कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 125, कुल 172 में से
संदर्भ में पढ़ेंचतुर्थं जवनिकान्तरम् ११९ रयणमई अंजणसलाआ। जहा अ एसा आरण्णकुसुमणिप्फण्णा मधुलच्छी। किं च,— भुवणजयपडाआ रूअरेहा इमीए जह तह णअणाणं गोअरं जस्स जादि। घसइ मअरकेऊ तस्स चित्ते विचित्ते वलइअधणुदंडो पुंखिदेहिं सरेहिं ॥ १९ ॥ विदूषकः—(जनान्तिकम्।) सच्चं कदं तए आहाणअं। तडं गदाए वि णावाए ण विस्ससीअदि। ता तुण्हीओ चिट्ठ। राज्ञी—(कुरङ्गिकां प्रति।) तुमं महाराअस्स विआहणेवच्छं कुरु। सारंगिआ वि घणसारमंजरीए करेदु। (इत्युभे उभयोर्विवाहनेपथ्यकरणं नाटयतः।) भैरवानन्दः—उवज्झाओ हक्कारीअदु। दिवससंचारिणी पूर्णिमाचन्द्रचन्द्रिका, अपि च प्रगुणगुणमाणिक्यमञ्जूषा। रत्न- मय्यञ्जनशलाका तथा चैषा रक्तकुसुमनिष्पन्ना मधुलक्ष्मीः। किं च,— भुवनजयपताका रूपरेखाऽस्या यथा तथा नयनयोर्गोचरं यस्य याति। घसति मकरकेतुस्तस्य चित्ते विचित्रे वलयितधनुर्दण्डः पुङ्खितैः शरैः ॥ विदूषकः— सत्यं कृतं त्वयाभाणकम्। तटं गताया अपि नौकाया न विश्वसितव्यम्। स तूष्णीं तिष्ठ। राज्ञी— त्वं महाराजस्य नेपथ्यं कुरु। सारङ्गिका घनसारमञ्जर्याः करोतु। भैरवानन्दः— उपाध्याय आकार्यताम्। 1 अस्थाने 'भैरवानन्दः-वच्छे! पत्तं विवाहमङ्गलमुहुत्तं। ता महाराजभस्ममज्जदु तए अचोविद्दप्पडिवण्णं' इति वाक्यमधिकं दृश्यते।