काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)
Kashyapa Samhita Hindi
महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा
स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)
पृष्ठ 150, कुल 942 में से
संदर्भ में पढ़ें| १३६ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम् |
|---|
पितृपदमध्यतिष्ठत् । हिपोक्रिटसविचारे ये विषयास्तदीयपरिष्कृतविचारोद्भूताः स्युस्तेषु तदुपज्ञभाव एव स्यात् । परं ये भारतीयायुर्वेदविषयसंवादिनः शब्दा विषया विचारा वा दृश्यन्ते तेषु साक्षात् परम्परया वा भारतीयप्राचीनवैद्यकस्यैव प्रतिफलनं वक्तव्यं भवति । पूर्वतनबाह्यदेशीयभैषज्यसम्प्रदायानां भारतीयपूर्वाचार्यैरनुसृतत्वे भारतीयपूर्वाचार्यग्रन्थैरपि बाह्यसम्प्रदायानुरूपैरेव भवितव्यं, न च तथाऽस्ति । किन्तु पूर्वोपदर्शितरीत्या (पृ. ६३-६५) एकमूषानिषिक्तनानाप्रतिमावदेकस्यामेव भूमिकायां निष्पन्ना एता विभिन्ना निबन्धनाकृतयः प्राचीनायुर्वेदीयादेकस्मादेवार्षस्रोतसः समुद्भूतमात्मानमवबोधयन्ति । इतः पूर्वतना अप्येतत्स्रोतोगता आर्षग्रन्था विषयविभेदेऽप्येतत्स्रोतःपातिन्यैवाकृत्या वर्तमानाः स्युरित्यनुमीयन्ते । ततश्च हिपोक्रिटसेन प्रवर्तितस्य पूर्वतनस्य वा ग्रीसवैद्यकस्यालोको वेदकालादनुस्यूततन्तौ इतिहासतो भौगर्भिकदृशा च तद्विद्गुणपूर्वकालेऽपि प्रौढतां दर्शयति भारतीयायुर्वेदवैद्यके पतितः स्यादिति वक्तुं जिह्वा प्रतिरुध्यते ॥
यद्यपि पञ्चसहस्रवत्सरात् पूर्वं ज्यौतिषविद्यायाः समुत्पादका अपि भारतीया एवेति $^१$पाश्चात्यविद्वांसोऽपि वदन्ति । परं, ग्रीसदेशे ज्योतिषविद्योन्नत्तौ द्वितीयशताब्दीभवस्य कस्यचिद्यवनविदुषो भाषामयो जातकग्रन्थो विचारगौरवेण प्रसरन् भारतीयैरप्यादरणेन देववाण्यामनूदितो यवनजातकनाम्ना भारते यावनज्यौतिषविद्याया निदर्शनमभूत् । वराहमिहिरादयः पश्चात्तन ज्यौतिषाचार्या अपि यवनाचार्यं निर्दिशन्ति । कालक्रमेण यावना रमलताजिकदिविषया अपि भारतीयं विज्ञानमनुप्राविशन् । एवं रोमकसिद्धान्तोऽपि भारते प्रसिद्धिं प्राप । प्राचीनवैद्यकविषये त्वयमंशो यावनः प्रसाद इत्यत्र न किमपि साधकमुपलभ्यते । वैद्यकविषये प्राचीनः कोऽपि यावनोऽतिशयः सम्पर्कः सहयोगो वाऽभविष्यत्, तदा शारीरके शल्यप्रक्रियायां कायचिकित्सा-यामौषधेषूपचारेषु अन्यासु वा वैद्यकप्रक्रियासु काऽपि यावनी प्रतिच्छाया प्राचीनभारतीयायुर्वेदग्रन्थेषु सुतरामलप्स्यत ॥
आत्रेयकश्यपादयः पूर्वाचार्याः 'काङ्कायनो नाम बाह्लीकभिषक्, बाह्लीकभिषजो वा, बाह्लीकास्त्वपरे' इत्यादिशब्दैः काङ्कायनं नामतोऽन्यांश्च बाह्लीकवैद्यान् बाह्यानपि ससंमानमाचार्यभावेन निर्दिशन्ति । आत्रेयकश्यपाभ्याम्प्युल्लिखितोऽयं बाह्लीकदेशः ग्रीकानामाक्रमणात् पूर्वे बलखनाम्ना प्रसिद्धः इरानप्रदेशः । तदात्वे तत्रापि वैद्यविद्यायाः समुन्नतिः, साऽपि आत्रेयाद्युक्ताचार्यविशेषविमर्शश्रेण्यां काङ्कायनस्य निर्देशान्भारतीयवैद्यप्रक्रियातो नातिविसंवादिनी केवलं तत्र तत्र विषये विचारविशेषमात्रमादधती प्रतीयते । सुश्रुतव्याख्याकारलेखस्य समूलत्वे तु सुश्रुताचार्यसतीर्थ्यश्रेण्यां काङ्कायनोल्लेखेन 'बाह्लीकभिषजां वर' इति निर्दिष्टे काङ्कायनेऽपि भारतीयस्रोतोगतमेव वैद्यकविज्ञानं स्फुटीभवति ॥
एवमपक्षपातं सबहुमानं बाह्यदेशविदुषोऽपि आचार्यकुक्षौ निक्षिप्य गुणग्राहितां कृतज्ञतां निदर्शयन्तः कश्यपात्रेयादयो भारतीयाचार्या भारतीयवैद्यकं यवनाचार्यैः प्रभावितं चेत् कथं तान्नाम्नाऽपि नोल्लिखेयुः ॥
ग्रीसे शस्त्रवैद्यकस्य पश्चात्प्रचारः
यद्यपि शरीरवतां स्वास्थ्यसम्पत्तये न्यूनाधिकेन येन केनापि रूपेण भैषज्यमिव राज्यसम्बन्धेन मिथो राज्ञां संमर्दस्य पुराकालादेव सर्वेषु, देशेषु जायमानतया तदनुषङ्गेणाहतप्रत्याहतोपचाररूपं शल्यचिकित्सनमपि केनचिदंशेन पुराकालेऽपि
१. The Hindoos were the first to cultivate Astronomical Science (Jyotisha). All modern astronomers admit the great antiquity of their observations. Cassini, Bailly and Playfair have stated that observations taken by Hindoo Astronomers upwards of 3000 years before Christ are still extant, and prove a considerable degree of progress already made at that period. The ancient Hindoos fixed the calendar, observed and predicted the eclipses, and were acquainted with the phases of the moon and the motions of several planets. According to Colebrooke, they were more correct than Ptolemy in their notions regarding the precession of the equinoxes.
Short History of the Aryan Medical Science
Pp. 13-14; by H. H. Bhagvatsinhajee,