भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 110, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 110

॥ काशिका ॥ २ । २ ॥ १०५

प्रथमाथमेकं वर्जयित्वा सर्वेषु विभक्त्यर्थेषु बहुव्रीहिर्भवति । प्राप्तमुदकं ग्रामं, आप्तोदको ग्रामः । ऊढरथो ऽनड्वान् । उपहृतपशू रुद्रः । उद्धृतौदना स्थाली । चित्रगुर्देवदत्तः । वीरपुरुषको ग्रामः । प्रथमार्थे तु न भवति । वृष्टे देवे गतः । अनेकग्रहणं किम् । बहूनामपि यथा स्यात् । सुसूक्ष्मजटकेशीन सुलभाजिनवाससा । पुत्री पर्वतराजस्य कुतो हेतोर्विवाहिता * ॥ बहुव्रीहिः समानाधिकरणानामिति वक्तव्यम् ॥ * ॥ व्यधिकरणानां मा भूत् । पञ्चभिर्भुक्तमस्य ॥ अव्ययानां च बहुव्रीहिर्वक्तव्यः ॥ * ॥ उच्चैर्मुखः । नीचैर्मुखः ॥ सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्च वक्तव्यः ॥ * ॥ कण्ठे स्थितः कालो ऽस्य, कण्ठेकालः । उरसिलोमा । उष्ट्रस्य मुखमिव मुखं यस्य स, उष्ट्रमुखः । खरमुखः ॥ समुदायविकारषष्ठ्याश्च बहुव्रीहिरुत्तरपदलोपश्चेति वक्तव्यम् ॥ * ॥ केशानां संघातः, केशसंघातः, केशसंघातश्चूडा ऽस्य केशचूडः । सुवर्णस्य विकारो ऽलंकारो ऽस्य सुवर्णालंकारः ॥ प्रादिभ्यो धातुजस्योत्तरपदस्य लोपश्च वा बहु- व्रीहिर्वक्तव्यः ॥ * ॥ प्रपतितं पर्णमस्य, प्रपर्णः । प्रपतितं पलाशमस्य, प्रपलाशः ॥ नञो ऽस्त्यर्थानां बहुव्रीहिर्वा चोत्तरपदलोपश्च वक्तव्यः ॥ * ॥ अविद्यमानः पुत्रो यस्य, अपुत्रः । अविद्यमानभार्यः, अभार्यः ॥ सुबधिकारे ऽस्तिक्षीरादीनां बहुव्रीहिर्वक्तव्यः ॥ * ॥ अस्तिक्षीरा ब्राह्मणी । अस्त्यादयो निपाताः ॥ संख्या ऽव्ययासन्नादूराधिकसंख्याः संख्येये ॥ २५ ॥ संख्येये या संख्या वर्तते तया सहाव्ययासन्नादूराधिकसंख्याः समस्यन्ते, बहु- व्रीहिश्च समासो भवति । अव्यय । उपदशाः । उपविंशाः । आसन्नदशाः । आसन्न- विंशाः । अदूरदशाः । अदूरविंशाः । अधिकदशाः । अधिकविंशाः । संख्या । द्वित्राः । त्रिचतुराः । द्विदशाः । संख्येयेति किम् । पञ्च ब्राह्मणाः । अव्ययासन्नादूराधिक- संख्या इति किम् । ब्राह्मणाः पञ्च । संख्येये इति किम् । अधिका विंशतिर्गवाम् ॥ दिङ्नामान्यन्तराले ॥ २६ ॥ दिशां नामानि दिङ्नामानि । दिङ्नामानि सुबन्तानि अन्तराले वाच्ये समस्यन्ते, बहुव्रीहिश्च समासो भवति । दक्षिणस्याश्च पूर्वस्याश्च दिशोर्यद- न्तरालं, दक्षिणपूर्वा दिक् । पूर्वोत्तरा । उत्तरपश्चिमा । पश्चिमोत्तरिका ॥ सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः ॥ * ॥ नामग्रहणं रूढ्यर्थम् । इह मा भूत् । ऐन्द्र्याश्च कौबेर्याश्च दिशोर्यदन्तरालमिति ॥

  • सुसूक्ष्मजटकेशीन सुलभाजिनवाससा । डमर्गावलिहस्तेन कुतोऽगौर्न च डिण्डिमिति ॥ इति पा० २ † वृत्तिमात्रे इत्याख्याते पूर्वपदस्योपाधि कुत्र चित्त पाठः।