काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)
Kashyapa Samhita Hindi
महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा
स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)
पृष्ठ 152, कुल 942 में से
संदर्भ में पढ़ें| १३८ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम् |
|---|
तक्षशिलागान्धारादिपरिसरप्रदेशोऽपि सौश्रुतसम्प्रदायस्य तत्राप्रसरणाभ्युपगमपक्षेऽपि पश्चिमतः प्रसिद्धत्वेन संभावितानामेषामाचार्यान्तराणां सम्प्रदायैरपि शस्त्रवैद्यकविज्ञानसमृद्धतामात्मनोऽवगमयति । जीवकस्य तक्षशिलायामध्ययनसमये तद्गुरुणा विहितस्य कपालभेदनस्य तत्रापि जीवकस्य विशेषदृष्टेष्व जातकग्रन्थात्, ततोऽधीत्य निवृत्तेन जीवकेन विहितस्य कपालभेदनस्यापि महावग्गलेखतोऽवगम्यमानतया तक्षशिलायामूर्ध्वजत्रुविभागीयशालाक्यविज्ञानस्यापि प्रचार आसीदिति वक्तुं शक्यते ।
B. C. 327 वर्षे भारतमुपेतस्य अलेक्जेण्डरस्य प्रत्यावर्तनान्मरणादप्यनन्तरं B. C. 304 संवत्सरे मिश्रदेशे अलेक्जेण्ड्रियायामुद्घाटिते सङ्ग्रहालये (Museum) हीरोफिलस (Herophilus) एरासिस्ट्रेटस (Erasistratus) नामकाभ्यां शारीरज्ञानसम्बन्धिलेखानां स्थापनं कृतं, यत् A. D. द्वितीयशताब्दीभवेन ग्रीसविदुषा ग्यालनेनान्विष्यापि न प्राप्तमित्युल्लेखो^१ दृश्यते । ग्यालनेनापि मिश्रादेव शारीरविज्ञानस्योपलब्धेः, विषयान्तराणां चानुसन्धानतो मिश्रदेशे तृतीयशताब्दीतः शारीरकस्य शस्त्रवैद्यकस्य च विशेषज्ञानमासीदित्यवगम्यते । ग्रीसदेशीयेषु मिश्रदेशीयेषु च शल्यवैद्यकशस्त्रेषु भारतीयशल्यवैद्यकशस्त्राणां साम्यमप्युपलभ्यते । ग्रीसवैद्यकशस्त्राणि सुश्रुतोक्तशस्त्रानुरूपाणीति G. N. मु^२खोपाध्यायोऽपि ब्रवीति । हार्^३नलोऽप्येवमुल्लिखति । तदिदं दृश्यमानं साम्यमपि भारतीयशस्त्रवैद्यकस्य यैः कैश्चिद्देशैः प्रभावपातमनुमापयति ॥
भारते इतस्ततः प्रौढभावेन वर्तमाना नानाविद्याः विशेषतो विद्यान्तरेभ्योऽपि शैल्यवैद्यकविभागीयस्य कायचिकित्साविभागीयस्य च भैषज्यविज्ञानस्य तक्षशिलादिप्रदेशेषु प्रौढतरतां दृष्टवता गुणगौरवैः स्वदेशं समेधयितुं प्रयत्नवत महता ग्रीसाधिपेन अलेक्जेण्डेरेण गान्धाराचार्यपौष्कलावतस्य सुश्रुतस्यापि वा सम्प्रदायेन तक्षशिलापुष्कलावतगान्धारादिप्रदेशेषु समृद्धस्य वैज्ञानिकशस्त्रवैद्यकस्यापि विशेषतः समादर उपग्रहणं च विहितमिति भारतीयचिकित्सकानां स्वे स्कन्धावारे स्थापनस्य स्वदेशे नयनस्य चेतिवृत्तं व्याख्यात्येव । विषयेभ्यो विरज्य वनस्थवृत्तिमुपाददानमाध्यात्मिकविद्वांसं कल्याणं (Kalanos) तक्षशिलानृपतेः प्रेषणप्रेरणसाहाय्यमप्युपादाय स्वदेशे विद्यागौरवाधानाय नीतवता तेन लोकोपयोगिनो विशेषतः संमर्द्दवृत्तिभी राजभिरपेक्षणीया शस्त्रभिषजः कायचिकित्सका अपि बहुशो नीता अवश्यं भवितुमर्हन्ति । अलेक्जेण्डरेतिवृत्ते इत्थंभावोपलम्भः, B. C. ३२७ वर्षे भारतमुपेतस्य अलेक्लेण्डरस्य प्रत्यावर्तनान्मरणादष्यनन्तरमुद्घाटितायामलेक्जेण्ड्रियायां वैज्ञानिकशस्त्रवैद्यकस्योद्गतिदर्शनं च मिथः समेत्य तत्रापि भारतीयप्रभावपातं गुणाधायकं न किं प्रत्याययति ।
इरानदेशे मिश्रदेशीयैश्चिकित्सकैः प्रथमडेरियसनृपतेश्चिकित्सनवृत्तस्योपलम्भात् मिश्रदेशे B. C. तृतीयशताब्दीतः पूर्वमपि शल्यवैद्यकमासीदिति प्रतीयेत, परं तेषां तत्रासफलतावृत्तं तदीयामवस्थामपि ध्वनयति । मिश्रे पौर्वकालिकस्य शारीरकविज्ञानस्य निदर्शनं नाप्युपलभ्यते । सत्त्वेऽपि तत्र भारतीयः प्रभावः पश्चाद्दर्शयिष्यते ॥
ग्रीसदेशोपलब्धप्राचीनमूर्तिषु मांसपेशीनां यथावदङ्कनदर्शनेन तत्र शारीरकज्ञानं विशेषतः पुराकालादेव आसीदित्यपि तर्कितुं न शक्यते । चित्रमूर्तिषु मांसपेशीनामङ्कनं तु भारते सुमेरियाबेब्लोनियादिप्रदेशेष्वपि पूर्वकालत उपलभ्यते । चित्रमूर्तिषु बाह्यपैश्यादीनामङ्कने सौष्ठवमसौष्ठवं च चित्रकलायां कौशलमकौशलं चावबोधयतः । आन्तरशारीरकावयवपरिज्ञानस्यापि
१. (a) It is not until after the death of Alexander the Great, and the institution of the Museum at Alexandria (304 B. C.), that the great anatomists, Erasistratus and Herophilus recorded their discoveries. In the time of Galen none of their works remained extant. Hellenism im Ancient India P. 192 G. N. Banerji.
(b) Whatever was the case with Hippocrates, there is no doubt of the prevalence of dissection of the human body in the Alexandrian schools of Herophilus and Erasistratos in the third Century B. C. History of Sanskrit Litrature P. 514-A. B. Keith.
२. Surgical Instruments of the Hindus.
Vol. I P. 342-243 by G. N. Mukhopadhyay.
३. Medicine of Ancient India Vol. I by Hoernle.