भारतकोश
काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ

पृष्ठ 113, कुल 942 में से

संदर्भ में पढ़ें
पृष्ठ 113

उपोद्घातः ९९

प्रतिसंस्करणे उत्सर्पिण्यवसर्पिणी श्रमणनिर्ग्रन्थशकपल्लवहूणादिसंशयावहशब्ददर्शनेननापि वात्स्यस्य बुद्धेन सहसामयिकः सन्निकर्षोऽनुमीयते ॥

अत्रैव पूर्वभागे भोजनकल्पाध्याये—(श्लो. ४०-५१)ऽपि केषाञ्चिद्देशानां नामान्युल्लिखितानि सन्ति । तेषु कतिपयानां प्रसिद्धानां कुरु-कुरुक्षेत्र-नैमिष-पाञ्चाल-कोशल-शूरसेन-मत्स्य-दशार्ण-शिशिराद्रि-(हेमाद्रि) विपाशा-सारस्वत-सिन्धु-सौवीर-काश्मीर-चीना-ऽपरचीन-खश-बाह्लीक-काशी-पुण्ड्राऽङ्ग-वङ्ग-कलिङ्ग-किरातादिदेशानां महाभारतादिषु प्राचीनग्रन्थेष्वप्युपलम्फेन प्राचीनत्वमेवावधार्यते । अन्येषां माणीचर-हारीतपाद-दासेरक-शातसार-रामण-काचा-ऽनूपकपट्टनानां तु नामान्यप्यन्यत्र न सुलभानीत्यप्रसिद्धा एते देशा अपि पुराकाल एव व्यवहृता ज्ञायन्ते । एते देशाः कुत्रत्याः पश्चिमोत्तरप्रदेशस्था वेति विचारयन्तु विद्वांसः । खलगते देशोल्लेखे महाराष्ट्रत्वेन निर्दिष्टोऽपि मगधोऽत्र नाम्नाऽपि न निर्दिष्टः । कोशलस्तूल्लिखितोऽस्ति । अन्येऽपि तत्रोल्लिखिताः केचन देशविशेषा अत्र न निर्दिष्टाः । प्रत्युत पूर्वत्वेन निश्चीयमानाः सिन्धु-सौवीर-कुरु-पाञ्चाल-बाह्लीकादयः प्राचीनाः केचन पश्चाद्विलुप्तव्यवहारा अपि देशा एव पूर्वभागलेखे दृश्यन्त इत्यनयोः पूर्वोत्तरभागगतयोर्देश-विशेषोल्लेखयोरनुसन्धाने बुद्धसमयसन्निकर्षे ज्ञायमानाद्वात्स्यात् पूर्वभागनिबन्धुर्वृद्धजीवकस्य मूलाचार्यस्य कश्यपस्यापि प्राचीनत्वं विशेषतोऽनुसन्धीयते इत्यलं पल्लवितेन ॥

(४) भारतीयभैषज्यसमर्थनपरिच्छेदः

अस्या भारतीयायुर्वेदविद्यायाः स्वीयप्राचीनसम्प्रदायपरम्परयैवाभ्युत्थानम्, उतास्यां देशान्तरीयवैद्यकेनापि शिलान्यासः । किं वा यूरोपप्रदेशेऽपि सर्वप्राथम्येन ग्रीसदेशे सभ्यतायाः भैषज्यविद्यायाश्चोदयेतिवृत्तस्यावगमेन तदीयवैद्यकस्य भारतीयवैद्यके प्रभावानुप्रवेशः, किं वा परेषामधमर्णभावमनुपेतमपि भारतीयवैद्यकं भारत एव विश्रान्तमुत बहिःप्रदेशानपि स्वालोकोद्भासितान् विदधौ । एषां विषयाणां विमर्शं विना भारतीयायुर्वेदस्रोतः पूर्वपरिस्थितेर्न सम्यगवभासः, पूर्वेषामायुर्वेदाचार्याणामपि भारतीयपरम्परयैव औपदेशिकः सम्प्रदायोऽपि शैथिल्यमापद्येत इत्यस्मिन् विषयेऽपि विवेचनमत्रोपष्टम्भकं भवेदिति तद्विषयके विमर्शे नानाविदुषां मतान्यप्युपदर्श्य स्वमनसि प्रतिभातया दृशा किमपि विमृश्यते ॥

केचन भारतीयविज्ञानात् पाश्चात्त्यविज्ञानस्य प्राग्भावं साधयितुं कृतबुद्धयः उभयतः केषुचिदंशेषु सादृश्यमवलम्ब्य भारतीयवैद्यके पाश्चात्त्यविज्ञानप्रभावानुप्रवेशः, 'भेदस्य गान्धारवर्तितयोल्लेखेन यवनसम्पर्कात् तदीयवैद्यके यावनप्रभावानुवेध-इति चोपन्धस्यन्ति ॥

अन्ये केचन एवमुपवर्णयन्ति—सर्वप्रथमतया यूरोपविभागे भैषज्यविद्याया उदय ईशवीयाब्दारम्भात् पूर्वं पञ्चमशताब्द्यां (B. C. 460) हिपोक्रेटिस (Hippocrates) नाम्नो ग्रीकविदुषः समजनि । यस्तत्रत्यवैद्यविद्यायाः पितेत्युच्यते । तदीये भैषज्यग्रन्थे यूरोपदेशेऽनुद्भाविनां केवलं भारतीयत्वेन तत एव विज्ञेयानां जीरकार्द्रकमरिचत्वगेलातेजःपत्रादीनामौषधेषु प्रयोगस्य, तत उपषष्टिवर्षोत्तरस्य (B C. 400) थियोफ्रेष्टस (Theophrastus) नाम्नो भिषजो लेखेऽपि भारतीयानां बहुशो वनस्पतीनां प्रयोगस्य, एवमन्यैरपि प्राचीनपाश्चात्त्यवैद्यैर्भारतीयवनस्पत्याद्यौषधानामुल्लेखनस्य दर्शनेन च तेषु भारतीयवैद्यकविज्ञानप्रभावोऽवगम्यते इति ॥

तदस्मिन्नुभयविधे विमर्शो वस्तुतत्त्वमवधारयितुं भैषज्यविद्याया इव सभ्यताया यातायातस्य पूर्वेतिहासादेश्च विचारस्याप्यावश्यकतया लेशतस्तद्विषयेकेनोपष्टम्भकेन सह प्रकृतविषयमुपन्यस्तुं लेखनी प्रवर्त्तते ।

भारतीयानामिवार्यमन्यानां पाश्चात्त्यानां च प्राथमिकोद्गमस्थानविषयके आलोचने 'उत्तरध्रुवसन्निहितप्रदेशः प्राक्तनोऽभिजनः । तत एव क्रमशः प्रसरणेन परित आर्याणामुपगमः' इति केषाञ्चित् महाशयानां दृष्टिः । अन्ये केचन विद्वांसः सुदूरोत्तरभाग^१


१. It is now established that ancient Indo-Aryan, Greek, Iranian. Slavonic. Teutonic. Italo celtic, Tokharian languages descended from a parent stock of language which we may call strictly Indo-European or loosely Aryan. The language and along with it certain elements of a very