कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 332, कुल 353 में से
संदर्भ में पढ़ें६ अध्याये ] अर्थानर्थानुबन्धसंशयविचारप्रकरणम् । ३२५
यत्र परस्याभिगमनेऽर्थो भविष्यतीत्याशंसेत्यन्यतोऽर्थसंशयः सक्तो- ऽमर्षितो दत्तं प्रत्यादास्यति न वेत्यन्यतोऽनर्थसंशयोऽयमर्थसंशयानर्थ- संशयरूप इति, एवं बाभ्रव्यदर्शनेऽपि योज्यम् ॥ ४४ ॥
तेषु सहायैः सह विमृश्य यतोऽर्थभूयिष्ठोऽर्थसंशयः, गुरुरन- र्थप्रशमो वा ततः प्रवर्तेत ॥ ४५ ॥
तेष्विति । दर्शनद्वयेऽपि शुद्धेषु सङ्कीर्णेषु च, सहायैः पूर्वोक्तैः, यत- इति । यं गम्यमाश्रित्य, अर्थभूयिष्ठ इति । अर्थबहुलो योऽर्थसंशयो नेतरः, गुरुरनर्थप्रशमो वा, यतोऽर्थाद्धि महतोऽनर्थस्य प्रतिकार्यस्य गुरुत्वात्, तत इति । तं लक्षीकृत्य प्रवर्तेत ॥ ४५ ॥
एवं धर्मकामावप्यनयैव युक्त्योदाहरेत्, सङ्किरेच्च परस्परेण व्यतिषञ्जयेच्चेत्युभयतो योगाः ॥ ४६ ॥
अनयैवेति । अर्थयुक्त्योदाहरेत्, तत्र परस्य द्विजत्वादभिगमने धर्मः- सक्ताच्चानुरागान्मुमूर्षोः स उभयतो धर्मः, यत्र ब्रह्मचारिणोऽभिगमनेऽ- धर्मः सक्ताच्च व्रतस्थादनिच्छतः स उभयतोऽधर्मः, यत्र परस्य निर्द्रव्य- स्याभिगमने धर्मो न भविष्यतीत्याशंसा, सक्ताच्च निष्पादितार्थत्वादप्रय- च्छतो धर्मो न वेति स उभयतोऽधर्मसंशय इति, यत्र परस्याभिप्रेतस्या- भिगमने कामः सक्ताच्चाभिप्रेतात्स उभयतः कामः, यत्र परस्यानभिप्रेतस्य गमने विरागः सक्ताच्चानभिप्रेतात्स उभयतो द्वेषः, यत्र परस्याविदितशी- लस्य गमने कामो भविष्यति न वेति स उभयतः कामसंशयः, यत्र परस्या- भिगमने रागापनयनविवक्षायां विरागः स्यान्न वेति संशयः सक्ताच्च तथैव विरागः स्यान्न वेति स उभयतो द्वेषसंशयः, इत्यौद्दालकेः शुद्धा उ- भयतो योगाः, तथैव गमनागमनाभ्यां बाभ्रवीयेषूदाहरेत्सङ्किरेच्च, परस्प- रेणेति । सजातीयांस्त्यक्त्वा, तथाऽन्यतो धर्मोऽन्यतोऽधर्म इति धर्मसं- शयेनाधर्मसंशयेन च संकीर्णस्त्रिविधः, तथाऽन्यतो धर्मोऽन्यतो धर्माधर्म- संशयाभ्यामन्यतो धर्मसंशये वाऽन्यतोऽधर्मसंशयेन संकीर्णास्त्रयः, इति षट् संकीर्णाः, औद्दालकेर्बाभ्रव्यस्य च, एवमन्यतः कामोऽन्यतो द्वेषेण काम- संशयेन द्वेषसंशयेन च सङ्कीर्णस्त्रिविधः, तथाऽन्यतो द्वेषोऽन्यतः कामद्वे- षसंशयाभ्यामन्यतः कामसंशयश्चान्यतो द्वेषसंशयेन च संकीर्णास्त्रय इति षडौद्दालकेर्बाभ्रव्यस्यापि, इहापि सहायैर्विमृश्य यतो धर्मभूयिष्ठस्तत्संशयो- गुरुरधर्मद्वेषप्रशमश्च ततः प्रवर्तेत, न तु यतोऽधर्मो द्वेषस्तत्सन्शयश्चेति योज्यं, व्यतिषञ्जयेच्चेति । अर्थादीनां विरुद्धत्वं त्यक्त्वा शेषान्परस्परतः संश्लेषयेदित्यर्थः, तत्रान्यतोऽर्थोऽन्यतो धर्माधर्मकामद्वेषोस्तत्संशयैश्च संयोजितोऽष्टप्रकारः, तथाऽनर्थोऽनर्थसंशयोऽर्थानर्थसंशयश्च समुदायेन