कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 233, कुल 353 में से
संदर्भ में पढ़ें२२६ सटीक कामसूत्रे [ ५ अधिकरणे,
विदिता स्वजनस्य विप्रतिपन्नेति, तस्माद् वहिष्कृता भविष्यामीति भयम् ॥ ३९ ॥
पलित इत्यनादरः ॥ ४० ॥
पलितो वृद्ध इत्यनादरः ॥ ४० ॥
पत्या प्रयुक्तः परीक्षत इति विमर्शः ॥ ४१ ॥
पत्या प्रयुक्त इति । किं पतिव्रता नेति, ज्ञातुं नियुक्तः परीक्षत इति विमर्शः ॥४१॥
धर्मापेक्षा चेति ॥ ४२ ॥
धर्मापेक्षा च कारणम्, अस्त्येव हि का चित्स्त्री या धर्ममपेक्षते ॥४२॥
प्रतिविधानमाह—
तेषु यदात्मनि लक्षयेत्तदादित एव परिच्छिन्द्यात् ॥ ४३ ॥
तेष्विति । व्यावर्तनकारणेषु, यदात्मनि कारणं लक्षयेन्ममेदं भवितेति, तदादित एव परिच्छिन्द्यात्परित्यजेद्यथा न भवति ॥ ४३ ॥
उत्पन्नानि चात्मनि स्त्रियां वा परिच्छिन्द्यादुपायैरित्याह—
आर्यत्वयुक्तानि रागवर्धनात् ॥ ४४ ॥
आर्यत्वयुक्तानीति । पत्यावनुरागोऽपत्यापेक्षाऽतिक्रान्तवयस्त्वं दुःखाभिभवो धर्मापेक्षा चेत्येतानि स्त्रीगतान्यार्यत्वयुक्तानि रागवर्धनात्परिच्छिन्द्याद्यथा तस्या रागो वर्धेत तथा प्रतिविधेयम् ॥ ४४ ॥
अशक्तिजान्यपायप्रदर्शनात् ॥ ४५ ॥
विरहानुपलम्भोऽस्य मा भूदनिष्ठमात्मनि दोषदर्शनादिति स्त्रीगतानि, गमिष्यत्यन्यत्रासक्तमतिरित्यात्मगतम् , एतान्यशक्तिजान्यपायदर्शनात् ॥ ४५ ॥
बहुमानकृतान्यतिपरिचयात् ॥ ४६ ॥
अप्रतर्क्यो नागरकः, कलासु विचक्षणः, सखित्वेनोपचरितः, पत्या प्रयुक्तः परीक्षत इत्यात्मगतानि बहुमानकृतान्यतिपरिचयात् ॥ ४६ ॥
परिभवकृतान्यतिशौण्डीर्याद्वैचक्षण्याच्च ॥ ४७ ॥
कृतेऽतिपरिचये तस्योपरि मानो विगलति, शुष्काभियोगी, अदेशकालज्ञः, परिभवस्थानमाकारितो नावबुध्यते, पलित इत्यात्मगतानि नायिकाकर्त्तृकपरिभवकृतानि, अतिशौण्डीर्यादिति । परिभवख्यापनादु, वैचक्षण्याच्चेति । शास्त्रकलाप्रकाशनात् ॥ ४७ ॥
तत्परिभवजानि प्रणत्या ॥ ४८ ॥