काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 149, कुल 828 में से
संदर्भ में पढ़ें१४२ ॥ काशिका ॥ ३ । १ ॥ ॥ अथ तृतीयाध्यायस्य प्रथमः पादः ॥ प्रत्ययः ॥ १ ॥ अधिकारोयम्। प्रत्ययशब्दः संज्ञात्वेनाधिक्रियते। आ पञ्चमाध्यायप- रिसमाप्तेर्यान् इत ऊर्ध्वमनुक्रमिष्यामः प्रत्ययसंज्ञास्ते वेदितव्याः प्रकृत्युपपदोपा- धिविकारागमान्वर्जयित्वा। वत्स्यति, तव्यत्तव्यानीयरः। कर्तव्यम्। करणीयम्। तैत्तिरीयम्। प्रत्ययप्रदेशाः प्रत्ययलोपे प्रत्ययलक्षणमित्येवमादयः ॥ परश्च ॥ २ ॥ अयमप्यधिकारो योगेयोग उपतिष्ठते, परिभाषा वा। परश्च स भवति धातोर्वा प्रातिपदिकाद्वा यः प्रत्ययसंज्ञः। कर्तव्यम्। तैत्तिरीयम्। चकारः पुन- रस्यैव समुच्चयार्थः, तेनोणादिषु परत्वं न विकल्प्यते ॥ आद्युदात्तश्च ॥ ३ ॥ अयमप्यधिकारः परिभाषा वा। आद्युदात्तश्च स भवति यः प्रत्यय