भारतकोश
कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

Karpuramanjari Sattaka of Rajasekhara with Commentary

महाकवि राजशेखर द्वारा

DevanagariHindipublished172 पृष्ठ

पृष्ठ 127, कुल 172 में से

संदर्भ में पढ़ें
पृष्ठ 127

चतुर्थं जवनिकान्तरम् १२१ विदूषकः—भो वअस्स ! भामरीओ दिज्जंतु । हुदवहे लाजंजलीओ खिपिज्जंतु । ( राजा भ्रमणं नाटयति । नायिका धूमेन व्यावृत्तमुखी तिष्ठति । राजा परिणयति । राज्ञी सपरिवारा निष्क्रान्ता । ) भैरवानन्दः—विवाहे दक्खिणा दिज्जदु आचारिअस्स । राजा—दिज्जदु । वयस्स ! गामसअं ते दिण्णं । विदूषकः—सोत्थि होदु । ( इति नृत्यति । ) भैरवानन्दः—महाराअ ! किं ते पुणो अ पिअं कुणोमि ? राजा—जोईसर ! किमवरं पिअं वट्टदि । जदो,— कुंतलेसरसुआकरफंसप्फारसोक्खसिढिलीकिदसव्गो । पालएमि वसुहातलज्जं चक्कवट्टिपअधीरमणिज्जं ॥ २१ ॥ तथा वि इदं होदु दाव ।

विदूषकः— भो वयस्य ! भ्राम्यो दीयन्ताम् । हुतवहे लाजाञ्जलयः क्षिप्यन्ताम् । भैरवानन्दः— विवाहे दक्षिणा दीयते आचार्यस्य । राजा— दीयते । वयस्य ! ग्रामशते ते दत्तम् । विदूषकः— स्वस्ति भवतु । भैरवानन्दः— महाराज ! किं ते पुनरपि प्रियं करोमि ? राजा— योगीश्वर ! किमपरं प्रियं वर्तते ? यतः,— कुन्तलेश्वरसुताकरस्पर्शस्फारसौख्यशिथिलीकृतस्वर्गः । पालयामि वसुधातलराज्यं चक्रवर्तिपदवीरमणीयम् ॥ तथापीदं भवतु तावत् ।

१ अस्याग्रे वैतालिकः—'सुहाअ भोदु विवाहमहूत्सवो देवरस' इति पाठः ।