भारतकोश
काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ

पृष्ठ 179, कुल 942 में से

संदर्भ में पढ़ें
पृष्ठ 179

उपोद्घातः १६५

हृदयोदरमन्तश्च यकृत्प्लीहाऽथ ...... । पच्यते तु शरीरस्थ .... धः पूयमेति च ॥
शीर्णदन्तश्च मृत्युश्च तस्याप्येतद्विशेषणम्' । 'स्तब्धाङ्गः स्तब्धदृष्टिश्च स तु शेते हतो यथा ॥
विरिच्यतेऽतिमात्रं च पुरीषं बह्नन्श्रातः । सर्वेषां स्रोतसां पाकः ........' ॥
'शिरोरुग्वेपथुश्वासप्रलापच्छर्दिरोचकाः । हीनपित्ते मध्यकफे लिङ्गं वाताधिके मत'म् ॥
जृम्भाप्रजागरायामविप्रलापशिरोरुजः । मन्यास्तम्भेन मृत्युश्च तस्याप्येतद्विशेषणम्' ॥
'त्रिदण्डवत्समबलो यथा ..... स्त्रिपादवत । यानि ज्वरचिकित्सायां रूपाण्युक्तानि यानि च ।
कूटपालक इत्येष सन्निपातः सुदारुणः ॥
व्याधिभ्यो दारुणेभ्यश्च वज्रशस्त्राग्नितो यदा । सद्यो हन्ता महाव्याधिर्जायते कूटपालकः ॥
कूटपालकविग्रस्तो न शृणोति न पश्यति । न स्पन्दते न ब्रवीति नाभिष्ठौति न निन्दति ॥
केवलोच्छ्वासपरमः स्तब्धाङ्गः स्तब्धलोचनः । त्रिरात्रपरमं तस्य जन्तोर्भवति जीवितम् ॥
तदवस्थं तु तं दृष्ट्वा मूढो व्याभाषते जनम् । धर्षितो राक्षसैर्नूनमवेलायां चरन्निशि ॥
अन्यथा ब्रुवते चैके यक्षिण्या ब्रह्मराक्षसैः । पिशाचैर्गुह्यकैश्चैव तथाऽन्ये सहभोजितम् ॥
आकृष्टमभिशस्तं च तथाऽन्ये मस्तकाहतम् । कुलदेवार्चनहतं धर्षितं गृहदैवतैः ॥
नक्षत्रपीडामपरे गरकर्माणि चापरे । वदन्ति सन्निपातं तु भिषजः कूटपालकम् ॥
सद्यः स्वस्थस्य युगपद्यदा कुप्यन्ति ते त्रयः । तदाऽभिवर्धते देहे पित्तको विषसंज्ञितः ॥
विरुद्धभोजनात् कालात् परिमाणाच्च कर्मणाम् । प्रकुप्यत्यनिलः शीघ्रं सोऽस्याग्निमुपहन्त्यते ॥
तस्योपहतकायाग्नेः पूर्ववत्पिबतोऽश्नतः । कफाद्भवति भूयिष्ठं यदादत्ते चतुर्विधम् ॥
तं कफं वायुरादाय स्रोतांस्यस्य विधावति । तस्य स्रोतांसि सर्वाणि ...... हन्ति च ॥
पूरयित्वाऽपि वायोस्ते संरुद्धः ....... । पित्तं प्रकोपयत्यस्य तत् पित्तं मारुतेरितम् ॥
सर्वतः श्लेष्मणा रुद्धमन्योन्यमिथुनाश्रयात् । ...... हल्लासमरुचिं ...... विसूचिकाम् ॥
रोगात्रानाविधांश्चान्यान् कुर्वन् ..... देहिनः । प्रकृतेर्वा ...... वायुः प्रकुप्यति ॥
यथा यथोद्बलत्वं वा प्राप्नुवन्ति गदा .... । तथैकद्वयुद्वलानाहूर्हीनमध्याधिकानपि ॥
कूटस्थैः .... दोषैर्जायते कूटपालकः । एवमेते विनिर्दिष्टाः सन्निपातास्त्रयोदश' ॥
'लङ्घनं स्वेदनं नस्यं मर्दनं कवलग्रहः । एतान्यादौ प्रयुञ्जीत सन्निपातेषु युक्तिवित्' ॥
'स्वेदाध्याये यथाप्रोक्तः स्वेदः सर्वाङ्गिकस्तथा । तत्रास्य स्वेदयेद्युक्तो यत्र यत्रास्य वेदना' ॥
'कफो हि वायुना क्षिप्तो विष्टम्भं पार्श्वयोर्हृदि । ..... रीकृतश्च पित्तेन शल्यवद्बाधते नरम् ॥
तस्य शुष्कस्य नीलस्य विलग्रस्य कृशात्मनः । दुःखनिर्हरणं कर्तुं तिक्तादन्यन्न भेषजात्' ॥
'तस्य तीक्ष्णानि नस्यानि तीक्ष्णाश्च कवलग्रहाः । स्वेदं दिवाजागरणं विदध्यात् पार्श्वशूलिनः ॥
मातुलुङ्गाद्रकरसमुष्णं स (त्रि)लवणान्वितम् । अन्यद्वा सिद्धिविहितं तीक्ष्णं नस्यं विधापयेत् ॥
तेन प्रभिद्यते श्लेष्मा प्रस्विन्नश्च प्रभिद्यते । शिरोहृदयमन्यास्यं दृष्टिश्चास्य प्रसीदति' ॥
'पुनः पुनश्च निद्रायां कटु नस्याञ्जनं हितम् । तीक्ष्णद्रव्यैः सलवणैर्मातुलुङ्गरसद्रवैः ॥
फ्लाम्लयुक्तैरथवा कोष्णाः स्युः कवलग्रहाः । आर्द्रकस्वरसोपेतं सैन्धवं सकटुकिकम् ॥
आकर्षं धारयेदास्ये निष्ठीवेच्च पुनः पुनः । तेनास्य हृदये श्लेष्मा मन्यापार्श्वशिरोगलात् ॥
लीनो व्याकृष्यते शुष्को लाघवं चास्य जायते । पर्वभेदो ज्वरो निद्राश्वासकासगलामयाः ॥


१. एष श्लोकोऽत्र मुद्रितपुस्तके नास्ति ।