कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 234, कुल 353 में से
संदर्भ में पढ़ें१ अध्याये ] स्त्रीषु सिद्धाः पुरुषाः प्रकरणम्। २२७
अवज्ञयोपमन्त्रयते, असंवृताकारो मित्रेषु निस्पृहभाव इत्यात्मग- तानि, तत्परिभवजानि = नायिकाकर्तृकपरिभवजानि, प्रणत्येति । तत्रै- कान्तप्रसृतया ॥ ४८ ॥
भययुक्तान्याश्वासनादिति ॥ ४९ ॥
तेजस्वी चण्डवेगः समर्थो वेति, शशो मन्दवेगो विदिता सती स्व- जनबहिष्कृता भविष्यामीत्यात्मगतानि, भययुक्तान्याश्वासनादिति । यथा न भयं तथा प्रतिविधानेनेति ॥ ४९ ॥
इति व्यावर्तनकारणान्येकचत्वारिंशं प्रकरणम् ॥
एवं शीलमवधार्यात्मनः सिद्धतां पश्येदन्यथाऽभियोगासम्भवादिति स्त्रीषु सिद्धाः पुरुषा उच्यन्ते—
पुरुषास्त्वमी प्रायेण सिद्धाः — कामसूत्रज्ञः, कथाऽऽख्यानकु- शलः, बाल्यात्प्रभृति संसृष्टः, प्रवृद्धयौवनः, क्रीडनकर्मादिनाऽऽग- तविश्वासः, प्रेषणस्य कर्ता, उचितसम्भाषणः, प्रियस्य कर्ता, ऽन्य- स्य भूतपूर्वो दूतो मर्मज्ञः, उत्तमया प्रार्थितः, सख्या प्रच्छन्नं संसृ- ष्टः, सुभगाभिख्यातः, सह संवृद्धः, प्रातिवेश्यः कामशीलः, तथा- भूतश्च परिचारकः, धात्रेयिकापरिग्रहः, नववरकः, प्रेक्षोद्यानत्या- गशीलः, वृष इति सिद्धप्रतापः, साहसिकः, शूरः, विद्यारूपगु- णोपभोगैः पत्युरतिशयिता, महार्हवेषोपचारश्चेति ॥ ५० ॥
पुरुषास्त्विति । अमी वक्ष्यमाणाः, प्रायेण बाहुल्येन, कामसूत्रज्ञः- कथाऽऽख्यान कुशल इति । द्वावपि कामशीलत्वात्स्त्रीषु सिद्ध्यतः, बाल्या- त्प्रभृतीति । योऽन्यस्माद् गृहादागतो बाल्यात्प्रभृति संसृज्यते, स प्रवृ- द्धस्नेहत्वादस्याः सिद्धः, प्रवृद्धयौवन इति । स हि वयःसामर्थ्यात्स्त्रीषु सिद्धः, क्रीडनकर्मादिनेति । क्रीडनव्यापारेण, आदिशब्दाच्चित्रपत्रच्छेद्या- दिना यस्या आगतविश्वासः स तस्याः सिद्धः, प्रेषणस्य कर्ता, यस्या- वचनकरः स तस्याः सिद्धः, उचितसम्भाषणोऽनियन्त्रणात्सिद्धः, प्रियस्य कर्ता यस्या य इष्टं सम्पादयति स तस्याः सिद्धः, अन्यस्य भूतपूर्वो दूतः, पूर्वसंस्तुतत्वादस्याः सिद्धः, यस्या अपि मर्मज्ञस्स तस्याः सिद्धः, उत्तमयेति । अधिकया यः प्रार्थितः स पूर्वा याः सिद्ध्यति, सख्या प्र- च्छन्नं संसृष्टः, प्रच्छन्नं कामितस्तत्परिचयान्नायिकायाः सिद्धः, सुभ- गाभिख्यातः, सौभाग्यख्यातिमावहन् स्त्रीषु सिद्धः, सह संवृद्धो यया एकस्मिन् गृहे स तस्याः सिद्धः, प्रातिवेश्यः कामशीलः, सोऽस्या वच-