काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)
Kashyapa Samhita Hindi
महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा
स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)
पृष्ठ 447, कुल 942 में से
संदर्भ में पढ़ेंशिष्योपक्रमणीयाध्यायः १ ] विमानस्थानम् ८९
इसके बाद यदि कोई दूसरा वैद्य उसके साथ संभाषण करे तो उसे सहन करे तथा शान्ति द्वारा उसे समझाये। परन्तु यदि वह बार २ कुत्सित वचन बोले तो उसके साथ विगृह्य संभाषा का प्रयोग करे। तथा ग्रन्थों से भिन्न २ वाक्य उसके सामने बोले। और उसे बोलने का अवकाश (अवसर-मौका) ही न दे। यदि वह बोलता भी हो तो उसे कहे—यह ठीक नहीं है। उसकी हंसी करे, तथा उसके अशुद्ध शब्दों को पकड़ ले। तथा उसे कठिन विषय में ले जाये। अपने वश अथवा सीमा से बाहर होकर बहुत कठोर वचन न कहे। तथा स्तुति-गर्भ वाक्यों के द्वारा ही उसे नीचा दिखाये। चरक वि. अ. ८ में विवाद के विषय में लिखा है—तद्विधेन च सह कथयता आविद्धदीर्घसूत्रसंकुलैर्वाक्यदण्डकैः कथितव्यं, अतिहृष्टं मुहुर्मुहुरुपहसता परं रूपयता च परिषदमाकारैर्बुवता चास्य वाक्यावकाशो न देयः, कष्टशब्दं ब्रुवता वक्तव्यो 'नोच्यते' इति, अथवा पुनः 'हीना ते प्रतिज्ञा'। इति पुनश्चाहूयमानः प्रतिवक्तव्यः—परिसंवत्सरो भवापि शिक्षस्व तावत् पर्याप्तमेतावते, सकृदपि हि परिक्षेपकं निहतं निहतमाहुरिति नास्य योगः कर्तव्यः कथंचिदप्येवं श्रेयसा सह विगृह्य वक्तव्यमित्याहुरेके, न त्वेवं ज्यायसा सह विग्रहं प्रशंसन्ति कुशलाः ॥९॥
भो भिषक् ! आयुः किं, किमायुर्वेदस्यायुर्वेदत्वं, किं चायुरित्युच्यते, कत्यङ्गश्चायुर्वेदः, कथं चाध्येयः, किमर्थं चाध्येय, किञ्चास्याद्यं तन्त्रं, कश्चैषां धुर्यः, कतमं च वेदं श्रयति, किं नित्योऽनित्यः, किमाश्रयश्चायुर्वेदः, कानि चैषां सु (स्व) लक्षणानि तत्रकृतीनां, तिसृणां च वेदनानामतीतवर्त्तमानानागतानां कतमां भिषक् चिकित्सति, किं चास्यायुर्वेद(स्य)साधनं, किं पुण्योऽपुण्यः ? इति पृष्टो वा प्रतिब्रूयात्—भोः तत्रायुर्जीवितमित्युच्यते ।। 'विद' ज्ञाने धातुः, 'विद्लृ' लाभे च, आयुरनेन ज्ञानेन विद्यते ज्ञायते, विन्दते लभ्यते न रिष्यतीत्यायुर्वेदः कत्यङ्गश्चायुर्वेद इति अष्टाङ्गः; तस्य कौमारभृत्यं कायचिकित्सा शल्याहर्तृकं शालाक्यं विषतन्त्रं भूततन्त्रमगदतन्त्रं रसायनतन्त्रमिति ।। अत्राह—अङ्गान्येतानि, शरीरमस्य कतमत्, यदाश्रयन्त्यङ्गानि, अङ्गानि हि शरीराश्रयाणि भवन्ति; अत्राह तस्य शरीरं धर्मः, धर्माश्रयं ह्यस्मिन् कर्म सिध्यतीति ।। कथं चोत्पन्न इति; आह—अथर्ववेदोपनिषत्सु प्रागुत्पन्नः; स्वयंभूर्ब्रह्मा प्रजाः सिसृक्षुः प्रजानां परिपालनार्थमायुर्वेदमेवाग्रेऽसृजत् सर्ववित्, ततो विश्वानि भूतानि ततस्तं पुण्यमायुर्वेदमनन्तमायुषो वर्धनमाधारमाप्यायनममृतमश्विभ्यां कः प्रददौ, ताविन्द्राय, इन्द्र ऋषिभ्यश्चतुर्भ्यः कश्यपवशिष्ठात्रिभृगुभ्यः; ते पुत्रेभ्यः शिष्येभ्यश्च प्रददुहिताथं धर्मार्थकाममोक्षशक्तिपरिपालनार्थं चेति, एवमुत्पन्नः ।। कथं चाध्येय इति, गुरोरनुमतेनेति ।। केन चाध्येय इति, ब्राह्मणक्षत्रियवैश्यशूद्रैरायुर्वेदोऽध्येयः ।। तत्रार्थपरिज्ञानार्थं पुण्यार्थं चात्मनः प्रजानुग्रहार्थं ब्राह्मणैः, प्रजासंरक्षणार्थं क्षत्रियैः, वृत्त्यर्थं वैश्यैः, शुश्रूषार्थमितरैः धर्मार्थं च सर्वैः । सुखजीवितदानं हि सर्वधर्मेभ्याधिकं ब्रुवते; ततश्च पुण्य एवमायुर्वेदः । सुखजीवितदानतुष्टाश्च देहिनः कृतज्ञाय संविभजन्ति पुरःस्तुवन्ति च; तदस्य धर्मार्थकामनिर्वर्तकं भवतीति किमर्थं चाध्येय इत्यत्रोक्तम् ।। किंचास्याद्यं तन्त्रमिति ?
कौमारभृत्यमष्टानां तन्त्राणामाद्यमुच्यते ।
आयुर्वेदस्य महतो देवानाभिव हव्यपः ।।
अनेन हि संवर्धितमितरे चिकित्सन्ति । बालस्य हृद्यमौषधमन्यत्, प्रमाणमन्य (दन्य) उपक्रमोऽन्ये च विशेषाः ।। कं च वेदं श्रयति ? अथर्ववेदमित्याह; तत्र हि रक्षाबलिहोमशान्ति ........ प्रतिकर्मविधानमुद्दिष्टं विशेषेण, तद्वदायूर्वेदे, तस्मादथर्ववेदं श्रयति । सर्वान् वेदानित्येके, पद्यगद्यकथ्येगेयविद्याश्रयादिति; न चैतदेवम्, आयुर्वेदमेवाश्रयन्ते वेदाः । तद्यथा—दक्षिणे पाणौ चतसृणामङ्गुलीनामङ्गुष्ठ आधिपत्यं कुरुते, न च नाम ताभिः सह समतां गच्छति, एकस्मिंश्च पाणौ भवति, एवमेवायमृग्वेदयजुर्वेदसामवेदाथर्ववेदेभ्यः
१. आयुर्वेदो धर्म्योऽधर्म्यो वेत्यर्थः ।