भारतकोश
काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ

पृष्ठ 453, कुल 942 में से

संदर्भ में पढ़ें
पृष्ठ 453

चतुर्थं शारीरस्थानम्

................................ तस्मात् पञ्चैव खलु ऋतवोऽपि, तदनुपपत्तेर्नास्ति षट्त्वमिति; अत्रोच्यते—रसार्थमेषां षट्त्वं रसविमाने प्रोक्तम् ।

................................

इसलिये ऋतुयें भी पांच ही होती हैं। उसकी उपपत्ति न होने से छठी ऋतु नहीं होती। रस के प्रयोजन के लिये ऋतुएँ ६ होती हैं जिसका कि रसविमान (खण्डित भाग) में वर्णन किया गया है ।।

स कः$^१$ कलासमूहं कालं द्विविधमकल्पयत्—शुभं चाशुभं च, तौ तुल्यप्र(परि)माणौ भूतवर्तमानअनागत-विभागात् । तत्र शुभ उत्सर्पिणी$^२$, अशुभोऽवसर्पिणी; ते पुनरुभे त्रिविधे युगभेदेन—आदियुगं देवयुगं कृतयुगमित्युत्सर्पिणी, त्रेताद्वापरकलियुगान्यवसर्पिणी; तयोरानन्त्यात् परिमाणं नोच्यते । तत्रादियुगदेवयुगेऽचिन्त्यप्र(परि)माणोद्भवो कर्मभोजनपानगतिवीर्यायुषि अनिर्देश्ये । कृतयुगे तु नारायणं नाम देहिनां संहननं शरीरमुत्पद्यते; तस्मात्तदाहुः—तस्य घनं निष्कपालं शिरः, अस्थीनि च सत्त्वास्पदान्याकृतयो वज्रगरीयस्यः, हृदि चास्य महासिरा दशैव, त्वगस्य शिरश्चाभेद्यमच्छेद्यं, सर्वतोऽस्य शुक्रं, योजनं चास्योत्सेधः, सप्तरात्रं चास्य गर्भवासः, सद्योजातस्य चास्य सर्वकर्माणि शक्यानि भवन्ति, न चैनं क्षुत्पिपासाश्रमग्लानिशोकभयेर्ष्याऽधर्मचिन्ताधिव्याधिजरा बाधन्ते, न च स्तन्यवृत्तिर्भवति, धर्मतपोज्ञान-विज्ञानस्थितियुक्तिश्राति भवति । तस्य पलितोपमार्थ(?)मायुरुत्कृष्टमाहुरिति ।। अथ त्रेतायामर्धनारायणं नाम देहिनां संहननं शरीरमुत्पद्यते । तस्यैकास्थिप्रायं शरीरमाकुञ्चनप्रसारणवर्ज्यं, गर्भवासोऽस्याष्टमासिकः, स्तन्यजीविका च, द्वे शिरस्कपाले, पार्श्वयोरेकैकः सन्धिः उरसि च, त्र्यस्थि पृष्ठं, कोष्ठस्य सिरा विंशतिः, शुक्रं च, पलितोपम(?)चतुर्भागमायुरुत्कृष्टं पूर्वाच्चार्धगुणावसर्पणमिति ।। अथ द्वापरे कैशिकसंहननं शरीरमुत्पद्यते केशमात्राणुसुषिरास्थि, अतिक्षिप्तसन्धि, महाहस्तिबलः(लं), सिरानुवेष्टितगात्रः(त्रं), गात्रसन्धिषु चास्य शुक्रं, पलितोपमा(?)ष्टभागमायुरुत्कृष्टं पूर्वाच्चार्धगुणावसर्पणमिति ।। अथ कलियुगे प्रज्ञप्तिपिशितं संहननं शरीरमुत्पद्यते । तस्य षष्टिश्च त्रीणि चास्थिशतानि भृशसुषिराणि मज्जपूर्णानि नलवदासन्नबधानि$^३$, चत्वारि मांसपेशीशतानि, सप्त सिराशतानि हृदयमूलानि, नव स्नायुशतानि मस्तुलुङ्गमूलानि, द्वे धमनीशते तालुमूले, सप्तोत्तरं मर्मशतं, त्रीणि महामर्माणि, दश प्राणायतनानि, पञ्च हृदयानि, त्रीणि सन्धि-शतान्येकाशीता(त्यधिका)नि, चतुर्दश कण्डराः, कूर्चा द्विचत्वारिंशत्, षट त्वचः, सप्त धातवः स्रोतांसि द्विविधानि, जातस्य पृथग्दन्तजन्म, दशमासं गर्भवासः संवत्सरादूर्ध्वं प्रतिष्ठतति, वाचं च विसृजति; तस्य वर्षशतमायुरुत्कृष्टं, सुखदुःखधिव्याधिजरामृत्युपरिगतः, .... सर्वगात्रः, क्षुत्पिपासागौरवश्रमशैथिल्य-चित्तेर्ष्यारोषानृतलौल्यपरिक्लेशमोहवियोगप्रायः, संसारगोचरः, आबाधबहुल इति द्वे द्वे युगे सत्त्वरजस्तमोन्वये विद्धि । इति पुरुषस्य सृष्टिकारणमुक्तम् ।।


१. कः ब्रह्मा ।
२. जो स्वयं वृद्धि को प्राप्त होता है अथवा क्रमशः आयु आदि भावों को बढ़ाता है उसे उत्सर्पिणी अथवा उन्नतिकाल कहते हैं। जो स्वयं क्षीण होता है अथवा क्रमः आयु आदि भावों को क्षीण करता है उसे अवसर्पिणी या अवनतिकाल कहते हैं।
३. नलबद्धङ्गुराणीत्यर्थः ।


२९ का.सं.