भारतकोश
काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ

पृष्ठ 428, कुल 942 में से

संदर्भ में पढ़ें
पृष्ठ 428
७०काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्लक्षणाध्यायः २८]

योनिः शकटाकृतिरपत्यलाभाय, पीना सौभाग्याय, लम्बाऽपत्यवधाय, मण्डलाव्याभिचरणाय, उत्क्षिप्ताऽनपत्यत्वाय, सूचीमुखी दौर्भाग्याय, भृशविवृतसंवृतशुष्का लम्बा विषमा विलिङ्गा क्लेशलाभाय, मध्यनिबिडा कन्याप्रजननाय, उन्नता रमणीया मांसला पुत्रजन्मने, व्यञ्जनवती च धन्या, अतिलोमशा वैधव्यकरी, व्यञ्जनहीना त्वयशसे, पिप्लुमद्द्सावती व्यभिचारप्रव्रज्यायैः । तथैव लोमराज्युभयतो मध्यमगता नातिघना प्रशस्यते, वैधव्यायाति स्थूला, अतिस्थूलघनलोमा पौंश्चल्याय, अधोजाता दौर्भाग्याय, नाभिमतिवृत्ता मध्यत्वाय । कुक्षौ समुन्नतौ प्रशस्येते, लोमशौ प्रव्रज्यायै, सिरालौ कुभोजनाय, निम्नौ दारिद्र्याय, समौ मध्यत्वाय, दक्षिणोन्नतौ पुत्रजन्मने, वामोन्नतौ विपरीतौ । ईषदुन्नतमुदरमशिथिलमकठिनमविपुलं प्रशस्यते, दारिद्र्याय शुष्कम्, उन्नतं भोगाय, विशालविषमं विषमशीलभोगाय कल्पते, भृशशुष्कमनपत्यं; स्त्रियाश्चाधस्तादुपचितमशिरमतिविपुलमवलिकमनायुषे, मध्यं नाभेरूपरिष्टादनायुषे, एकवलिकं धन्यं, द्विवलिकं बुद्धिलाभाय, त्रिवलिकं सौभाग्याय, चतुर्वलिकं प्रजायुषे, बहुवलिकमध्यमनायुषे भवत्युदरम् । नाभिः गम्भीरा प्रदक्षिणा वृत्तोत्सङ्गिनी लोमसिरावर्तवर्जिता प्रशस्यते, गर्ताकृतिरनुन्नता सुखदुःखकरी, विषमोन्नताऽनायुष्या, स्वल्पाकृतिरनपत्या, विदेशस्था प्रव्राजयति, बृहती गम्भीरोन्नताऽऽधिपत्याय । नाभ्या पायुर्व्याख्यातः । पार्श्वे वृत्ते मांसले स्निग्धे अलोमसिरे प्रशस्येते, लोमसिरे प्रव्राजयते । पृष्ठं सममुपरिविशालमसिरमलोमकमनावर्तकं प्रशस्यते, मध्ये निम्नमायुष्मतां, निर्भुग्नं दुःखभागिनां, संक्षिप्तमनायुषां, लोमशममैत्राणामल्पापत्यानां च । लोमस्कन्धोवणिग्भारजीवी कितवो रङ्गजीवी वा, शुष्कांसो दरिद्रः, तावुभौ दीर्घायुषौ कदाचित् प्रव्रजेतामपि; स्निग्धांसः कर्षकः, पीनांस आढ्यः, कठिनांसः शूरः, शिथिलांसोऽस(श)क्तः; उन्नतांसः पुमान् प्रशस्यते, भ्रष्टांसा कन्या; विपरीते तद्गुणहानिः । कक्षावृत्तौ पृथुलौ पीनौ सुव्यञ्जनौ प्रशस्येते, विपरीतावधन्यौ, भृशलोमशौ च नारीणाम् । तथा बाहू आनुपूर्व्योपचितौ गूढारत्नी दीर्घौ जानुस्पृशौ प्रशस्येते, सिराततावायुष्मतां, पक्ष्म (क्ष)वन्तौ प्रजावताम्, असिरावप्रजानां, तिर्यक्सिरौ कृच्छ्रजीविनां, तिलवन्तौ प्रव्राजयतः, मशकलक्षणवन्तौ कलहाय । मणिबन्धने स्थूले पुंसः प्रशस्येते, तनू स्त्रियाः । उभयोरेव तिस्रो यत्रपङ्क्त्योऽच्छिन्नाः प्रशस्यन्ते, प्रथमा धन्या, द्वितीया मुख्या, तृतीया प्रजायुषे, सर्वाश्चेदविच्छिन्नाः स्निग्धा व्यक्तगम्भीरलिखिता आधिपत्याय, चतस्रो राजर्षेः, पञ्च षट् शतपुत्रस्य, सप्त देवनिकायानाम्, एकाऽपि चेदविच्छिन्ना व्यक्ता सुखायोपपद्यते ।

.................................................................................... (इति ताडपत्रपुस्तके ४६ तमं पत्रम् ।) .................................................. स्त्रीणां चातिदीर्घाश्चातिह्रस्वाश्च निन्दिताः । केशभूमिः स्निग्धा लोहिता निर्मला निर्व्रणा च प्रशस्यते ।।

मत्तगजवृषभसिंहशार्दूलहंसगतयोऽधिपतयः, स्तिमितगतयो धन्याः, चपलगतायश्चपलसुखदुःखलाधिनः, तिर्यग्गतयस्त्वधन्याः स्खलनाश्चाङ्गविस्फोटिनश्चाप्रशस्ताः । तथा, अतिगौरमतिकृष्णमतिदीर्घमतिह्रस्व- मतिकृशमतिस्थूलमतिलोमशमलोमशमतिसृद्वतिकठिनं च शरीरेष्व(रम) प्रशस्तमुच्यते । तथा बालानां रुषितरुदितस्वप्रजागरक्रोधहर्षविसर्गदानपङ्क्तिस्थैर्यगाम्भीर्याणि युक्तानि गुणाधिकानि प्रशस्यन्त इति ।। ६ ।।

हे वृद्धजीवक बालकों के दीर्घायुष्य के निम्न लक्षण होते हैं—नख—स्निग्ध, तनु (पतले) चिकने तथा ताम्र वर्ण के हों तो बालक अधिपति (राजा या स्वामी) होता है । स्थूल नख हों तो आचार्य होता है । रेखायुक्त तथा दीर्घ हों तो