भारतकोश
काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ

पृष्ठ 654, कुल 942 में से

संदर्भ में पढ़ें
पृष्ठ 654

२९४ काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम् रेवतीकल्पः ? ]

इस प्रकार हे वृद्धजीवक ! दैवी रेवती का वर्णन कर दिया गया है। अब हम मानुषी रेवती का व्याख्यान करेंगे। यथोक्त अधर्म उपायों के द्वारा जिस २ स्त्री में वह प्रवेश करती है उस २ स्त्री का हम अनुवर्तन करेंगे ॥६३॥

कस्मिन् वयसि काले वा कस्मिन् कर्मणि वा मुने । स्त्रियमाविशते क्रुद्धा भगवञ्जातहारिणी ॥६४॥

हे भगवन् ! क्रुद्ध हुई जातहारिणी (रेवती) किस अवस्था काल तथा कर्म में स्त्री में प्रविष्ट होती है ॥६४॥

अथोवाच भगवान् कश्यपः— रजस्वलां गर्भिणीं वा प्रसूतां वा कुटीगताम् । स्त्रियमाविशते क्रुद्धा त्रिषु कालेषु रेवती ॥६५॥ न चाधर्ममृते नारीं विशते जातहारिणी । मातुः पितुः सुतानां च साऽधर्मेण प्रवर्तते ॥६६॥ ..................... मातृणां च प्रजाक्षयम् । आयुः क्षयं च बालानां करोत्येषा स्वकर्मजम् ॥६७॥

भगवान् कश्यप ने उत्तर दिया—क्रुद्ध हुई रेवती तीनों कालों में रजस्वला, गर्भिणी, प्रसूता तथा कुटी में स्थित अर्थात् कुटीप्रावेशिक नामक रसायन का प्रयोग करनेवाली स्त्रीमें प्रवेश करती है। यह जातहारिणी माता, पिता अथवा पुत्रों के अधर्म के बिना स्त्री में प्रविष्ट नहीं होती है। इसकी प्रवृत्ति का कारण अधर्म ही है। यह अपने कर्मों के कारण माताओं की सन्तान का तथा बालकों की आयु का नाश करती है ॥६५-६७॥

अथ खलु वृद्धजीवक ! इमाः स्त्रियश्चतुविधा जातहारिण्याविश्य स्त्रियमत्र प्रविशति । वर्णां, वर्णान्तरां लिङ्गिनीं, कारूकीमिति । ताः खल्वतो व्याख्यास्यामः । अथो वृद्धजीवक ! ब्राह्मणीं समाविष्टां गृहानागतां स्त्रीं प्रत्युपतिष्ठतेऽभिवादयते संव्यवहरते संवदन्ति संस्पृशति संभुङ्क्तेऽभिहन्त्याक्रोशत्युपशेते पदमृतुनिर्माल्यवासोलङ्कारमाक्रामति वा तस्या ब्राह्मणी जातहारिणी भवति । अथो आहुः—सैवैनां ब्राह्मणी ऋतुमतीमवसिञ्चेत् । सैव तत्र प्रायश्चित्तिः । स्वेनैवैनां भागधेयेन प्रजावतीं करोति । नास्या ब्राह्मणी जातहारिणी भवति, या एवं वेद । अथो वृद्धजीवक ! क्षत्रियां जातहारिणीं समाविष्टां गृहानागतां स्त्रियं प्रत्युपतिष्ठतेऽभिवादयते संव्यवहरते संवदति संस्पृशति संभुङ्क्तेऽभिहन्त्याक्रोशत्युपशेते पदमृतुनिर्माल्यवासोलङ्कारमा-

(इति ताडपत्रपुस्तके १८० तमं पत्रम् ।)

क्रामति वा तस्याः क्षत्रिया जातहारिणी भवति । अथो आहुः—सैवैनां क्षत्रिया ऋतुमतीमवसिञ्चेत्, सैव तत्र प्रायश्चित्तिः । स्वेनैवैनां भागधेयेन प्रजावतीं करोति । नास्याः क्षत्रिया जातहारिणी भवति, या एवं वेद । अथो वृद्धजीवक ! वैश्यां जातहारिण्याऽऽविष्ठामथो महाशूद्रीं स्त्रीं प्रत्युपतिष्ठतेऽभिवादयते संव्यवहरते संवदति संस्पृशति संभुङ्क्तेऽभिहन्त्याक्रोशत्युपशेते पदमृतुनिर्माल्यवासोलङ्कारमाक्रामति वा तस्या वैश्या जातहारिणी भवति, अथो शूद्रा, अथो महाशूद्री वा । अथो आहुः—सैवैनां वैश्याऽथो शूद्राऽथो महाशूद्री स्त्रियमृतुमतीमवसिञ्चेत् । सैव तत्र प्रायश्चित्तिः । स्वेनैवैनां भागधेयेन प्रजावतीं करोति । नास्या वैश्या वा शूद्रा वा महाशूद्रा वा जातहारिणी भवति, या एवं वेद । अथो वृद्धजीवक ! सूतमागधवेनपुक्कसाम्बष्ठप्राच्यकचण्डालमुष्टिकमेत(द)डोम्बडवाकद्रुमिसिंहलोड्रखशशकयवनपह्नवतुखा(षा)-रकम्बोजावन्त्यनेमकाभीरकहूणपारंशवकुलिन्दकिरातशवरशम्बरजा जातहारिण्यो भवन्ति । अथो आहुः—तामेवैनां(ना)स्तिकनिषादप्रभृतीनां वर्णसंकराणां वा या स्त्रियो जातहारिण्याऽऽविष्टा गृहाणीयुस्ताः स्त्रीः प्रत्युपतिष्ठते, अभिवादयते, अभिनन्दयते, संव्यवहरति, संवदति, संस्पृशति, संभुङ्क्तेऽभिहन्त्याक्रोशति, उपशेते पदमृतुनिर्माल्यवासोलङ्कारमाक्रामति वा तस्याः एता वर्णसंकरजा जातहारिण्यो भवन्ति । अथो