काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)
Kashyapa Samhita Hindi
महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा
स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)
पृष्ठ 108, कुल 942 में से
संदर्भ में पढ़ें| ९४ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम् |
|---|
विषमज्वरनिर्देशाध्याये तृतीयचतुर्थादिज्वराणां तत्तद्दिनाविर्भावे सम्भवन्तीनामुपपत्तीनां वर्णनमस्ति (खिलस्थाने अ. १)॥
बालकानां षष्ठे मासि सर्वैराचार्यैरन्नप्राशनस्य विधानेऽपि एतदीयाचार्येण तत्संस्कारविधानं निर्दिश्य षष्ठे मासि फलप्राशनमात्रं, द्वादशमासिकस्यान्नमभिलषतोऽल्पशोऽन्नभोजनमितिअनुपचिताग्निबलस्यातिशिशोः मृदुपाकेन फलरसेनैवोपयोगः, संवत्सरोत्तरमेवान्नोपयोगः कीर्त्यते । आधुनिकैः पाश्चात्त्यवैद्यकनिष्णांतैरपि एवमेवातिबालेषु फलोपयोगो वर्षोत्तरमेवान्नोपयोगः साधीयस्त्वेन कीर्त्यते (खिलस्थाने अ. १३)॥
वेदनाध्याये वाचा स्वेवेदनां प्रकटयितुमशक्तानां बालानां तत्तच्चेष्टाविशेषैस्तत्तद्रोगाणां तत्तदङ्गवेदनानां च आनुमानिकविज्ञानवर्णनम् (पृ. ३३)॥
रोगाणां विज्ञानोपायाः निदानपूर्वरूपरूपादयः चरकसंहितायां विमानस्थाने चतुर्थाध्याये—
‘आप्ततश्रोपदेशेन प्रत्यक्षकरणेन च । अनुमानेन च व्याधीन् सम्यग् विद्याद्विचक्षणः’ ।।
इति प्रत्यक्षादयस्तद्विज्ञानोपायाः प्रदर्शिताः । सुश्रुतेनापि दर्शनस्पर्शनप्रश्नादय उपाया उल्लिखिताः । तेन प्राचीने सम्प्रदाये दर्शनस्पर्शनप्रश्नादिभिर्निदानादिपञ्चरूपाणि विविच्य रोगपरिज्ञानं निर्दिश्यते । नाडीविज्ञानस्योल्लेखश्चरकसुश्रुतादिषु प्राचीनग्रन्थेषु अस्यां काश्यपसंहितायामपि न निर्दिष्टः । नाडीपरीक्षाया अर्वाचीनग्रन्थेष्वेव निर्देशोपलम्भेन स एष विषयः पश्चात्काले प्रचलितोऽवगम्यते । नाडीविज्ञानस्य भारताच्चीनोपगमनं भारतीयमेवेदं विज्ञानमित्यपि मतमस्ति । सेयं प्रक्रिया भारत एवोद्भूता देशान्तरसम्प्रदायच्छायया वाऽत्र प्रचलितेति विचारो विषयान्तरत्वादास्तां तावत् । यथा तथापि प्राचीनग्रन्थेष्वेतस्य विषयस्यानुल्लेखेन पूर्वकालिकत्वं समर्थयितुं प्रमाणान्तरमपेक्ष्यते । बालकविषये तु अतिबालकानां वाक्शक्तिवैकल्येन यथावदवबोधनाक्षमतया तदीयचेष्टाविशेषै रोगविज्ञानस्य प्रक्रियाऽपि अस्यां काश्यपसंहितायां वेदनाध्याये (पृ. ३३), अन्यत्रापि तत्र तत्र वर्णिता दृश्यते ।।
प्राचीनाचार्याः सूक्ष्मविचारशक्त्युन्मिषितदृष्टयो येषु येषु विषयेषु प्रवर्तन्ते तत्र तत्रान्तस्तलपर्यन्तमवगाह्य मार्मिकैरूपन्यासैरुपदेश्यान्यथावदवबोधयन्ति । कौमारभृत्यविषये प्रवृत्तेन कश्यपेन आचार्यान्तरीणसर्वसाधारणविषया इव बालकेष्वतिबालकेषु चोपयोगिनोऽनेके विषयाः सम्यक् सूचिता उपलभ्यन्ते ।।
वातपित्तकफानां त्रयाणां दोषाणां निर्देशो वैदिके लेखेऽप्युपलभ्यते । ऋग्वेदे–‘त्रिधातु शर्म वहतं शुभस्पति’ इति त्रिधातुशब्दोल्लेखोऽस्ति । यः शब्दो वातपित्तकफरूपत्रिदोषपरत्वेन सायनाचार्येण व्याख्यातः। ब्रूमफिल्डविदुषाऽपि तदेवाङ्गीकृतम् । जीमरप्रभृतिभिः कैश्चिदन्य एवार्थो विहितः । किन्तु अथर्ववेद उपलभ्यमानेषु वातगुल्मवातीकृतेत्यादिपदेष्वर्थान्तरस्यासङ्गत्त्या सर्वत्रैकरूप्यस्यौचित्येन त्रिदोषपरत्वमेव संगच्छेते नार्थान्तरम्' इत्युल्लिखितं पी. सी. राय¹महोदयेन । ग्रन्थेष्वप्यात्रेयसुश्रुतकश्यपादित आरम्भाद्यपर्यन्तमपि भारतीयप्रक्रियायां त्रिदोषपद्धतिधाराप्रवाहगत्याऽनुवर्तते । सुश्रुते वातपित्तकफानां त्रयाणां धातूनां दोषाणां वा देहसम्भवे रोगोत्पत्तौ वा हेतुत्वपक्षो बहुशो निर्दिष्टः । सुश्रुते क्वचन त्रिदोष ²पक्षस्यैकीयत्वेनोल्लिख्य रक्तस्यापि चतुर्थहेतुभवो निर्दिष्टः । पूर्वकालिके महावज्रस्य प्राचीनबौद्धवैद्यकग्रन्थे बावरोपलब्धनवनीतादिग्रन्थेषु त्रिदोषप्रक्रियैवावलम्बिता दृश्यते । जीवकचिकित्साप्रक्रियायां महावग्गे विनयपिटकेऽपीयमेव त्रिदोषपद्धतिरुपात्ता दृश्यते । कात्यायनीयवार्तिकेऽपि
१. हिष्ट्री ऑफ् हिन्दु केमिष्ट्री Vol I भूमिकायां Pxxxv. पी.सी.राय.
२. वातपित्तश्लेष्माण एव देहसंभवहेतवः तैरेवाव्यापन्नैरधोमध्योर्ध्वसन्निविष्टैः शरीरमिदं धार्यतेऽगारमिव स्थूणाभिस्तिसृभिरतश्च त्रिस्थूणमाहुरेके । त एव व्यापन्नाः प्रलयहेतवः । तदेभिरेव शोणितचतुर्थैः संभवस्थितिप्रलयेष्वप्यविरहितं शरीरं भवति । सुश्रुते सूत्रस्थाने २१ अध्याये ।।