काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 167, कुल 828 में से
संदर्भ में पढ़ें१६० ॥ काशिका ॥ ३ । १ ॥ गेयम् । पेयम् । चेयम् । जेयम् । अज्ग्रहणं किम् । यावता हलन्ताण्ण्यतं वक्ष्यति अजन्तभूतपूर्व्वदपि यथा स्यात् । दित्स्यम् । धित्स्यम् ॥ तकिशसितचतियतिज- नीनामुपसंख्यानम् ॥ * ॥ तकि । तक्यम् । शसि । शस्यम् । चति । चत्यम् । यति । यत्यम् । जनि । जन्यम् ॥ हनो वा वध च ॥ * ॥ वध्यम् । घात्यम् ॥ पोरदुपधात् ॥ ९८ ॥ पवर्गान्ताद्धातोर्कारोपधाद्यत्प्रत्ययो भवति । ण्यतोपवादः । शप् । शप्यम् । लभ् । लभ्यम् । पोरिति किम् । पाक्यम् । वाक्यम् । अदुपधोदिति किम् । कोप्यम् । गोप्यम् । तपरकरणं तत्कालार्थम् । चाप्यम् ॥ शकिसहोश्च ॥ ९९ ॥ शक्लृ शक्तौ, षह मर्षणे, अनयोर्द्धात्वोर्यत्प्रत्ययो भवति । शक्यम् । सह्यम् ॥ गदमदचरयमश्चानुपसर्गे ॥ १०० ॥ गद व्यक्तायां वाचि, मदी हर्षे, चर गतिभक्षणयोः, यमडपरमे, एतेभ्यश्चा- नुपसर्गेभ्यो यत्प्रत्ययो भवति । गद्यम् । मद्यम् । चर्यम् । यम्यम् । अनुपसर्गेति किम् । प्रगाद्यम् । प्रमाद्यम् । यमेः पूर्वेणैव सिद्धे ऽनुपसर्गनियमार्थं वचनम् ॥ चरेराङि चागुरौ ॥ * ॥ आचर्यो देशः । अगुरविति किम् । आचार्य उपनेता ॥ अवद्यपण्यवर्यागह्र्यपणितव्यानिरोधेषु ॥ १०१ ॥ अवद्य पण्य वर्या इत्येते शब्दा निपात्यन्ते गर्ह्य पणितव्यानिरोध इत्ये- तेष्वर्थेषु यथासंख्यम् । अवद्यमिति निपात्यते गर्ह्यं चेत्तद्भवति । अवद्यं पापम् । आमुद्यामन्यत् । वदः सुपि क्यप् च । पण्यमिति निपात्यते पणितव्यं चेत्तद्भवति । पण्यः कम्बलः । पण्याः गौः । पाप्यमन्यत् । वर्येति स्त्रियां निपात्यते अनि- रोधश्चेद्भवति । अनिरोधो ऽप्रतिबन्धः । शतेन वर्या । सहस्त्रेण वर्या । वृत्या ऽन्या । स्त्रीलिङ्गनिर्देशः किमर्थः । वार्या ऋत्विजः ॥ वह्यं करणम् ॥ १०२ ॥ वह्नेर्धातोः करणे यत्प्रत्ययो निपात्यते । वहत्यनेनेति वह्यं शकटम् । करणादिति किम् । वाह्यमन्यत् ॥ अर्यः स्वामिवैश्ययोः ॥ १०३ ॥ ऋ गतौ, अस्माद्यति प्राप्ते स्वामिवैश्ययोरभिधेययोर्यत्प्रत्ययो निपा- त्यते । अर्यः स्वामी । अर्यो वैश्यः ॥ यतो ऽनाव इत्याद्युदात्तत्वे प्राप्ते स्वामि- न्यन्तोदात्तत्वं च वक्तव्यम् ॥ * ॥ स्वामिवैश्ययोरिति किम् । आर्यो ब्राह्मणः ॥ उपसर्त्या काल्या प्रजने ॥ १०४ ॥ उपसर्येति निपात्यते काल्या चेत्प्रजने भवति । उपपूर्वात्सृतेर्यत्प्रत्ययः ।