कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 331, कुल 353 में से
संदर्भ में पढ़ें३२४ सटीके कामसूत्रे [ ६ अधिकरणे,
यत्राभिगमने निर्व्ययो दास्यति न वेति संशयोऽनभिगमने सक्तो-
दास्यति न वेति स उभयतोऽर्थसंशयः ॥ ३७ ॥
यत्रेति। उभयतोयोगे, अभिगमने परस्य, निर्व्यय इति। विना व्ययेन, अनभिगमने सक्त इति। विनाऽभिगमनं दास्यति न वेति, तस्य वशित्वं-न निश्चितं स चोभयतोऽर्थसंशयनामेति ॥ ३७ ॥
यत्राभिगमने व्ययवति पूर्वो विरुद्धः प्रभाववान् प्राप्स्यते न
वेति संशयोऽनभिगमने च क्रोधादनर्थं करिष्यति न वेति स उभ-
यतोऽनर्थसंशयः ॥ ३८ ॥
यत्रेति। उभयतो योगे, अभिगमने परस्य पूर्वो विरुद्धः प्राप्स्यते मया तद्वारेणायमपकरिष्यति न वेति संशयः, अनभिगमने च सक्त इति वर्तते, क्रोधादनर्थं करिष्यति न वेति संशयः, पराभिगमने तदीयामर्षस्यानि-श्चितत्वात् स उभयतोऽनर्थसंशयनामा, एते चत्वार उभयतो योगा द-र्शनद्वयेऽपि शुद्धा उक्ताः ॥ ३८ ॥
सङ्कीर्णानाह—
एतेषामेव व्यतिकरेऽन्यतोऽर्थोऽन्यतोऽनर्थः ॥ ३९ ॥
एतेषामेव व्यतिकर इति। सजातीयं त्यक्त्वा शेषाणां परस्परसङ्कीर्णत्वे षट् सङ्कीर्णयोगाः, यदाह—अन्यत इति। यत्र परस्याभिगमनेऽर्थ-इत्येकतोऽर्थः, सकाच्चामर्षिताद्वित्तप्रत्यादानमित्यन्यतोऽनर्थोऽयमुभयतो-योगोऽर्थानर्थरूपः ॥ ३९ ॥
अन्यतोऽर्थोऽन्यतोऽर्थसंशयः ॥ ४० ॥
अन्यतोऽर्थ इति। पूर्ववत्, सक्तः सङ्घर्षाद्दास्यति न वेत्यन्यतोऽर्थसंशयोऽयमर्थार्थसंशयरूपः ॥ ४० ॥
अन्यतोऽर्थोऽन्यतोऽनर्थसंशयः ॥ ४१ ॥
अन्यतोऽर्थ इति। पूर्ववत्, सक्तोऽमर्षितो दत्तं प्रत्यादास्यति न वेत्यन्यतोऽनर्थसंशयोऽयमर्थानर्थसंशयरूपः ॥ ४१ ॥
अन्यतोऽनर्थोऽन्यतोऽर्थसंशयः ॥ ४२ ॥
अत्र परस्य स्वेन व्ययेन निष्फलमभिगमनमित्यन्यतोऽनर्थः, सक्तः-सङ्घर्षाद् दास्यति न वेत्यन्यतोऽर्थसंशयोऽयमनर्थार्थसंशयरूपः ॥ ४२ ॥
अन्यतोऽनर्थोऽन्यतोऽनर्थसंशयः ॥ ४३ ॥
अन्यतोऽनर्थ इति। पूर्ववत्, सक्तोऽमर्षितो दत्तं प्रत्यादास्यति न वेत्यन्यऽतोऽनर्थसंशयोऽयमर्थानर्थसंशयरूपः ॥ ४३ ॥
अन्यतोऽर्थसंशयोऽन्यतोऽनर्थसंशय इति षट् सङ्कीर्णयोगाः॥४४॥