भारतकोश
काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ

पृष्ठ 138, कुल 942 में से

संदर्भ में पढ़ें
पृष्ठ 138
१२४काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

ग्रीसे पौराणिककथायां (Classical History) भैषज्यवृत्तस्य दर्शनेऽपि सर्वं तन्त्रत्यं भैषज्यवृत्तं न पूर्वस्रोतोविनिर्गतमिति वा$^१$इज (Wise) महोदयोऽपि निर्दिशति ॥

भारतीयवैद्यके ग्रीसवैद्यके च बहुशो विषयसाम्यं दृश्यते इति पूर्वं प्रदर्शितमेव । द्वित्रविषयविचारादिषु विभिन्नदेशविदुषां हृदयेष्वाकस्मिकोऽप्युन्मेषसंवादः सम्भवति । परमनेकविषयाणामसाधारणविषयाणां चैकतोऽपरत्र प्रभावपातं विना साक्षात् परम्परया वा मिथो यातायातादिसम्पर्कविशेषमन्तरा एकस्यापरत्र विषयप्रतिफलनं दुर्निंरूपं भवति । आर्यमन्यानां प्राचीनमूलस्रोतसश्छायारूपेण शाखोपशाखास्वनुवर्तनस्य मान्त्रिकभैषज्यप्रक्रियांशे प्रायः पूर्वमुपलम्भेऽपि, शाखोपशाखासु विभक्ताया वैज्ञानिकभैषज्यविद्याया भारत इव ग्रीसे पूर्वतोऽनुवृत्तेः साधकप्रमाणानुपलम्भेन ग्रीसवैद्यके भारतीयवैद्यके च दृश्यमानं साम्यं भारतात्तत्र, ततो वा भारते, साक्षादथवा देशान्तरं द्वारीकृत्य विज्ञानसङ्क्रमणमनुभावयति । ग्रीसवैद्यकस्य भारते प्रभावपातो यद्यभविष्यत्, तदा ग्रीसवैद्यकोपमृष्टाः तन्मस्तिष्काङ्कुरिता विषयास्तदीयशब्दविशेषास्तत्प्रक्रियाविशेषाश्च भारतीये वैद्यके न्यूनाधिकरूपेणावश्यमलप्स्यन्त, नहीदम्भावो लभ्यते । प्रत्युत पूर्वोपदर्शितदिशा भारतीय असाधारणविषयाः, भारतीयशब्दच्छाया, भारतीयत्वेन मुखेनेव कचनोल्रेखश्चैवमादयः प्राचीनग्रीसवैद्यके दृश्यमानाः साक्षात् मिश्रादिदेशान्तरं द्वारीकृत्य वा भारतीयभैषज्यविज्ञानस्य यं कञ्चन आलोकं ग्रीसवैद्यके पतितमवबोधयन्ति ॥

नालन्दाविश्वविद्यालये एषु रोगेषु एवं शल्यचिकित्साऽऽसीदिति प्रतिपाद्य भारतीयायुर्वेदे शारीरके न कोऽपि वैदेशिकः शब्दो दृश्यते, प्रत्युत पाश्चात्त्यवैद्यके शारीरकावयवनिर्देशकाः शब्दाः भारतीयप्राचीनशब्दच्छायाग्राहिणो बहुशो दृश्यन्ते इति Dorothea Chaplin महाशयो निरूपय$^२$ति ॥

यवनैर्भारतीयविषयाणामुपादानम्

‘ग्रीकभैषज्ये तद्देशीयपूर्वजातेः मिनोयन—(Minoan) नामिकायाः स्वच्छतानियमानां, मेसोपोटामिया—ऽसीरिया—मिश्रैरानभारतादिदेशेभ्यःशारीररचनाज्ञानस्य, भूतप्रेतादिभ्यो रोगोत्पत्तिवादस्य, ओषधिरचनाविद्यायाः, अनेकौषधानामायुर्वेदीयाचार-व्यवहाराणां, शल्यसम्बन्धिशस्त्रविज्ञानस्य चोपसङ्ग्रहणेन चत्वारि स्त्रोतांसि तत्प्रादुर्भावे आसन्, एतावन्तोऽशा अस्येति न


१. So Wise remarks as follows:—‘Facts regarding the ancient history of medicine have been sought for only in the classical authors of Greece and Rome and have been arranged to suit a traditional theory which repudiated all systems which did not proceed from a Greecian source’. The Surgical Instruments of the Hindus Vol. I P. 330 by G. N. Mukhopadhyay. २. Our medical system came originally from the Hindus through Arabia. The Hindu medical works contain on names that denote a foreign origin ..... European medicine down to the seventeenth century was practically based upon that of the Hindu ....... Let us take a glance at the similarity of names used in Hindu anatomy with the modern nomenclature of the West.

The division of the brain into—
Shirobrahm and Shirobiloma.
Shirobrahm, cf. Cerebrum.
Shirobiloma. cf. Cerebellum.
Hrid or hrith, cf. heart.
Mahaphala (Maha=magna), cf. magnavelo.

Thus may we see that the Hindu system is neither crude nor quackish, but perhaps the most ancient and the most scientific of all treatments, still containing enough fresh information, as regards Europe, to make the fortune of some enterprising doctor. Some Aspects of Hindu Medical Treatment by Dorothea Chaplin pp. 7-8