काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 111, कुल 828 में से
संदर्भ में पढ़ें१०४ ॥ काशिका ॥ २ ॥ २ ॥ तत्र तेनेदमिति सरूपे ॥ २७ ॥ तत्रेति सप्तम्यन्तं गृह्यते । तेनेति तृतीयान्तम् । सरूपग्रहणं प्रत्येकम- भिसंबद्ध्यते । तत्रेति सप्तम्यन्ते सरूपे पदे तेनेति च तृतीयान्ते इदमित्येतस्मि- न्नर्थे समस्येते, बहुव्रीहिश्च समासो भवति । इतिकरणश्चेह विवक्षार्थो लौकि- कमर्थमनुसारयति । ततो ग्रहणं प्रहरणं कर्मव्यतिहारो युद्धं च समासार्थ इति सर्वमितिकरणाल्लभ्यते । यत्तत्रेति निर्दिष्टं ग्रहणं चेत्तद्भवति, यत्तेनेति निर्दिष्टं प्रहरणं चेत्तद्भवति, यदिदमिति निर्दिष्टं युद्धं चेत्तद्भवति । केशेषुकेशेषु च गृहीत्वा इदं युद्धं वृत्तं, केशाकेशि । कचाकचि । दण्डैश्च दण्डैश्च प्रहृत्य इदं युद्धं वृत्तं, दण्डादण्डि । मुष्टामुष्टि । इच् कर्मव्यतिहारेऽति इच् समा- सान्तः, स