भारतकोश
काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ

पृष्ठ 444, कुल 942 में से

संदर्भ में पढ़ें
पृष्ठ 444

८६ काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम् शिष्योपक्रमणीयाध्यायः ९ ]


परीक्षेत। तद्यथा—पर्यवदातश्रुतपरिदृष्टकर्माणं दक्षं दक्षिणं शुचिं जितहस्तमुपकरणवन्तं सर्वेन्द्रियोपपन्नं प्रकृतिज्ञं प्रतिपत्तिज्ञमुपस्कृतविद्यमनहङ्कृतमनसूयकमकोपनं क्लेशक्षमं शिष्यवत्सलमध्यापकं ज्ञापनसमर्थं चेति, एवंगुणों ह्याचार्यः सुक्षेत्रमार्तवो मेघ इव सस्यगुणैः सुशिष्यमाशु वैद्यगुणैः सम्पादयति ॥५॥

अथ शिष्यानुशासनं—भोः सौम्येनानुकूलेन धार्मिकेण जितेन्द्रियेणाहूताध्यायिना च भवितव्यं, सर्वनिवेदिना समानदुःखेन देशकालज्ञेन धृतिमत्ता च भवितव्यं, लोभक्रोधमोहेर्ष्याप्रहासवैरमद्यमांसस्त्रीभ्यो निवर्त्तयि(र्त्ति)तव्यं, गुरुशुश्रूषाऽवशेषेणाध्येतव्यं, न चाननुज्ञातेन न चानभ्यर्च्य वा गुरुमसमाप्तविद्येन वा प्र^१चरितव्यम् ।।६।।

शिष्य के प्रति उपदेश—वत्स ! तुझे सौम्य, अनुकूल (आचार्य के अनुकूल), धार्मिक, जितेन्द्रिय, अध्ययन के लिये जिसे बुलाया जाय, सब कुछ मुझे कह देनेवाला (अर्थात् मुझसे कुछ न छिपाने वाला), समान दुःख वाले (अर्थात् मेरे दुख को अपना दुख समझने वाला), देश तथा काल का ज्ञान रखने वाला और धृतिमान् होना चाहिये। लोभ, क्रोध, मोह, ईर्ष्या, प्रहास (दूसरे की हंसी मजाक उड़ाना), वैर, मद्य, मांस तथा स्त्री से दूर रहना चाहिये। गुरु की सेवा करते हुए अध्ययन करना चाहिये। गुरु से आज्ञा लिये बिना, उनकी अभ्यर्थना किये बिना तथा विद्या को पूर्ण रूप से समाप्त किये विना चिकित्सा कार्य में प्रवृत्त नहीं होना चाहिये। चरक वि. अ. ८ में शिष्य के प्रति उपदेश का अत्यन्त विस्तारपूर्वक वर्णन किया गया है—अथैनमग्निसकाशे ब्राह्मणसकाशे भिषक्सकाशे चानुशिष्यात्—ब्रह्मचारिणा श्मश्रुधारिणा सत्यवादिनाऽमांसादेन मेध्यसेविना निर्मत्सरेणाशस्त्राधारिणा च भवितव्यम्, न च ते मद्द्वचनात्किंचिदकार्यं स्यादन्यत्र राजद्विष्टात्प्राणहराद्विपुला-दधर्म्यादनर्थसम्पयुक्ताद्वाऽप्यर्थात्, मदर्पणेन मत्प्रधानेन मत्प्रियहितानुवर्तिना च शश्वद्भवितव्यं पुत्रवद्दासवदर्थिवच्चोपचर-ताऽनुवस्तव्योऽहमनुत्सुकेनावहितेनानन्यमनसा विनीतेनावैक्ष्यकारिणाऽनसूयकेन, न चानभ्यनुज्ञातेन प्रविचरितव्यं, अनुज्ञातेन प्रविचरता पूर्वं गुर्वर्थोपान्वाहरणे यथाशक्ति प्रयतितव्यं, कर्मसिद्धिमर्थसिद्धिं यशोलाभं प्रेत्य च स्वर्गमिच्छता त्वया गोब्राह्मणमादौ कृत्वा सर्वप्राणभृतां शर्मशासितव्यमहरहरुत्तिष्ठता चोपविशता च सर्वात्मना चातुराणामारोग्ये प्रयतितव्यं जीवितहेतोरपि चातुरेभ्यो नाभिद्रोग्धव्यं, मनसोऽपि च परस्त्रियो नाभिगमनीयास्तथा सर्वमेव परस्वं, निभृतवेशपरिच्छेदन भवितव्यमशौण्डेनापापेनापापसहायेन च श्लक्ष्णशुक्लधर्म्यधन्यस यशस्यमर्हितमितवचसा देशकालविचारिणा स्मृतिमत्ता ज्ञानोत्थानोपकरणसम्पत्सु नित्यं यत्नवता, न च कदाचिद्राजद्विष्टानां राजद्वेषिणां वा महाजनद्विष्टानां महाजनद्वेषिणां वाऽप्यौषधमनुविधातव्यं तथा सर्वेषामत्यर्थं वकृतदुष्टदुःखशीलाचारोपचाराणामनपवादप्रतीकाराणां मुमूर्षूणां च तथैवासन्निहितेश्वराणां स्त्रीणामनध्यक्ष्ाणां वा, न च कदाचित्स्त्रीदत्तमामिषमादातव्यमननुज्ञातं भर्तृऽथवाऽध्यक्षेण, आतुरंकुलं चानुप्राविशता त्वया विदितेनानुमतप्रवेशिना सार्धं पुरुषेण सुसवीतेनावाक्शिरसा स्मृतिमत्ता स्तिमितेनावेक्ष्यावेक्ष्य मनसा सर्वमाचरता बुद्ध्या सम्यगनुप्रवेष्टव्यं, अनुप्रविश्य च वाङ्मनोबुद्धीन्द्रियाणि न क्वचित् प्रणिधातव्यान्यत्रातुरादातुरोपकारार्थाद्वाऽऽतुरगतेष्वन्येषु वा भावेषु न चातुरकुलप्रवृत्तयोबहिर्निश्शारयितव्याः, हसितं चायुषः प्रमाणमातुरस्य न वर्णयितव्यं जानताऽपि तत्र यत्रोच्यमानमातुरस्यान्यस्य वाऽप्युपघाताय संपद्यते, ज्ञानवताऽपि च नात्यर्थमात्मनो ज्ञाने विकत्थितव्यं, आप्तादपि हि विकत्थमानादत्यर्थमुद्विजन्त्यनके। इसी प्रकार सुश्रुत सू. अ. २ में कहा है—ततोऽग्निं त्रिः परिणीयाग्निसाक्षिकं शिष्यं ब्रूयात्—कामक्रोधलोभमोहमानाहङ्कारेर्ष्यापारुष्यपैशून्यानृतालास्यायशस्यानि हित्वा, नीचनखरोम्णा शुचिना कषायवाससा सत्यव्रतब्रह्मचर्याभिवादनतत्परेणाऽवश्यं भवितव्यं, मदनुमतस्थानगमनशयनासनभोजनाध्ययनपरेण भूत्वा, मत्प्रियहितेषु वर्तितव्यम्, अतोऽन्यथा ते वर्तमानस्याधर्मो भवति, अफला च विद्या, न च प्राकाश्यं प्राप्नोति ॥६॥


१. चिकित्सार्थं व्यवहर्तव्यमित्यर्थः ।