर्वेदः ॥ ३८ ॥
आत्मनि दोषदर्शनादिति । शरीरे रोगादिकं वैगन्ध्यादिकं पश्यन्त्या-निर्वेदः ॥ ३८ ॥
विदिता सती स्वजनबहिष्कृता भविष्यामीति भयम् ॥३९॥
२९ का० सू०