भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 103, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 103

९६ ॥ काशिका ॥ २ । १ ॥ युवा खलतिपलितवलिनजरतीभिः ॥ ६७ ॥ खल्त्यादिभिः समानाधिकरणैः सह युवशब्दः समस्यते, तत्पुरुषश्च समासो भवति । जरतीभिरिति स्त्रीलिङ्गनिर्देशः 'प्रातिपदिकग्रहणे लिङ्गवि- शिष्टस्यापि ग्रहण'मिति ज्ञापनार्थः । युवा खलतिः, युवखलतिः । युवतिः खलती, युवखलती । युवा पलितः, युवपलितः । युवतिः पलिता, युवपलिता । युवा वलिनः, युववलिनः । युवतिर्वलिना, युववलिना । युवा जरन्, युवजरन् । युवतिर्जरती, युवजरती ॥ कृत्यतुल्याख्या अजात्या ॥ ६८ ॥ कृत्यप्रत्ययान्तास्तुल्यपर्यायाश्च सुबन्ता अजातिवचनेन समस्यन्ते, तत्पु- रुषश्च समासो भवति । भोज्योष्णम् । भोज्यलवणम् । पानीयशीतम् । तुल्या- ख्याः । तुल्यश्वेतः । तुल्यमहान् । सदृशश्वेतः । सदृशमहान् । अजात्येति किम् । भोज्य ओदनः ॥ वर्णो वर्णेन ॥ ६६ ॥ वर्णविशेषवाचि सुबन्तं वर्णविशेषवाचिना सुबन्तेन समानाधिकरणेन सह समस्यते, तत्पुरुषश्च समासो भवति । कृष्णसारङ्गः । लोहितसारङ्गः । कृष्णशबलः । लोहितशबलः । अवयवद्वारेण कृष्णशब्दः समुदाये वर्त्तमानः समानाधिकरणो भवति ॥ कुमारः श्रमणादिभिः ॥ ७० ॥ कुमारशब्दः श्रमणादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति । येऽत्र स्त्रीलिङ्गाः पठ्यन्ते श्रमणा प्रव्रजिता कुलटेत्येवमादयस्तैः सह स्त्रीलिङ्ग एव कुमारशब्दः समस्यते, ये तु पुंलिङ्गा अध्यापको ऽभिरूपकः पण्डित इति, तैरुभयथा, प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति । कुमारी श्रमणा, कुमारश्रमणा । श्रमणा । प्रव्रजिता । कुलटा । गर्भिणी । तापसी । दासी । बन्धकी । अध्यापक । अभिरूपक । पण्डित । पटु । मृदु । कुशल । चपल । निपुण ॥ चतुष्पादो गर्भिण्या ॥ ७१ ॥ चतुष्पाद्वाचिनः सुबन्ता गर्भिणीशब्देन समस्यन्ते, तत्पुरुषश्च समासो भवति । गोगर्भिणी । अजागर्भिणी ॥ चतुष्पाज्जातेरिति वक्तव्यम् ॥ * ॥ इह मा भूत् । कालाक्षी गर्भिणी । स्वस्तिमती गर्भिणी । चतुष्पादिति किम् । ब्राह्मणी गर्भिणी ॥ मयूरव्यंसकादयश्च ॥ ७२ ॥ समुदाया एव निपात्यन्ते । मयूरव्यंसकादयः शब्दास्तत्पुरुषसंज्ञा भव-