भारतकोश
काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ

पृष्ठ 427, कुल 942 में से

संदर्भ में पढ़ें
पृष्ठ 427

लक्षणाध्यायः २८] सूत्रस्थानम् ६९

भगवँल्लक्षणैर्बाला आयुष्मन्तो भवन्ति कैः । सुखिनो दुःखिनः कैः कैर्वैद्यो विद्यादनायुषः ॥ ३॥ कति सत्त्वानि मर्त्यानां सत्त्वानां लक्षणं च किम् । प्रशस्तं निन्दितं देहे यद्यत्तत्तदिहोच्यताम् ॥४॥

भगवान् ! किन लक्षणों से बालक आयुष्मान् होते हैं अर्थात् किन लक्षणों को देखकर बालक के दीर्घायुष्य का ज्ञान हो सकता है ? बालकों के सुख, दुःख तथा अनायुष्य (कम आयु) का ज्ञान कैसे हो सकता है ? मनुष्यों के कितने सत्व होते हैं ? सत्त्वों के लक्षण क्या हैं ? तथा अन्य भी शरीर में जो जो प्रशस्त एवं निन्दित भाव हों उन २ का आप उपदेश कीजिये ॥

पञ्चावदानवचनं श्रुत्वा प्रोवाच कश्यपः । कृत्स्न लक्षणविज्ञानं सत्त्वं निन्दितपूजितम् ।।५।।

इन उपर्युक्त पांच प्रशस्त वचनों (प्रश्नों) को सुनकर महर्षि कश्यप ने सम्पूर्ण लक्षण विज्ञान, सत्व तथा अन्य निन्दित एवं प्रशस्त भावों का उपदेश किया ॥५॥

इह खलु कुमाराणां वृद्धजीवक ! स्निग्धतनुश्लक्ष्णताम्रा नखा आधिपत्याय भवन्ति, स्थूला आचार्याणां, राजीमन्तश्च दीर्घाश्चायुष्मतां, निम्नशुक्तितुषाकृतयो दरिद्राणां, रूक्षा दुःखभागिनां, पुष्पिता लुण्ठानां, श्वेता मण्डला अनायुषां, स्फुटिता अस्वत्तन्त्राणां, विवर्णा व्यसनिनां, समुन्नता निपिण्डान्ता अल्पाः सुखभागिनां, विपुलैर्नखैर्मध्यत्वमाह, स्थूलाः श्वेता विषमाश्च प्रव्राजयन्ति । पादैः पीनैः सुप्रतिष्ठितैरूर्ध्वलेखैरायुष्मन्तो धनवन्तोऽधिपतयः, स्वस्तिकलाङ्गलकमलशङ्खचक्रहयगजरथप्रहरणमङ्गलाङ्कितै राजानः, ताम्रैः स्निग्धैः सुभगाः, उत्कृ(त्क)टकैर्मध्यधनायुषः, श्वेतैरधनाः, अलेखैः परकर्मकराः, बहुलेखै रोगिणः, सुवृत्तश्लक्ष्णपाष्णिभिः सर्वगुणोपपन्ना भवन्ति, हीनपाष्णिभिरनायुषः प्रजाहीनाः, चिपिटाः पारदारिकाः । अङ्गुलीनखपादैर्दीर्घैर्दीर्घायुषो, ह्रस्वैर्ह्रस्वायुषः । अङ्गुलीभिर्घनाभिर्भाग्यवन्तो, गूढपर्वाभिर्भोगिनः, स्थूलपर्वाभिराचार्याः, लोमशाभिरधनाः । खरपरुषतनुविषमस्फुटितमलिनापाष्ठिरप्रशस्ता । उत्तरपादमुन्नतमसिरमलोमकं प्रशस्यते, विषमं विपरीतं च तस्कराणाम् । गुल्फौ गूढावल्पावलोमशिरौ प्रशस्येते, धननाशयोल्वणौ, विपुलो परिक्लेशाय । प्रजङ्घा तन्वी प्रशस्यते, स्थूला पतिपुत्रद्रव्यसुखक्षयकरी स्तेनाय च । जङ्घे चानुद्वद्धे असिरे अलोमिके प्रशस्येते, शुष्कस्थूलसिरालोमशे विपरीते, वैधव्यकर्यौ तु नारीणाम् । जानुनी च गूढे धन्ये । ऊरू मांसोपचितौ गूढसिरौ श्लक्ष्णौ प्रशस्येते । स्फिचौ निर्वृत्तावलम्बौ ।

(इति ताडपत्रपुस्तके ४५ तमं पत्रम् ।)

निर्व्रणावलोमशावविषमौ प्रशस्येते, शुष्कावनपत्यानां, लम्बौ प्रधाननाशाय, महान्तौ पौंश्चल्याय, अल्पकौ शीलवताम् । कुकुन्दरौ गम्भीरावलोमशौ प्रविभक्तौ समौ प्रशस्येते, लोमशौ प्रव्रज्यायै, प्रदक्षिणावर्तौ तु धन्यौ, विपुलौ दीर्घायुषां, श्लिष्टावनायुषाम् । जघनमुरसा तुल्यं प्रशस्यत इत्येके । कुमाराणामुरस्तु विशालतरं, जघनं तु कुमारीणां, न तु मध्याय कल्पते । वृषणौ प्रलम्बौ बृहतौ गौरस्य, कृष्णौ कृष्णस्य, गौरौ रक्तस्य, श्यामौ श्यामस्य, रक्तौ लोमशौ मध्यौ स्मृतौ, पीनौ प्रशस्येते, विपरीतौ दौर्भाग्यपुस्त्वप्रजाहानिकरौ, स्वल्पावनायुषां, दुःखाय चैके, गोखरहयाजाविकाकृती तु सुभगनामायुष्मतां च विज्ञेयौ । प्रजननं मृदु दीर्घमुच्छ्रितं बृहत्ताप्रनिर्वृत्तमणि महाकोशं महास्रोतः प्रशस्यते, तनु ह्रस्वं लम्बि विकोशं श्वेतश्यावविसृतं वामावृत्तमप्रशस्तम् । मूत्रमनाविद्धमतनुकमनल्पमृजुवेगं प्रशस्यते, तद्विपरीतमतिगन्धि सवेदनमत्युष्णं विवर्णमनिमित्तकालमशब्दमप्रशस्तं; कन्यकानां च स्फालितमूत्रत्वमुभयोर्वाऽनथ्यकरम् ।

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित) · पृष्ठ 427, कुल 942 में से · BharatKosha