कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 105, कुल 172 में से
संदर्भ में पढ़ेंतृतीयं जवनिकान्तरम् ९९ विदूषकः—भो, एसा कञ्चणचण्डेन वण्णिदा चन्दुज्जोअलच्छी। ता संपदं माणिक्चचण्डस्सावसरो। (नेपथ्ये।) द्वितीयो वैतालिकः— डज्झंतागुरुधूववट्टियलआ दिज्जंतदीवुज्जला लंबिज्जंतविचित्तमोत्तिअलदा मुच्चंतपारावया। सज्जिज्जंतमणोन्नकेलिसअणा जपतदूईसआ सेज्जुच्छंगवलंतमाणिणिजणा वह्टंति लीलाहरा ॥ २७ ॥ 'अनुङ्कुम' इत्यनेन नवोद्गतायाश्चास्याः पीतत्वं व्यज्यते। 'अचन्दनं' इत्यनेन चन्दनाधिकशीतलता द्योत्यते। 'दश'शब्देन वैधवधूमात्रशोभाकरमण्डनान्तर- वैलक्षण्यं द्योत्यते। 'अकङ्कण' इत्यादिना भूषान्तरवैचित्र्यमस्या अभिव्यज्यते। 'अशोषण' इत्यादिनायुधवैलक्षण्यं चास्या द्योत्यते। विदूषक — भो, [एषा] काञ्चनचण्डेन वर्णिता चन्द्रोद्योतलक्ष्मीः। तत्साम्प्रतं माणिक्य- चण्डस्यावसरः। द्वितीयो वैतालिक — दह्यमानागुरुधूपवर्तिकलिका दीयमानदीपोज्ज्वला लम्ब्यमानविचित्रमौक्तिक्लता मुच्यमानपारावता। सञ्जीक्रियमाणमनोज्ञकेलिशयना जपद्दूतीसक्ता शय्योत्सङ्गचलन्मानिनीजना वहन्त लीलागृहा ॥ दह्यमाना अगुरुधूपवर्तय एव कलिका येषु। यद्वा,-दह्यमानेत्यादि उज्ज्वला इत्यन्तमेकं पदम्। तदा दह्यमानागुरुधूपपात्र स्थ वर्तिकलिकाभिर्दीयमानदीपोज्ज्वला- येत्यर्थः। अथवा दह्यमानागुरुधूपयुक्तवर्तिकलिकाभिरेव दीयमानदीपोज्ज्वला इत्यर्थः। तदा शोभाधिक्यं व्यज्यते। १ "वत्तिकलिआ' इति टीकानुसारी पाठः। २ 'सज्जाहरा' इत्यपि पाठः।