भारतकोश
काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ

पृष्ठ 110, कुल 942 में से

संदर्भ में पढ़ें
पृष्ठ 110

९६ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

च । लशुनस्योल्लेखो गौतमधर्मसूत्रे (१५. ३०), मनुस्मृतौ (५. ५, १९), याज्ञवल्क्यस्मृतौ (१. १७६) महाभारते (८. २०३४, १३. ४३६३) अप्यस्ति ॥

हिङ्गुप्रयोगदर्शनमपि नार्वाचीनत्वशङ्कायै प्रभवति । यतो हिङ्गु बहोः कालात् पूर्वत उपादीयते भारतीयग्रन्थेषु । धार्मिकग्रन्थेष्वपि श्राद्धादौ हिङ्गु पितृप्रियमित्युल्लिख्यते । चरकसुश्रुतयोः काश्यपीये तत्र तत्रौषधेषु तत्सहयोगो वर्ण्यते । काश्यपीयादौ हिङ्गुवाचकत्तया बाल्हीकशब्दोऽपि प्रयुज्यते । तेन बाल्हीकाद्देशान्तरादस्य भारतीयैः परिचय उपयोगो वा विहितः स्यात् । येनास्य तद्देशनाम्नाऽपि व्यवहार इति प्रतिभाति । परं भारतस्य बाल्हीकदेशस्य च मिथः सम्पर्कस्तदीयवैद्यानां च परिचयः पूर्वकालादेवासीदिति आत्रेयकश्यपादिभिरपि बाल्हीकभिषजः काङ्कायनस्य नामनिर्देशेन बाल्हीकानां पुनः पुनरुल्लेखेन च विज्ञायते । बाल्हीकदेशस्तु यवनानामाक्रमणात् प्रागपि इरानियजातीयानां साम्राज्ये प्रतिष्ठितो बलखप्रदेशः । तदात्वे तत्रत्याया इरानजातेः समुन्नतिसमये तदीयभिषां तदौषधानां च भारतीयपुरातनग्रन्थेषूपादानं सङ्गच्छते च ॥

भावप्रकाशे पारसीकयवान्या उल्लेखेन पश्चात्तनदेशान्तरवस्तूपादानदर्शनेऽपि चरकसुश्रुतकाश्यपीयादिप्राचीनग्रन्थेषु न तथोल्लेखोऽस्ति । किन्तु यवानीशब्दमात्रस्य निर्देशोऽस्ति । यवानीशब्दस्तु न यवनशब्दान्निष्पन्नो न वा यवनसम्बन्धाभिधायी । इन्द्रव^१रुणेतिसूत्रे यवशब्दे द्यवानीशब्दो निष्पाद्यते पाणिनिना । वार्तिककृता कात्यायनेन ‘यवाद्दोषे’ इति दुष्टयवार्थे स शब्दः स्त्रियां साध्यते । अतोऽयं भारतीय एव प्राचीनो यवानीशब्दोऽपि नान्यथा शङ्कायै प्रभवति ॥

अत्र देशविशेषनिर्देशः

एतत्पुस्तकस्योपलभ्यमानान्तिमपत्रगते देशसात्म्याध्याये (खिलस्थाने) देशविशेषेण रोगविशेषान् निदर्शयितुं तदात्वे एतद्विद्यासमुन्मेषाद्विदृशाकिल प्रसिद्धं कुरुक्षेत्र मध्यदेशं प्रकल्प्य तदनुसारेण पूर्वादिंगतानां देशविशेषाणामुल्लेखोपक्रमो दृश्यते । यदि नामायमध्यायः साकल्येनोपालप्स्यत तदान्येऽपि बहवो देशास्तादात्विका अवागमिष्यन्त । परमेतावत्येवास्य पुस्तकस्य विच्छेदेन क्षुधितस्यार्धकेवल एव प्रतिरोध इवोत्कलिका बलान्निगृहीतव्या भवति । अन्त्यभागविलोपेन तत्रोल्लिखितानां पश्चिमोत्तरदेशानामपरिज्ञानेऽपि पूर्वदिग्गताः दक्षिणदिग्गताश्च कतिपये देशा विज्ञायन्ते । यद्यपि पूर्वदक्षिणगता अपि प्राचीनाः सर्वे देशा नोल्लिखिताः, अपितु रोगोचिता एव केचनोल्लिखिता भवेयुः । तेष प्रियङ्गु-नवध्वान-वानसी-मुकुद-विवहे-घटानामुपलभ्यमानग्रन्थान्तरेषु संवादकनिर्देशालाभेनानिर्धारणेऽपि तत्सहचरितानामधो निर्दिष्ठानां देशनाम्नां प्राचीनत्वेन विज्ञायमानतया सर्वाणीमानि प्राचीनकालाद्व्यवहृतान्यवगम्यन्ते । अधस्तनानि देशनामानि प्राचीनपरिचयेन सह श्रीयुतकनिड्ङ्गाम^२विदुषा श्रीयुतनन्द^३लालमहोदयेन श्रीयुत E. J. ^४Rapson महाशयेन स्वीयप्राचीनभौगोलिकग्रन्थेषु निर्दिष्टान्युपलभ्यन्ते ॥

मध्ये—कुरुक्षेत्रप्रदेशः—शतयोजनमितः । स तु सर्वत्र प्रसिद्धः ।

पौरस्त्यदेशाः

कुमारवर्तनीः—महाभारते (सभा. अ. २९) कुमारदेशस्योल्लेखोऽस्ति । सोऽयं रीवासमीपगतः कुमारदेश इत्युच्यते ॥

कटीवर्षः—अद्यत्वे वङ्गदेशे वर्धमानप्रान्ते वर्तमानः कटवाप्रदेशोऽयमित्युच्यते ।

मगधः—ऋग्वेदोऽथर्ववेदे च मगधदेशस्योल्लेखदर्शनेनास्य पुरासमयादेव स्वनाम्ना प्रसिद्धिरुपलभ्यते । मागधस्योल्लेखस्तैत्तिरीयब्राह्मणे (३. ४. १. १), जैमिनीयब्राह्मणे (१६५) अप्यस्ति ॥


१. इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुकू (पा.सू. ४-१-४९)
२. Ancient Geography of India.
३. Geographical Dictionary.
४. Ancient India (Cambridge History of India Vol. I).