काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 294, कुल 828 में से
संदर्भ में पढ़ेंकाशिका ॥ ४ । १ ॥ २८२ सेनान्तलक्षणकारिभ्यश्च ॥ १५२ ॥ सेनान्तात्प्रातिपदिकाल्लक्षणशब्दात्कारिवचनेभ्यश्चापत्ये ण्यः प्रत्ययो भवति । कारिशब्दः कारूणां तन्तुवायादीनां वाचकः । कारिषेण्यः । हारि- षेण्यः । लाक्षण्यः । कारिभ्यः । तान्तुवाय्यः । कौम्भकार्यः । नापित्यः ॥ उदीचामिञ् ॥ १५३ ॥ ण्ये प्राप्ते इञपरो विधीयते । सेनान्तलक्षणकारिभ्यो ऽपत्ये इञ् प्रत्ययो भवति उदीचां मतेन । कारिषेणिः । हारिषेणिः । लाक्षणिः । तान्तु- वायिः * । कौम्भकारिः । वचनसामर्थ्यादेव प्रत्ययसमावेशे लब्धे आचार्यग्रहणं वैचित्र्यार्थम् । तौत्तुन्शब्दः शिवादिस्तेनाण्बाधार्थमिञ् बाध्यते न तु ण्यः । तस्यो- पत्यं, तात्तः । ताप्त्यः ॥ तिकादिभ्यः फिञ् ॥ १५४ ॥ तिक इत्येवमादिभ्यः शब्देभ्यो ऽपत्ये फिञ् प्रत्ययो भवति । तैका- यनिः । कैतवायनिः । वृषशब्दोऽत्र पठ्यते तस्य प्रत्ययसन्नियोगेन यकारान्तत्व- मिष्यते । वार्ष्यायणिः । कौरव्यशब्दः पठ्यते स च तक्षत्रियवचनः । औरसशब्देन क्षत्रियप्रत्ययान्तेन साहचर्यात् । यस्तु कुर्वादिव्यो ण्यस्तदन्ताद् इञेव भवि- तव्यम् । तथा च ण्यत्तक्षत्रियार्षेञित इत्यत्रोदाहृतं कौरव्यः पिता कौरव्यिः पुत्र इति । तिक । कितव । संज्ञा । बाल । शिखा । उरस् । शाल । सैन्धव । यमुन्द । रूप्य । याम्य । नीच । अमित्र । गोकक्ष । कह । देवरथ । तेतिल । औरस । कौरव्य । मौरिकि । भौलिकि । चैपयत । चैटयत । शैक्यत । क्षैत- यत । ध्वाङ्क्षवत । चन्द्रमस् । शुभ । गङ्गा । वरेण्य । सुदामन् । चारहु । वल्लाका । स्वल्प । वृष । लोमक । उदञ्च । यज्ञ † ॥ कौसल्यकार्मार्याभ्यां च ॥ १५५ ॥ कौसल्यकार्मार्यशब्दाभ्यामपत्ये फिञ् प्रत्ययो भवति । इञोपवादः । कौसल्यायनिः । कार्मार्यायणिः ॥ परमहस्तेरेवायं प्रत्यय इष्यते ॥ कोसलस्या- पत्यं कर्मारस्यापत्यमिति । प्रत्ययसन्नियोगेन तु प्रकृतिरूपं निपात्यते । तथा च स्मृत्यन्तरम् ॥ दगुकोसलकर्मारच्छागसुत्रामां युट्वाशिष्टस्येति ॥ दार्ग्या- यनिः । कौसल्यायनिः । कार्मार्यायणिः । काप्यायनिः । वार्ष्यायणिः ॥ अणो द्व्यचः ॥ १५६ ॥
- तौन्तवायिरित्यधिकं पुस्तकान्तरे । † बाह्र । भीत । भाजन । रह । नावक । ध्वाङ्क्षवद । वसु । बन्धु । बालवल्का । युधामन् । इतो ऽधिकाः शब्दाः पुस्तकान्तरे । १६