भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 742, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 742

यद्यप्यग्निशब्दो गोशब्दश्च मुख्यार्थसंबन्धादवधृतभेदं तैक्ष्ण्यजाड्यादिकमर्था- न्तरे गुणविशेषमेव प्रतिपादयितुं प्रवृत्तस्तथापि सर्वदा गुणवचनो न भवतीति न द्विरुच्यते ॥ आनुपूर्व्ये द्वे भवत इति वक्तव्यम् ॥ * ॥ मूले २ स्थूलाः । अग्रे २ सूक्ष्माः । ज्येष्ठं २ प्रवेशय ॥ स्वार्थे अवधार्यमाणेऽनेकस्मिन् द्वे भवत इति वक्त- व्यम् ॥ * ॥ अस्मात्कार्षापणादिह भवद्भां माषं २ देहि । स्वार्थेतद् द्विर्वचनं न वीप्सायाम् । अत्र हि द्वावेव माषौ दीयेते न सर्वे कार्षापणसंबन्धिनो माषाः । तेन वीप्सा न विद्यते । अवधार्यमाण इति किम् । अस्मात्कार्षापणादिह भवद्भ्यां माषमेकं देहि । द्वौ माषौ देहि । त्रीन्वा माषान्देहि । अनेकस्मिन्निति किम् । अस्मात्कार्षापणादिह भवद्भां माषमेकं देहि ॥ चापले द्वे भवत इति वक्तव्यम् ॥ * ॥ संभ्रमेण प्रवृत्तिश्चापलम् । अहिरहिः बुध्यस्व २। नावश्यं द्वावेव शब्दौ प्रयोक्तव्यौ किं तर्हि यावद्भिः शब्दैः सोऽर्थोऽवगम्यतेतावन्तः प्रयोक्तव्याः । अहिः ३ । बुध्यस्व ३ इति ॥ क्रियासमभिहारे द्वे भवत इति वक्तव्यम् ॥ * ॥ स भवान् लुनीहिलु- नीहीत्येवायं लुनाति ॥ आभीक्ष्ण्ये द्वे भवत इति वक्तव्यम् ॥ * ॥ भुक्त्वाभुक्त्वा व्रजति । भोजंभोजं व्रजति । नित्यइत्येव सिद्धमिति तत्रोक्तम् ॥ डाचि द्वे भवत इति वक्तव्यम् ॥ * ॥ पटपटा करोति । पटपटायते ॥ अव्यक्तानुकरणाद्वाजन्तस्य द्विर्वचनमिष्यते ॥ इह न भवति । द्वितीया करोति । तृतीया करोति । तदर्थे के चित्डाचि बहुलमिति पठन्ति ॥ पूर्वप्रथमयोरतिशयविवक्षायां द्वे भवत इति वक्तव्यम् ॥ * ॥ पूर्वं २ पुष्यन्ति । प्रथमं २ पच्यन्ते । अतिशयिकोऽपि दृश्यते । पूर्वतरं पुष्यन्ति । प्रथमतरां पच्यन्तइति ॥ इतरडतमयोः समसंप्रधारणयोः स्त्रीनि- गदे भावे द्वे भवत इति वक्तव्यम् ॥ * ॥ उभाविमावाढ्यौ । कतराकतरा अन- योराढ्यता । सर्वेऽमी आढ्याः । कतमाकतमा एषामाढ्यता । इतरडतमाभ्याम- न्यत्रापि हि दृश्यते । उभाविमावाढ्यौ । कीदृशी २ । अनयोराढ्यता । तथा स्त्रीनिगदाद्भावादन्यत्रापि हि दृश्यते । उभाविमावाढ्यौ कतरःकतरनयोर्विभव इति ॥ कर्मव्यतिहारे सर्वनाम्नो द्वे भवत इति वक्तव्यम् ॥ * ॥ सामासवच्च बहुलम् । यदा न समासवत्प्रथमैकवचनं तदा पूर्वपदस्य । अन्यन्मन्यमिमे ब्राह्मणा भोजयन्ति । अन्योन्यमिमे ब्राह्मणा भोजयन्ति । अन्योन्यस्य ब्राह्मणा भोजयन्ति । इतरेतरान् भोजयन्ति ॥ स्त्रीनपुंसकयोरुत्तरपदस्य चाम्भावो वक्तव्यः ॥ * ॥ अन्योन्यामिमे ब्राह्मण्यौ भोजयतः । अन्योन्यं भोजयतः । इतरेतरां भोजयतः । इतरेतरं भोजयतः । अन्योन्यामिमे ब्राह्मणकुले भोजयतः । इतरेतरामिमे ब्राह्मणकुले भोजयतः । इतरेतरमिमे ब्राह्मणकुले भोजयतः ॥ अकृच्छ्रेप्रियसुखयोरन्यतरस्याम् ॥ १३ ॥ प्रिय सुख इत्येतयोरन्यतरस्यां द्वे भवतः अकृच्छ्रे द्योत्ये । कृच्छ्रं दुःखं,