कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 77, कुल 172 में से
संदर्भ में पढ़ेंद्वितीयं जवनिकान्तरम् ६९ राजा—मा एवं भण । हरिअंदपुरी व दिट्ठा पणट्ठा अ । ( स्मृतिनाटिकेन । ) मंजिट्ठी ओट्ठमुद्दा णवघडिसुवण्णगुज्जला अंगलट्ठी दिट्ठी वालेंदुलेहाधवलिमजअणी कुंतला कज्जलाहा । इत्थं वण्णाण रेहा विहरइ हरिणीचंचलच्छी अ एसा कंदप्पो ^२जायदप्पो जुअजणजअणे पुण्णलक्खो ^३विभाइ ॥४२॥ राजा— मैवं भण ! हरिश्चन्द्रपुरीव दृष्टा प्रनष्टा च । स्मृतीरिति । स्मृतिलक्षणमुक्तं प्राक् । मंजिट्ठी इति । माञ्जिष्ठी ओष्ठमुद्रा नवघटनसुवर्णोज्ज्वलाङ्गयष्टि- र्दृष्टिर्बालेन्दुरेखाधवलिमजयिनी कुन्तलाः कज्जलाभाः । इत्थं वर्णानां रेखा विहरति हरिणीचञ्चलाक्षी चैषा कन्दर्पो दीर्घदर्पो युवजनजये पूर्णलक्ष इव भाति ॥ माञ्जिष्ठीत्यनेन मञ्जिष्ठानिष्ठरक्ततानिशमयवत्पमयोष्ठमुद्रायां व्यज्यते । नवा घटना यस्येति बहुव्रीहिः । तथा च तादृशस्वर्णनिर्मितत्वान्निश्चयस्तदतिशयवत्त्वमङ्गेषु व्यज्यते। यष्टिरूपरेख च तन्निष्ठाधिककृशत्वमङ्गेषु द्योत्यते । 'इन्दुरेखा' इत्यनेन चारुलङ्घित्वं ज्ञाय्यते । 'कज्जलाभा' इत्यनेन कज्जलनिष्ठनीलिमातिशयवत्त्वं कुन्तलेष्वभिव्यज्यते । अथवा कज्जले आभा येषामिति विपर्यासोपमा, तल्लक्षणं काव्यादर्शो दण्डिनोक्तम् (२।१७) 'सा प्रसिद्धिविपर्यासाद्विपर्यासोपमोच्यते ।' इति । इत्थमनिर्वचनीयाः । 'रेखा'पदेन शोभापरम्परानिष्ठोऽतिशयो विशिष्यो लक्ष्यते । दीर्घो दर्पोऽस्यास्तीति दीर्घदर्पः । अनेन च लक्ष्यसाधनीकरणे क्लेशलेशस्याप्यभावात्प्रकर्षवत्त्वेऽपि न क्षीण इति भावः । पूर्णलक्ष्यत्वं स्वाधीनं यावल्लक्ष्यत्वमेव । अत्रापि रूपकोपमोत्प्रेक्षानुक्रमलक्षणाः शब्दार्थालङ्कारा ज्ञेयाः । १ 'नवघटनसुवर्णगुज्जला' इति टीकासम्मतः पाठः । २ 'दीर्घदप्पो' इति टीकानुसारी पाठः । ३ 'व्व भादि' टीकापाठः ।