कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 112, कुल 172 में से
संदर्भ में पढ़ें१०६ कर्पूरमञ्जरी मज्झण्णे सिरिखंडपंककलणा आ संझमोल्हंसुअं लीलामज्जणमा पओससमयं साअं सुरा सीअला । गिम्हे पच्छिमजामिणीनिहुवणं जं किं पि पंचेसुणो एदे पंच सिलीमुहा विजइणो सेसा सरा जज्जरा ॥ ३ ॥ विदूषकः—मा एवं भण,— पंडुच्छविच्छुरिदणाअलदादलाणं साहारतेल्लपरिपेसलपोप्फलाणं । कप्पूरपंसुपरिवासिदचंदणाणं भद्दं णिदाहदिवसाण वअस्स ! भोदु ॥ ४ ॥ यतः,— मध्याह्ने श्रीखण्डपङ्ककलना आ संध्यमार्द्रांशुकं लीलामज्जनमा प्रदोषसमयं सायं सुरा शीतला । ग्रीष्मे पश्चिमयामिनीनिधुवनं यत्किमपि पञ्चेषो- रेते पञ्च शिलीमुखा विजयिनः शेषाः शरा जर्जराः ॥ ननु कंदर्पस्य पञ्चाधिकानां शराणामेवाभावात्कथं 'शेषाः शरा जर्जराः' इत्युक्तमिति चेन्न, कार्यक्षमपञ्चशरवत्तामात्रादेव पञ्चशरत्वव्यवहारोपपत्तावतिरिक्तशराभावकल्पने मानाभाव इत्यभिप्रायात् । यद्वा,—पञ्चैवेषवो मदनस्य, तथापि कालभेदेनान्यानन्यां- न्युपादत्त इति पूर्वस्वीकृतेषु जर्जरता युक्तेति न कोऽपि दोषः । विदूषकः— मैवं भण,— पाण्डुच्छविच्छुरितनागलतादलानां सहकारतैलपरिपेसलपूगफलानाम् । कर्पूरपांसुपरिवासितचन्दनानां भद्रं निदाघदिवसानां वयस्य ! भवतु ॥ पाण्डुच्छवीत्यादि हेतुगर्भविशेषणानि । तथा च यत एतादृशा अत एषां भद्रं भवत्वित्यर्थः । १ 'फरिससीअला' इति पाठः ।