काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)
Kashyapa Samhita Hindi
महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा
स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)
पृष्ठ 657, कुल 942 में से
संदर्भ में पढ़ेंरेवतीकल्पः ? ] कल्पस्थानम् २९७
(?) च स्वसा च स्वप्ने धर्षयित्वारोगागममनन्तरमस्य करोति । ततो मध्याह्नेऽर्धरात्रे वा संध्ययोर्वा सुप्ते वा बालगृहे निलीयते यथोक्तानामेकतमा; ततो बाल उच्चैः क्रोशति रोदिति त्रसते वेपते बिभेति ज्वर्यते विह्वलति निस्तनति मुह्यति विस्खलति सूच्यते शून्यते विस्रंस्यते रोगैरन्यैश्चोपद्रूयते । या त्वभीक्ष्णं शकुनीं स्त्री स्वप्ने पश्यति ततः साऽस्याः शकुनी जातहारिणी सज्जते । तस्या एव शकुन्या निभीतस्या (निलीनाया ?) एव पुरीषेण पक्षोदकेन वैनां वृद्धस्त्री शकुनिना(नीं) स्त्रीं तत्रावासिञ्चेत् । सैव तत्र प्रायश्चित्तिः । स्वेनैवैनां भागधेयेन प्रजावतीं स्त्रियं करोति । नास्याः शकुनी जातहारिणी भवति या शकुनीं न हिनस्ति, या एवं वेद । अथो वृद्धजीवक ! ये गां घ्नन्ति घातयन्ति वा, गोमांसं चोपयुञ्जते तेषां गोमाता जातहारिणी प्रसज्जते । एषा एनां स्वप्नेऽभिद्रवति गोपालो वा वत्सकपालो वा; असाध्या तस्या गोमाता जातहारिणी प्रसज्जति । अथो आहुर्गोमध्ये एनां गोमूत्र पुरीषाभ्यामुपोषितां स्त्रापयेत्, सैव तत्र प्रायश्चित्तिः । स्वेनैवैनां भागधेयेन गौः प्रजावतीं करोति । नास्या गोमाता जातहारिणी भवति, या गां न हिनस्ति, या एवं वेद । एवमेव महिषीणामजानामविकानां गर्दभीनां श्राश्वत्तरीणामुष्ट्रीणां सूकरीणां मूषिकाणां शुनीनां गलगोलिकानां गोपानां विष्पम्भराणां मृगादीनां चैवमेष विधिरुक्तः ।। अथो वृद्धजीवक ! सर्पीं गृहचारिणीमगृहचारिणीं वा स्त्री हन्ति घातयति वा, तस्याः सर्पी जातहारिणी प्रसज्जतेऽथो विषमृत्युमस्याः प्रजाया आहुः । एनां वल्मीके नागकुले वा सिञ्चेदथो आहुर्वल्मीकशतमध्य इति । सैव तत्र प्रायश्चित्तिः । स्वेनैवैनां भागधेयेन प्रजावतीं करोति, नास्याः सर्पी जातहारिणी भवति । या सर्पान् न हिनस्ति, नास्याः प्रजाया विषमृत्युर्भवति या एवं वेद ।। अथो वृद्धजीवक ! या मत्स्यमकर-तिमिङ्गिलनक्रशङ्कशम्बूकसुखनकादीनिभूता-
(इति ताडपत्रपुस्तके १८२ तमं पत्रम्)
न्युदकचराणि हन्ति, तस्यास्तेनाधर्मेण रेवती क्रुद्धा प्रजा हिनस्ति; मत्सी वा मकरी शुक्तिः शङ्खी भूत्वा स्वप्ने पूर्वं हर्षयति, ततो हिनस्ति भूयिष्ठं; तस्या अप्सु प्रजा विनश्यति, जलत्रासेन एकैकरोगैर्वा । अथो आहुः—रोहिणीस्नानेनैवैनां प्रत्युदियात्, सैव तत्र प्रायश्चित्तिः । या मत्स्यान् न हिनस्ति नास्या मत्सी जातहारिणी भवति, या एवं वेद ।। अथो वृद्धजीवक ! ये वनस्पतीन् हिंसन्ति परिगृहीतानपरिगृहीतान् वा, तेषां वनस्पतिदेवता अभिक्रुद्ध्यन्ति । अग्निवैश्वानरो नाम, सोमः पितृमान्नाम, स्वधिति शिवो नाम, आपो वरुणो नाम, भूमिर्निर्ऋतिर्नाम, गौर्विद्युन्नाम, गौः श्लोको नाम, देव पव(मा)नो नाम, आदित्यः पूषा नाम, दिशः काष्ठा नाम, इन्द्रो वरुणो नाम, वायुः प्राणो नाम; ता वै द्वादश वनस्पतीनां देवताः । एता एव वनस्पतीन् घ्नन्ति । अथो आहुर्वनस्पतिमध्ये विवृक्षेषुता एव देवताः स्थालीपाकैर्यजेत् । अग्निमाज्येन, सोमं श्यामाकेन, शिवं पायसेन, आपो दध्ना, भूमिं सप्तान्नेकेन, ग्रामधूपैः गां वाऽग्निं पवमानं पिशितेन, पूषाणमन्नाद्यैः, दिशो मध्वैः, इन्द्रं हविष्यभोजनेनेति । अथो अस्या वनस्पतिदेवताः प्रजामेव प्रयच्छन्ति, या वनस्पतीन् न हिनस्ति । नास्या वनस्पतिदेवता जातहारिण्यो भवन्ति, या एवं वेदेति ।।६९।।
हे वृद्धजीवक ! इसके बाद अब हम तिरश्चीन (तिर्यक्जाति) जातहारिणियों का व्याख्यान करेंगे । ये पांच प्रकार की होती हैं—१. शकुनी २. चतुष्पदी ३. सर्पा ४. मत्सी तथा ५. वनस्पति । ये जातहारिणियां प्रायः सज्जन व्यक्तियों को ही आक्रान्त करती हैं । हे वृद्धजीवक ! जो वृद्धि को प्राप्त होते हुए शकुनी (पक्षी) की स्वयं हिंसा करते हैं अथवा दूसरों से हिंसा करवाते हैं उन्हें महाग्रह वाली शकुनीरूप जातहारिणी आक्रान्त करती है । वह शकुनी रूप जातहारिणी काकी,