भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 56, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 56

॥ काशिका १ । ३ ॥ ४९ अधेः प्रसहने ॥ ३३ ॥ अकर्त्रभिप्रायार्थो ऽयमारम्भः । अधिपूूर्वात् करोतेः प्रसहने वर्त्तमाना- दात्मनेपदं भवति । प्रसहनमभिभवः, अपराजयो वा । तमधिचक्रे । तमभिब- भूव, न तेन पराजित, इति वा । प्रसहनेति किम् । अर्थमधिकरोति । पृथग्यो- गकरणमुपसर्गविशेषणार्थम् ॥ वेः शब्दकर्मणः ॥ ३४ ॥ कृञ इत्यनुवर्त्तते । विपूर्वात्करोतेरकर्त्रभिप्राये क्रियाफले शब्दकर्मण आत्मनेपदं भवति । कर्मशब्द इह कारकाभिधायी न क्रियावचनः । क्रोष्टा विकुरुते स्वरान् । ध्वाङ्क्षो विकुरुते स्वरान् । शब्दकर्मण इति किम् । विकरोति पयः ॥ अकर्मकाच्च ॥ ३५ ॥ वेः कृञ इत्यनुवर्त्तते । विपूर्वात्करोतेरकर्मकादकर्मकक्रियावचनादा- त्मनेपदं भवति । विकुर्व्वते सैन्धवाः । साधुदान्ताः शोभनं वल्गन्तीत्यर्थः । षोदनस्य पूर्वाङ्गाचा विकुर्वते । निष्फलं चेष्टन्तइत्यर्थः ॥ सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः ॥ ३६ ॥ णीञ् प्रापणे ऽस्मात् कर्त्रभिप्राये क्रियाफले सिद्धमेवात्मनेपदम् । अक- र्त्रभिप्रायार्थोयमारम्भः । णीञ् प्रापणे इत्येतस्माद्धातोरात्मनेपदं भवति सम्मान- नादिषु विशेषेषु सत्सु । संमाननं पूजनम् । नयते चार्वा लोकायते । चार्वा बुद्धिः तत्संबन्धादाचार्योऽपि चार्वा, स लोकायते शास्त्रे पदार्थाञ्जयते, उपप- त्तिभिः स्थिरीकृत्य शिष्येभ्यः प्रापयति, ते युक्तिभिः स्थाप्यमानाः सम्मानिताः पूजिता भवन्ति । उत्सञ्जनमुत्क्षेपणम् । माणवकमुदानयते । उत्क्षिपतीत्यर्थः । आचार्यकरणमाचार्यक्रिया, माणवकमीदृशेन विधिना ऽऽत्मसमीपं प्रापयति यथा स उपनेता स्वयमाचार्यः संपद्यते । माणवकमुपनयते । आत्मान- माचार्य्यं कुर्वन्माणवकमात्मसमीपं प्रापयतीत्यर्थः । ज्ञानं प्रमेयनिश्चयः । नयते चार्वा लोकायते । तत्र प्रमेयं निश्चिनोतीत्यर्थः । भृतिर्वेतनम् । कर्मकरानुपन- यते । भृतिदानेन समीपं करोतीत्यर्थः । विगणनमृणादेर्निर्यातनम् । मद्राः करं विनयन्ते । निर्यातयन्तीत्यर्थः । व्ययो धर्म्मादिषु विनियोगः । शतं विनयते । सहस्रं विनयते । धर्मार्थे शतं विनियुङ्क्तेत्यर्थः । एतेष्विति किम् । अजां नयति ग्रामम् ॥ कर्तृस्थे चाशरीरे कर्मणि ॥ ३७ ॥ नयतेः कर्त्ता देवदत्तादिरहंकारवाच्यः कर्तृस्थे कर्मण्यशरीरे सति नयते-