कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 282, कुल 353 में से
संदर्भ में पढ़ें१ अध्याये ] सहायगम्यागम्यगमनकारणचिन्ताप्रकरणम् । २७५
प्रीतियशोऽर्थास्तु गुणतोऽधिगम्याः ॥ ११ ॥
प्रीतीति । यतो गुणवद्भ्य एव प्रीतियशश्च भवति ॥ ११ ॥
यच्चोक्तमुभयोरपि गुणागुणान्वैशिके वक्ष्याम इति तानाह-तत्र नायकमधिकृत्याह--
महाकुलीनः, विद्वान्, सर्वसमयज्ञः, कविः, आख्यानकुशलः, वाग्मी, प्रगल्भः, विविधशिल्पज्ञः, वृद्धदर्शी, स्थूललक्षः, महोत्साहः, दृढभक्तिः, अनसूयकः, त्यागी, मित्रवत्सलः, घटागोष्ठीप्रेक्षणकसमाजसमस्यक्रीडनशीलः, नीरुजः, अव्यङ्गशरीरः, प्राणवान्,-मद्यपः, वृषः, मैत्रः, स्त्रीणां प्रणेता लालयिता च, न चासां वशगः, स्वतन्त्रवृत्तिः, अनिष्ठुरः, अनीर्ष्यालुः, अनवशङ्की, चेति नायकगुणाः ॥ १२ ॥
महेति । महत् कुलं यस्य तस्यापत्यं, विद्वान्=आन्वीक्षिक्यादिज्ञः, आख्यानकुशलः=कथाकुशलः, वाग्मी=वक्ता, सर्वेति । पाषण्डादिसमय-परिज्ञाता, कविः=संस्कृतादिकाव्यकृत्, प्रगल्भः=प्रतिभावान्, शिल्पं=लेख्यादि, वृद्धदर्शी=विद्यावयोवृद्धानामुपासकः, स्थूललक्षः=महेच्छः, महोत्साह इति । यो महतोत्साहेन युक्तः, महत्त्वं च गुणान्तरयोगाद्, यथोक्तं-'शौर्यममर्षता शीघ्रता दाक्ष्यं चोत्साहगुणा' इति, दृढभक्तिः-न हरिद्राराग इव प्रीतिर्यस्य, अनसूयुः=क्षमावान्, त्यागी=दाता, मित्रवत्सलः, मित्रेष्वत्यन्तप्रीतिमाधत्ते, घटाऽऽदिशीलः, घटाऽऽदयः शीलयति सः, घटागोष्ठ्यौ व्याख्याते, प्रेक्षणकं=नटादिदर्शनं, समाजः=पानगोष्ठी, समस्यक्रीडा=संभूय क्रीडा, नीरुजः=अरोगप्रकृतिः, अव्यङ्गम्=अहीनम्, प्राणः=बलम्, अमद्यपः=ब्राह्मणः, अर्थाल्लभ्यते, वृषः=व्यवायक्षमः, मैत्रः=करुणावान्, स्त्रीणां प्रणेता प्रणेतृत्वमुपदेशेन तासां समुदाचारेषु स्थापनं, लालनं तासां शरीरस्थितिवैकल्यसंवरणं, न चासामिति। स्त्रीणां वशगो-वश्यः, स्वतन्त्रवृत्तिः, स्वतन्त्रकृत्येषु न परायतः, अनीर्ष्यालुः=ईर्ष्यारहितः, अनवशङ्की=निःशङ्कमारम्भावान्, नायकगुणा इति । गुणिद्वारेण गुणाभिधानमत्र प्रकरणाद्यत्तत्वाद्, गम्यगुणा इति वक्तव्ये नायकग्रहणं-सामान्यसंज्ञाप्रतिपत्त्यर्थं; ततश्च पूर्वोक्तं गुणागुणान् वैशिके वक्ष्याम-इति तद्व्याख्यातं भवति, स एव नायको गुणान्तरयोगात् कन्यापुनर्भू-परदारवेश्याऽपेक्षया यथाक्रमं वरो जारः सिद्धो गम्यश्चेति संज्ञाऽन्तराणि लभते ॥ १२ ॥