काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)
Kashyapa Samhita Hindi
महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा
स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)
पृष्ठ 524, कुल 942 में से
संदर्भ में पढ़ें| १६६ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम् | गुल्मचिकित्सिताध्यायः ? ] |
|---|
वातमूत्रपुरीषवेगातिरुणद्धयत्यशितो वा पिबति नवोदकमतिमात्रमतिमात्रसंक्षोभिणा वा यानेन यात्यतिव्यवायव्या- याममध्वरुचिर्वाऽभिघातमूर्च्छति वा विषमाशनशयनासनस्थानचङ्क्रमणसेवी भवत्यन्यद्वा किंचिदेवंविधं विषममतिमात्रं व्यायामजातमारभते, तस्यापचाराद्वातः प्रकोपमापद्यते स प्रकुपितो महास्रोतोऽनुप्रविश्य रौक्ष्यात्कठिनीभूतमाप्लुत्य पिण्डतोऽवस्थानं करोति हृदिबस्तौ पार्श्वयोर्नाभ्यां वा, स शूलमुपजनयति ग्रन्थींश्चानेकविधान्, पिण्डतश्चावतिष्ठते, स पिण्डतत्त्वाद् गुल्म इत्युच्यते ॥५-९॥
अग्निनाशोऽरुचिः शूलं च्छर्द्दुद्गारान्त्रकूजनम् । पुरीषवर्तनं कार्श्यं गुल्मानां पूर्वलक्षणम् ।।१०।।
गुल्म के पूर्वरूप— अग्निनाश, अरुचि, शूल, छर्दि, उद्गार (डकार), आन्त्रकूजन (आंतों में गुड़गुड़ शब्द होना), मल का रुक जाना तथा कृशता—ये गुल्म रोगों के पूर्वरूप होते हैं । चरक नि. अ. ३ में कहा है—एषां तु खलु पञ्चानां गुल्मानां प्रागभिनिर्वृत्तेरिमानि पूर्वरूपाणि भवन्ति, तद्यथा—अनन्नाभिलषणं, अरोचकाविपाकौ, अग्निवैषम्यं, विदाहो भुक्तस्य, पाककाले चायुत्तया च्छर्द्दुद्गारौ, वातमूत्रपुरीषवेगानामप्रादुर्भावः प्रादुर्भूतानां चाप्रवृत्तिः ईषदागमनं वा, वातशूलाटो- पान्त्रकूजनापरिक्षेणानिवृत्तपुरीषता, बुभुक्षा, दौर्बल्यं, सौहित्यस्य चासहत्वमिति गुल्मपूर्वरूपाणि भवन्ति । सुश्रुत उ. अ. ४२ में भी इसी प्रकार कहा है ॥१०॥
शूलंमूर्च्छाज्वरस्तोदः कार्श्यं तृ(कृ)ष्णाऽरुणात्म(भ)ता । पार्श्वां साक्षकशूलं च वातगुल्मस्य लक्षणम् ।।११।।
वात गुल्म के लक्षण— शूल, मूर्च्छा, ज्वर, तोद (पीडा), कृशता, प्यास (अथवा काला) और अरुण आभा (रंग) का होना, पार्श्व अंस (कन्धे) तथा अक्षक (हंसली) में शूल होना—ये वातगुल्म के लक्षण हैं । चरक नि. अ. ३ में इसके निम्न लक्षण दिये हैं—स मुहुराधमति, मुहुरल्पत्वमापद्यते, अनियतविपुलाणुवेदनश्च भवति चलत्वाद्वायोः, पिपीलिकासञ्चार इवाङ्गेषु, तोदस्फुरणायामसंङ्कोचसुप्तिहर्षप्रलयोदयबहुलः, तदातुरश्च सूच्येव शङ्कुनेव चातिविद्धमात्मानं मन्यते, अपि च दिवसान्ते जीर्यति शुष्यति चास्यांस्यं, उच्छ्वासश्चोपरोध्यते, हृष्यन्ति चास्य रोमाणि वेदनायाः प्रादुर्भावे, प्लीहाटोपान्त्रकूजनाविपाकोदावर्ताङ्गमर्द मन्या शिरः शङ्खशूलब्रध्नरोगाश्चैनमुपद्रवन्ति, कृष्णारुणपरुषत्वङ्नखनयनवदनमूत्रपुरीषश्च भवति, निदानोक्तानि चास्य नोपशेरते, विपरीतानि चोपशेरत इति वातगुल्मः । इसी प्रकार चरक नि. अ. ५ में भी कहा है ॥११॥
उषायणं ज्वरो दाहस्तृष्णाविद्भेदपीतताः । पित्तगुल्मे विजानीयात् पित्तलान्नोष्णसेविनः ।।१२।।
पित्त गुल्म के लक्षण— पित्त प्रधान अन्न तथा उष्ण पदार्थों का सेवन करने वाले व्यक्ति के पैत्तिक गुल्म में बहुत उष्णता (जलन), ज्वर, दाह, तृष्णा, विद्भेद (अतिसार) तथा शरीर का रंग पीला होना—ये पैत्तिक गुल्म के लक्षण होते हैं । चरक नि. अ. ३ में इसके निम्न लक्षण दिये हैं—पित्तं त्वेनं विदहति कुक्षौ हृुरसि कण्ठे च, स विदह्यमानः सधूममिवोद्गारमुद्गिरति अम्लान्वितं, गुल्मावकाशश्चास्य दह्यते इयते धूष्यते ऊष्मायते स्विद्यति क्लिद्यति, शिथिल इव च स्पर्शासहोऽल्परोमाञ्चो भवति, ज्वरभ्रमदवथुपिपासागलवदनतालुशोषप्रमोहविङ्भेदाश्चैनमुपद्रवन्ति, हरितहारिद्रत्वङ्नखनयनवदनमूत्रपुरीषश्च भवति, निदानोक्तानि चास्य नोपशेरते, विपरीतानि चोपशेरत इति पित्तगुल्मः । इसमें निदानोक्त आहार-विहार असात्म्य होते हैं तथा इससे विपरीत सात्म्य होते हैं । इसी प्रकार चरक चि. अ. ५ में भी कहा है—ज्वरः पिपासा वदनाङ्गरागः शूलं महज्जीर्यति भोजने च । स्वेदो विदाहो व्रणवच्च गुल्मः स्पर्शासहः पैत्तिकगुल्मरूपम् ॥१२॥
रोमहर्षो ज्वरश्छर्द्दिररुचिर्हृद्दयग्रहः । मूत्राक्षिनखविट्शौक्ल्यं शैत्यं च कफगुल्मिनः ।।१३।।
कफ गुल्म के लक्षण— रोमहर्ष, ज्वर, छर्दि, अरुचि, हृदयग्रहः (हृदय प्रदेश का जकड़ जाना), मूत्र, आंखें, नाखून तथा मल का सफेद होना तथा शीतलता—ये कफगुल्म के लक्षण होते हैं । चरक नि. अ. ३ में इसके निम्न लक्षण दिये