काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)
Kashyapa Samhita Hindi
महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा
स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)
पृष्ठ 113, कुल 942 में से
संदर्भ में पढ़ेंउपोद्घातः ९९
प्रतिसंस्करणे उत्सर्पिण्यवसर्पिणी श्रमणनिर्ग्रन्थशकपल्लवहूणादिसंशयावहशब्ददर्शनेननापि वात्स्यस्य बुद्धेन सहसामयिकः सन्निकर्षोऽनुमीयते ॥
अत्रैव पूर्वभागे भोजनकल्पाध्याये—(श्लो. ४०-५१)ऽपि केषाञ्चिद्देशानां नामान्युल्लिखितानि सन्ति । तेषु कतिपयानां प्रसिद्धानां कुरु-कुरुक्षेत्र-नैमिष-पाञ्चाल-कोशल-शूरसेन-मत्स्य-दशार्ण-शिशिराद्रि-(हेमाद्रि) विपाशा-सारस्वत-सिन्धु-सौवीर-काश्मीर-चीना-ऽपरचीन-खश-बाह्लीक-काशी-पुण्ड्राऽङ्ग-वङ्ग-कलिङ्ग-किरातादिदेशानां महाभारतादिषु प्राचीनग्रन्थेष्वप्युपलम्फेन प्राचीनत्वमेवावधार्यते । अन्येषां माणीचर-हारीतपाद-दासेरक-शातसार-रामण-काचा-ऽनूपकपट्टनानां तु नामान्यप्यन्यत्र न सुलभानीत्यप्रसिद्धा एते देशा अपि पुराकाल एव व्यवहृता ज्ञायन्ते । एते देशाः कुत्रत्याः पश्चिमोत्तरप्रदेशस्था वेति विचारयन्तु विद्वांसः । खलगते देशोल्लेखे महाराष्ट्रत्वेन निर्दिष्टोऽपि मगधोऽत्र नाम्नाऽपि न निर्दिष्टः । कोशलस्तूल्लिखितोऽस्ति । अन्येऽपि तत्रोल्लिखिताः केचन देशविशेषा अत्र न निर्दिष्टाः । प्रत्युत पूर्वत्वेन निश्चीयमानाः सिन्धु-सौवीर-कुरु-पाञ्चाल-बाह्लीकादयः प्राचीनाः केचन पश्चाद्विलुप्तव्यवहारा अपि देशा एव पूर्वभागलेखे दृश्यन्त इत्यनयोः पूर्वोत्तरभागगतयोर्देश-विशेषोल्लेखयोरनुसन्धाने बुद्धसमयसन्निकर्षे ज्ञायमानाद्वात्स्यात् पूर्वभागनिबन्धुर्वृद्धजीवकस्य मूलाचार्यस्य कश्यपस्यापि प्राचीनत्वं विशेषतोऽनुसन्धीयते इत्यलं पल्लवितेन ॥
(४) भारतीयभैषज्यसमर्थनपरिच्छेदः
अस्या भारतीयायुर्वेदविद्यायाः स्वीयप्राचीनसम्प्रदायपरम्परयैवाभ्युत्थानम्, उतास्यां देशान्तरीयवैद्यकेनापि शिलान्यासः । किं वा यूरोपप्रदेशेऽपि सर्वप्राथम्येन ग्रीसदेशे सभ्यतायाः भैषज्यविद्यायाश्चोदयेतिवृत्तस्यावगमेन तदीयवैद्यकस्य भारतीयवैद्यके प्रभावानुप्रवेशः, किं वा परेषामधमर्णभावमनुपेतमपि भारतीयवैद्यकं भारत एव विश्रान्तमुत बहिःप्रदेशानपि स्वालोकोद्भासितान् विदधौ । एषां विषयाणां विमर्शं विना भारतीयायुर्वेदस्रोतः पूर्वपरिस्थितेर्न सम्यगवभासः, पूर्वेषामायुर्वेदाचार्याणामपि भारतीयपरम्परयैव औपदेशिकः सम्प्रदायोऽपि शैथिल्यमापद्येत इत्यस्मिन् विषयेऽपि विवेचनमत्रोपष्टम्भकं भवेदिति तद्विषयके विमर्शे नानाविदुषां मतान्यप्युपदर्श्य स्वमनसि प्रतिभातया दृशा किमपि विमृश्यते ॥
केचन भारतीयविज्ञानात् पाश्चात्त्यविज्ञानस्य प्राग्भावं साधयितुं कृतबुद्धयः उभयतः केषुचिदंशेषु सादृश्यमवलम्ब्य भारतीयवैद्यके पाश्चात्त्यविज्ञानप्रभावानुप्रवेशः, 'भेदस्य गान्धारवर्तितयोल्लेखेन यवनसम्पर्कात् तदीयवैद्यके यावनप्रभावानुवेध-इति चोपन्धस्यन्ति ॥
अन्ये केचन एवमुपवर्णयन्ति—सर्वप्रथमतया यूरोपविभागे भैषज्यविद्याया उदय ईशवीयाब्दारम्भात् पूर्वं पञ्चमशताब्द्यां (B. C. 460) हिपोक्रेटिस (Hippocrates) नाम्नो ग्रीकविदुषः समजनि । यस्तत्रत्यवैद्यविद्यायाः पितेत्युच्यते । तदीये भैषज्यग्रन्थे यूरोपदेशेऽनुद्भाविनां केवलं भारतीयत्वेन तत एव विज्ञेयानां जीरकार्द्रकमरिचत्वगेलातेजःपत्रादीनामौषधेषु प्रयोगस्य, तत उपषष्टिवर्षोत्तरस्य (B C. 400) थियोफ्रेष्टस (Theophrastus) नाम्नो भिषजो लेखेऽपि भारतीयानां बहुशो वनस्पतीनां प्रयोगस्य, एवमन्यैरपि प्राचीनपाश्चात्त्यवैद्यैर्भारतीयवनस्पत्याद्यौषधानामुल्लेखनस्य दर्शनेन च तेषु भारतीयवैद्यकविज्ञानप्रभावोऽवगम्यते इति ॥
तदस्मिन्नुभयविधे विमर्शो वस्तुतत्त्वमवधारयितुं भैषज्यविद्याया इव सभ्यताया यातायातस्य पूर्वेतिहासादेश्च विचारस्याप्यावश्यकतया लेशतस्तद्विषयेकेनोपष्टम्भकेन सह प्रकृतविषयमुपन्यस्तुं लेखनी प्रवर्त्तते ।
भारतीयानामिवार्यमन्यानां पाश्चात्त्यानां च प्राथमिकोद्गमस्थानविषयके आलोचने 'उत्तरध्रुवसन्निहितप्रदेशः प्राक्तनोऽभिजनः । तत एव क्रमशः प्रसरणेन परित आर्याणामुपगमः' इति केषाञ्चित् महाशयानां दृष्टिः । अन्ये केचन विद्वांसः सुदूरोत्तरभाग^१
१. It is now established that ancient Indo-Aryan, Greek, Iranian. Slavonic. Teutonic. Italo celtic, Tokharian languages descended from a parent stock of language which we may call strictly Indo-European or loosely Aryan. The language and along with it certain elements of a very