भारतकोश
काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ

पृष्ठ 167, कुल 942 में से

संदर्भ में पढ़ें
पृष्ठ 167

उपोद्घातः १५३

चरकसुश्रुतकश्यपभेदादीनां प्राचीनग्रन्थेषु गृहीतनाम्नां पूर्वाचार्याणामन्येषामपि नामान्येकैकश उपादाय यथावत्रिर्वचनं, पर्यालोचनं, विषयानुसन्धानमपि आयुर्वेदीयपूर्वावस्थाया देशतः कालतः स्वरूपतोऽपि विवेकाय यं कमपि सालोकं मार्गमुपदर्शयेदेव, किन्तु विस्तरभयादिदानीमेतावत्तैवोपरम्यते ॥

वैदिकसाहित्यमूलकं भारतीयभैषज्यसमर्थनम्

वैदिकसाहित्ये मान्त्रिकप्रक्रियाया उपलम्भेऽपि केवलभेषजप्रक्रियाया अपि नाल्पा न वा साधारणाः, अपि तु असाधारणा बहुशो विषया ऋग्वेदेऽपि दृश्यन्ते; अथर्ववेदे तु शारीरकाणि औषधयः शस्त्रवैद्यकविषया रोगनिर्देशा रोगोपचाराश्चेत्येतादृशा भैषज्यविषया ओताः प्रोताश्चेति पूर्वं (पृ. ५-७) निर्दिष्टमेव । षष्ट्यधिकत्रिशतास्थि¹ज्ञानं शतसहस्रशः सिरा² (हिरा) धमनीनां पौर्वकालिकं ज्ञानं मन्त्रलिङ्गादपि स्फुटीभवति । शत³पथब्राह्मणेऽप्यस्थ्नां षष्ट्यधिकत्रिशतानां वर्णनमस्ति । वैदिकां यागप्रक्रियायां पाशुकविभागे न केवलं पशूनां, मनुष्याणामपि मेधेषु तत्तदवयवानां पृथक्करणं विनियोजनं च दृश्यमानं तद्विषयकं विज्ञानविशेषं व्यनक्ति । वपाहृदयाद्युद्धरणे हस्तकौशलमपि विज्ञानवर्धकमभ्यासं दर्शयति । 'अथर्ववेदस्य दशमकाण्डद्वितीयसूक्ते शारीरकास्थानामानुक्रमिकं समीचीनं च वर्णनं लभ्यते । वेदकालिकैर्भारतीयैः प्रथमं शरीरस्य शारीरकविज्ञानस्य च मिथः सम्बन्धमावहन्तो विषयाः परिज्ञाता आसन्' इति वैदिकविषये वैदुष्यवद्व्र्यां कीथम्याकडोनलमहाशयाभ्यामपि लिखितमस्ति ॥

ऋगथर्वयजुर्मन्त्रलिङ्गतो विशेषतो बह्नीनामोषधीनां ज्ञानं विनियोगश्च पूर्वं दर्शित एव विकृतभग्नाद्यवयवानां रोहणसन्धानाद्यर्थमोषधीनां प्रार्थनाऽथ⁵र्ववेदे दृश्यते । ऋग्वेदे सोमस्य ओषधिराजत्वेन वर्णनमपि बहुश उपलभ्यते । सौमिकी याज्ञिकप्रक्रिया यदा प्रवृत्ताऽऽसीत् तया साकमेव सोमस्य प्रधानौषधिभावेन परिज्ञानं दृश्यते । अश्विनोर्देवभिषग्भावं सोमाश्विनयोर्घनिष्ठं सम्बन्धं च बहुशो मन्त्रलिङ्गानि गमयन्ति । सुश्रुतेऽपि सोमस्यौषधिभावेन बहुशो निर्देशोऽस्ति । सोमस्ययाज्ञिक्यां संस्थायां भेषजसंस्थायां च सम्बन्धविशेषावगमोऽप्येतद्विद्यायाः प्राचीनतरत्वं दर्शयति । अथर्विणि कुष्ठौषधवर्णनसूक्ते⁶ कुष्ठस्य इक्ष्वाकुकाम्यवसैः पूर्वकाले परिज्ञानस्य निर्देशदर्शनेन ओषधिविशेषाणामन्वेषणं परिज्ञानं च पूर्वकालादेव बहूनामासीदित्यपि मन्त्रलिङ्गतो लभ्यते नैतावदेव, वेदमन्त्रः सहस्रश ओषधीनां शतशो भिषजां च तादात्विकीं प्रज्ञप्तिमप्युद्गिरति । न केवलं वेदाकाल एव, अपि तु त्रियुगात् पूर्वमप्योषधिपरिज्ञानमासीदिति 'या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा' इति वैदिकादेव मन्त्रलिङ्गाद् दृश्यते ॥


१. द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ त तच्चिकेत । तत्राहतास्त्रीणि शतानि शङ्कवः षष्टिश्च कीला अविचाचला ये ॥ अथर्व. १०. ८. ४

२. शतस्य धमनीनां सहस्रस्य हिराणाम् । अस्थुरिन्मध्यमा इमाः साकमन्ता अरंसत ॥ अथर्व. १. १७. ३ इमा यास्ते शतं हिराः सहस्रं धमनीरुत । तासां ते सर्वासा महमश्मना विलमप्यधाम् ॥ अथर्व. ७. ३६. २

३. शतपथे १२. १. ३ । १२. ३. २ ।

४. The interest of the Vedic Indians seems early to have been attracted to the considerations of questions connected with the anatomy of the body. Thus a hymn of the Atharva Veda (X. 2) enumerates many Parts of the body with some approach to accuracy and orderly arrangement'. F. I. O. C. Prceedings Vol. II. P. 415.

५. सं ते मज्जा मज्ज्ञा भवतु समु ते परुषाः परुः । सं ते मांसस्य विस्रस्तं समस्थ्यपि रोहतु ॥ मज्जा मज्ज्ञा सं धीयतां चर्मणा चर्म रोहतु । असृक् ते अस्थि रोहतु मांसं मांसेन रोहतु ॥ लोम लोम्ना सं कल्पया त्वचा सं कल्पया त्वचम् । असृक् ते अस्थि रोहतु छिन्नं सं धेह्योषधे ॥ अथर्व. ४. १२. ३. ५

६. यं त्वा वेद पूर्व इक्ष्वाको यं वा त्वा कुष्ठ काम्यः । यं वा वसो यमास्यस्तेनासि विश्वभेषजः । अथर्व. १९. ३९. ९