काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)
Kashyapa Samhita Hindi
महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा
स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)
पृष्ठ 463, कुल 942 में से
संदर्भ में पढ़ेंगर्भक्रान्तिशारीराध्यायः ? ] शारीरस्थानम् १०५
गर्भशयस्थमात्मप्रकृतिविकारसंमूर्च्छितं गर्भं इत्युच्यते, तस्मावक्रान्तिरूपगमनमवतरणमिति यावत् गर्भावक्रान्तिः, साऽस्मिन्नस्तीति ॥१-२॥
जीवस्तु खलु भो सर्वगतत्वादीश्वरगुणसमन्वितः पूर्वशरीराच्चावक्रामति परशरीरं चोपक्रामति युगपत्, न कदाचिदपि बीजशोणितवाव्वाकाशादिमनोबुद्धिभिर्वियुक्तपूर्वः, सर्वगतत्वाच्च न कस्यांचिद्योनौ नोपपद्यते स्वकर्मफलानुभवादिति ।।३।।
हे वत्स ! जीव सर्वगत होने से ईश्वर के गुणों से युक्त हुआ युगपत् पूर्व शरीर से अवक्रमण (छुटकारा) तथा पर (दूसरे-अगले) शरीर में उपक्रमण (प्रवेश) करता है। अर्थात् जीव एक शरीर को छोड़ता है तथा उसके साथ ही दूसरे शरीर में प्रवेश कर जाता है। ये कार्य युगपत् ही होते हैं। बीज (शुक्र), शोणित (आर्तव), वायु, आकाश आदि पञ्चमहाभूत, मन तथा बुद्धि से कभी भी इसका वियोग नहीं होता। अर्थात् गर्भ में इन सबका संयोग होना आवश्यक है। यह जीव सर्वगत होने से जिस किसी योनि में नहीं चलाजाता अपितु अपने २ (पूर्वजन्मकृत) कर्मों के फलों के अनुसार ही भिन्न २ योनियों को प्राप्त करता है ॥३॥
गर्भस्य पुनर्भगवन् ! के शरीरावयवा आकाशाद्विर्वर्तन्ते, के वायोः, के तेजसः, केऽद्भ्यः, के पृथिव्याः, के चास्य मातृजः संभवतः संभवन्ति, के चास्य पितृतः, किमात्मनः, किंच सात्म्यतः, किंच रसतः, किंच सत्त्वतः, कुत्र चैते सर्वभावा अन्वायत्ता भवन्ति कं चार्थमवेक्षन्ते; इति पृष्टो भगवान् कश्यप उवाच-गर्भस्य खलु भो शब्दश्च श्रोत्रं च लाघवं च सौक्ष्म्यं च विवेकश्च मुखं च कण्ठश्च कोष्ठं चाकाशात्मकानि भवन्ति, स्पर्शश्च स्पर्शनं च रौक्ष्यं च प्रेरणं च धातुव्यूहनं च प्राणाश्चापानश्च शरीरचेष्टा च वाय्वात्मकानि भवन्ति, रूपं च चक्षुश्च प्रकाशश्च पित्तं च पक्तिश्चोष्मा च शरीरवृद्धिश्च तैजसानि भवन्ति, रसश्च रसनं च शैत्यं च मार्दवं च द्रवश्च स्नेहश्च क्लेदश्च श्लेष्मा च मेदश्च रक्तं च मांसं च शुक्नं चाप्यानि भवन्ति, गन्धश्च घ्राणं च गौरवं च स्थैर्यं च मूर्तिश्च पार्थिवानि भवन्ति; तस्मात् पुरुषो लोकसंमितः प्रोच्यते। लोहितं च मांसं च नाभिश्च हृदयं च क्लोम च यकृच्च प्लीहा च वृक्कौ च बस्तिश्च पुरीषधारणं चामाशयश्चोत्तरगुदश्च क्षुद्रान्त्रं च स्थूलान्त्रं चेति मातृजानि, केशाश्च रोमाणि च श्मश्रूणि च नखाश्च दन्ताश्चास्थीनि च सिराश्च स्नायवश्च धमन्यश्च शुक्नं चेति पितृजानि, आयुश्चात्मज्ञानं च मनश्चेन्द्रियाणि च प्राणापानौ च धारणं च प्रेरणं च चाकृतिश्च स्वरवर्णोपचयविशेषाश्च सुखदुःखे इच्छाद्वेषौ च स्मृतिश्चाहङ्कारश्च प्रयत्नश्चावस्थान्तरगमनं च सत्त्वं च नानायोनिषूपपत्तिश्चेत्यात्मजानि, आरोग्यं चोत्थानं च सन्तोषश्चेन्द्रियप्रसादश्च स्वरवर्णबीजसंपच्च मेधा च प्रहर्षभूयिष्ठता चेति सात्म्यजानि, शरीराभिनिर्वृत्तिश्च शरीराभिवृद्धिश्च प्राणाश्च बन्धश्च वृत्तिश्च पुष्टिश्चोत्साहश्चेति रसजानि। कल्याणरोषमोहात्मकं तु सत्त्वं त्रिविधमुक्तमग्रे, तत्रौप¹पादि(दु)कं सत्त्वं मनश्च लयि(?) नित्यं शुभाशुभमिश्रभावानां ²स्पर्श इत्युच्यते। ते सर्वभावाः स्वकर्मण्यायत्ताः कालं चावेक्षन्ते। वायुर्हि कालसहितः शरीरं विभजति संदधाति चेति ।।४।।
भगवन् ! गर्भ के शरीर के कौन से अवयव आकाश से उत्पन्न होते हैं तथा कौन से वायु, अग्नि, जल, पृथिवी, माता के बीज, पिता के बीज, सात्म्य, रस तथा सत्व से उत्पन्न होते हैं ? तथा ये सब भाव परस्पर कहां मिलते हैं तथा
१. आत्मनः शरीरान्तरसम्बन्धकारकमित्यर्थः।
२. स्पर्श इति वेदमित्यर्थः।