काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)
Kashyapa Samhita Hindi
महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा
स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)
पृष्ठ 112, कुल 942 में से
संदर्भ में पढ़ें| ९८ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम् |
|---|
चीरराज्यम्—चीरदेशो महाभाष्येऽप्युल्लिखितः । चीरशब्दः केरलपुत्रशब्दस्यापभ्रष्टसंक्षिप्तलूपान्तरमुच्यते । सोऽयमद्यत्वे मैसूरराज्येऽन्तर्भवति ॥
चोरः—चोरः चोल इत्येक एव । अशोकशिलालेखे चोडशब्देन व्यवहारोऽस्ति । काञ्चीपुरनृपतेश्चोलनाम्नोऽभिधानेन तन्नामासीत् । पद्मपुराणे चोलस्य द्रविडदेशे उल्लेखोऽस्ति । पाणिनीयगणपाठेऽपि देशवाची चोलशब्दो दृश्यते । बृहत्संहितायामप्युल्लिखितोऽस्ति । सोऽयमद्यत्वे कारोमण्डलप्रदेशेऽन्तर्भवति ॥
पुलिन्दः—महाभारते सहदेवदिग्विजये दक्षिणतः पुलिन्दस्योल्लेखाऽस्ति । अशोकशिलालेखेऽपि दृश्यते । नर्मदातटे विन्ध्यगिरेर्मध्यदेशे पुलिन्ददेशः स्मिथ महोदयेन प्रदर्श्यते । तारासन्त्रे कामरूपोत्तरभागे, महाभारते वनपर्वणि हरिद्वारोत्तरपश्चिमप्रदेशोऽपि पुलिन्दोल्लेखेन पुलिन्दजातिमादायान्यत्रापि प्रयोगो ज्ञायते । हिमालयप्रान्तगतजातिषु पुलिन्दशब्दः पश्चात् प्रायुज्यतेति स्मिथ महोदये निरूपयति ॥
ड्रु(द्र)विडः—महाभारते वनपर्वणि, वराहसंहितामनुस्मृत्यादिष्वप्युल्लिखितोऽस्ति । मद्रासतः कन्याकुमारीपर्यन्तो देशो द्रविडनाम्ना व्यवहृत आसीत् । बूलरमहाशयो द्रविडस्यैव चोल इति नामान्तरं वक्ति ॥
करघाटः—महाभारते (सभा. अ. ३१) सहदेवदिग्विजये दक्षिणतः करहाटकदेशस्योल्लेखाऽस्ति । स्कान्दे सह्याद्रिखण्डे काराष्ट्रदेशस्य राजधानी निर्दिष्टाऽस्ति । भाण्डारकरमहोदयेनापि (E. H. D.) पुस्तके एव देशो वर्णितोऽस्ति । अद्यत्वे कराड इति प्रसिद्धः स देशो विज्ञायते ॥
कान्तारम्—महाभारते सहदेवदिग्विजये दक्षिणतः कान्ता रकदेशस्योल्लखोऽस्ति । अरण्यकमप्येतदेवेति वदन्ति । महाभारते (सभा. अ. ३१), देवीपुराणेऽप्यरण्यस्योल्लेखोऽस्ति । सोऽयं देशोऽद्यत्वे औरङ्गाबादप्रदेशो दक्षिणकोङ्गणं च । तत्रत्या राजधानी तगर इत्यासीत्, येदानीं दौलताबादनाम्ना निर्दिश्यते ॥
वराहः—वितस्ताया दक्षिणतो वराहावत रस्थानस्य वराहमूलकत्वेन प्रसिद्धिरिव कौशिकीतीरे नेपालपरिसरप्रदेशे वर्तमानस्य कोकामुखतीर्थस्थानस्य वराहक्षेत्रतया पूर्वसमयात् प्रसिद्धिरस्ति । वराहपुराणेऽप्यस्य महिमा गीयते । परमंत्र दाक्षिणात्यदेशेषु गणितस्य वराहस्य पाश्चात्त्यपौरस्त्यदेशयोस्तयोरसङ्गमनीयतया दक्षिणतोऽवस्थितमन्यमेव पुरा प्रसिद्धं वराहदेशमभिप्रेत्यसौ शब्दः । यः साम्प्रतं 'वरार' नाम्ना निर्दिश्यते स एव किमु ? ॥
आभीरः—गुर्जरदेशस्य दक्षिणपूर्वभागस्थो नर्मदामुखप्रदेश आभीरनाम्ना व्यवहृत आसीत् । अयमेव ग्रीकैः Abira इत्यभ्यधीयत । महाभारते (सभा. अ. ३१) समुद्रसन्निधौ सोमनाथसन्निहितगुर्जरदेशीयसरस्वतीतीरे आभीरा निर्दिष्टाः । गुर्जरस्य दक्षिणतः सूरतप्रदेशोऽप्याभीरदेशे मिलित आसीदित्यपि कस्यचिन्मतम् । तारासन्त्रे कोङ्कणदक्षिणतस्तापतीपश्चिमतटपर्यन्तमाभीरो निर्दिष्टः । ल्यासनमहोदयो वायविले निर्दिष्ट आफ्रीर (Offir) देश एवाभीर इति मन्यते । भारतस्य पश्चिमतस्तापतीतो देवगढपर्यन्तो देश आभीर इति इलियमह महोदयस्य मतम् । वन्क्रिडमहोदयः सिन्धुनदस्य पूर्वत आभीरं मन्यते । विष्णु— (अ. ५) ब्रह्माण्डपुराणयोराभीरदेशे सिन्धुनद्या उल्लेखोऽस्ति । आभीरशब्दस्य जातिवाचकताया तन्निवासमादायान्येऽपि देशा आभीरनाम्ना व्यवहृताः सन्तु नाम । अत्र कुरुक्षेत्रं मध्ये कृत्वा दक्षिणतो वर्ण्यमान आभीरदेशो गुर्जरप्रान्तीयः सम्भवति । यत्र भिल्लाः साम्प्रतमपि निवसन्ति । बृहत्संहितायामपि दक्षिणनैर्ऋत्यभागे आभीरदेशो निर्दिष्टोऽस्ति ॥
एवमुल्लिखिता इमे देशाः प्राचीना एव विज्ञायन्ते । अत्र मगधासु महाराष्ट्रमिति मगधस्य महाराष्ट्रत्वेन निर्देशः कौशल्यदेशस्योल्लेखश्चास्ति । कोशलदेशः B. C. 400 समये मगधराज्याङ्गभूत उपवर्ण्यते । बुद्धसमये कोशलदेशस्य प्रतिष्ठाऽप्यासीत् । मगधे महाराष्ट्रपरिस्थितिमौर्यैभ्यः पूर्वं नन्दकाले बुद्धकालिकशिशुनागवंशीया-जातशत्रुसमयेऽपि R. D. व्यानर्जीमहोदयैः, H. R. चौधरीमहोदयैरपि स्वीये प्राचीनभारतपुस्तके वर्णिताऽस्ति । कोशलस्य पृथगुल्लेखेन पाण्ड्यदेशस्याकीर्तनेन सह मगधे महाराष्ट्रभावोल्लेखोऽयं बुद्धकालिकीं परिस्थितिं सूचयति । वात्स्येन पूरिते खिलभागे एवं दर्शनेन, वात्स्यीये