भारतकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 343, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 343

३३६ सटीके कामसूत्रे [ ७ अधिकरणे,

प्रियालबीजानामिति । अस्थ्यपनीय गृहीतानामित्येको योगः, मोरटाविदार्योरिति द्वितीयः, तत्र, मोरटा = इक्षुमूलम् ॥ ३९ ॥

शृङ्गाटककसेरुकामधूलिकानि क्षीरकाकोल्या सह पिष्टानि सशर्करेण पयसा घृतेन मन्दाग्निनाोत्कारिकां पक्त्वा यावदर्थं भक्षितवाननन्ताः स्त्रियो गच्छतीत्याचार्याः प्रचक्षते ॥ ४० ॥

शृङ्गाटकः प्रसिद्धः, तस्य सर्वं ग्राह्यं, कशेरुका प्रतीता, क्व च मल्लिकासंज्ञया ग्राह्या, मधूलिका मधुकफलत्वाद् मधुकं = यष्टीमधु, क्षीरकाकोली वणिग्द्रव्यं, पिष्टा समांशानि, उत्कारिका = अपूपिका, यावदर्थमिति । यावत्तृप्ति भक्षितवान्, अनन्ता इति । बह्वीः ॥ ४० ॥

माषकमालिनीं पयसा धौतामुष्णेन घृतेन मृदूकृत्योद्धृतां वृद्धवत्सायाः गोः पयःसिद्धं पायसं मधुसर्पिर्भ्यामशित्वाऽनन्ताः स्त्रियो गच्छतीत्याचार्याः प्रचक्षते ॥ ४१ ॥

माषकमालिनीं माषद्विदलिकां, पयसा धौतामिति । जलेन निस्तुषीकृत्य संशोध्य च धौतां, वृद्धवत्साया इति । वर्करिकायाः, अशित्वेति । शीतीभूतं मधुसर्पिभ्यां विषमाभ्यां सहेत्यर्थः ॥ ४१ ॥

विदारी स्वयंगुप्ता शर्करा मधुसर्पिर्भ्यां गोधूमचूर्णेन पालिकां कृत्वा यावदर्थं भक्षितवाननन्ताः स्त्रियो गच्छतीत्याचार्याः प्रचक्षते ॥ ४२ ॥

गोधूमचूर्णेनेति । कणिक्यया ॥ ४२ ॥

चटकाण्डरसभावितैस्तण्डुलैः पायसं सिद्धं मधुसर्पिर्भ्यां प्लावितं यावदर्थमिति समानं पूर्वेण ॥ ४३ ॥

चटकेति । ग्राम्यपक्षिणोऽण्डानां रसे भावितैस्तण्डुलैः संपादितं पायसं मधुघृतप्लावितं यदि भुङ्क्ते, ततः प्रभूतरतिशक्तिस्तरुणोऽनन्ताः स्त्रिय उपगच्छतीति पूर्वेणान्वयः ॥ ४३ ॥

चटकाण्डरसभावितानपगतत्वचस्तिलान् शृङ्गारककसेरुकस्वयंगुप्ताफलानि गोधूममाषचूर्णैः सशर्करेण पयसा सर्पिषा च पक्वं संयावं यावदर्थं प्राशितवानिति समानं पूर्वेण ॥ ४४ ॥

चटकाण्डरसेति । ग्राम्यचटकस्य स्वयं स्फुटितेऽण्डे स्वयं मृतेन पोतेन रसकः कार्यं, तेन भावितानीत्यर्थः, अपगतत्वच इति । निस्तुषाः, स्वयंगुप्तायाः फलानि न तु मूलं ग्राह्यं, पक्वं संयावमिति पानकम् ॥४४॥