भारतकोश
काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ

पृष्ठ 660, कुल 942 में से

संदर्भ में पढ़ें
पृष्ठ 660
३००काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्रेवतीकल्पः ? ]

विडाल (बिलाव), नेवले तथा चूहों के शब्दों को सुनकर वह शीघ्र ही रोने लगता है। बहुत स्वल्प (मामूली) रोग से भी उसे भयंकर पीड़ा होती है। वह निरन्तर डरता रहता है तथा सोने पर उसे सुख (आराम) नहीं मिलता ॥७२-७८॥

रूपाण्येतानि संलक्ष्य भेषजं न पृणोति यः । सोऽपत्यैः कुरुते कार्यं स्वप्रलब्धैर्धनैरिव ॥७९॥

जो उपर्युक्त लक्षणों को देखकर इनकी चिकित्सा नहीं कराता, उसकी सन्तान उसी प्रकार नष्ट हो जाती है जिस प्रकार स्वप्न में प्राप्त हुए धन नष्ट हो जाते हैं ॥७९॥

अत ऊर्ध्वं वरणबन्धमुपक्रमिष्यामः । बन्ध्यो हि गर्भिण्याः क्षयति प्रागष्टमान्मासात्, अत ऊर्ध्वं प्रतिषेधस्तस्यान्यत्र । वृद्धजीवक ! श्रद्दधानानां

(इति ताडपत्रपुस्तके १८३ तमं पत्रम् ।)

धर्मक्रियावतां त्रिरात्रोपोषितानां भिषक् छुचिरुपोषितः प्रजावरणं बध्नीयात्; बद्धे चैनां दक्षिणाभिरिष्टाभिरर्चेत्, सा ह्यास्याः प्रजाः प्रयच्छति । तत्र संभारा रोहिणीस्नान स्नाता । स्नपनमप्येके रात्रौ चेत् कुर्याद् गृहेषु, दिवा चेदरण्येऽनुगुप्तमुभयं दिग्बन्धं कृत्वाऽऽत्मर क्षामत्र विधायोद्यारभेत् तत्कर्म । अथ शुचौ देशे गोचर्ममात्रं गोमयेनाद्भिborderश्च स्थण्डिलमुपलिप्य भिषगहतवासाः स्नातोऽलङ्कृतः प्राङ्मुख उपस्पृश्योद्धृतहस्तस्तूष्णीमुपस्पृशेदशब्दवतीभिरफेनाभिरनुष्णाभिरद्भिर्ब्राह्मेण तीर्थेन त्रिः प्राश्नीयात्, द्विरोष्ठौ परिमृजेत्, तत्रित्रित्येके । अक्षिणी कर्णौ नासिकेऽप्यपानं चोपस्पृशेत् । दुव्य(दृश्ये)महति सूर्ये स्थण्डिलमभ्युक्ष्य, हिरण्यपाणिर्दर्भपिञ्जूलीनां गर्भवर्तीं गृहीत्वा, तया लक्षणमुल्लिख्य दर्भपिञ्जूलीमभ्युक्ष्य बहिर्निर्स्यति, तत्राग्निं प्रणयति । यथापूर्वोक्तं परिसमूह्य, परिसंमृक्ष्य, प्रदक्षिणं बर्हिषा परिस्तीर्याग्नेः पुरस्तात् काञ्चनीं राजतीमुशीरमयीं दर्भमयीं वा प्रतिकृतिं प्रतिष्ठाप्य कुमारं षष्ठीं विशाखं च, दक्षिणतो ब्रह्माणमुत्तरत उदपात्रं, द्वाभ्यां दर्भाभ्यामच्छिन्नाग्राभ्यां समाभ्यां विष्टरबद्धाभ्यामाज्यमुत्पूय, आज्यमसि देवभोजनमसि तेजोऽसि चक्षुरसि श्रोत्रमसीन्द्रियमस्यायुरसि सत्यमसि हविरसीति । अथ जुहोति दर्भश्रुवेण आघारौ हुत्वा गर्भिणीं स्त्रियं स्नातामुषितां शुक्लवसनोपसंवीतामलङ्कृतां दक्षिणत उदङ्मुखीं सुखे पीठेऽथोपवेश्य द्वौ दर्भौ हस्ते दत्त्वा, सा तूष्णीमासीत । अथ भिषगनुज्ञातो नित्यं होमं हुत्वाऽऽज्यभागौ हुत्वा मातङ्ग्या विद्यया जुहुयात् । मातङ्गी नाम विद्या पुण्या दुःस्वप्नकलिरक्षोघ्नी पापकल्मषाभिशापमहापातकनाशनी पातकी ब्रह्मर्षिराजर्षिसिद्धचारणपूजिताऽर्चिता मतङ्गेन महर्षिणा कश्यपपुत्रेण कनीयसा महता तपसोग्रेण पितामहादेवासादिता सर्वभयनाशनी सर्वलोकवशीकरणी स्वस्तिककरणी शान्तिकरी प्रजाकरी बन्धनी विमला अमोघकल्याणी; य इमां विद्यां शुचिरावर्तयतिं सन्ध्ययोः पूतो भवति, नास्य सर्वभूतेभ्यो भयं भवति; य एनां शुचिरहन्यहनि जपति बहुपुत्रो बहुधन आयुष्माननमीवा सिद्धार्थश्च भवति, य इमां विद्यां श्राद्धे आवाहयत्यक्षयमस्य पितरश्च श्राद्ध अवतार्यन्ते । य इमां गोमध्ये जपेद् बह्व्योऽस्य भवन्ति गावः । य इमां स्त्रियमृतुस्नातां श्रावयते गर्भिणी भवति । य इमां गर्भिणीं श्रावयति पुत्रवती भवति । य इमां कृच्छ्रप्रसवां श्रावयत्याशु मुच्यते । य इमां म्रियमाणपुत्रां श्रावयति जीवत्पुत्रा भवति । यत्र चैव वेश्मनि सर्पान् रक्षांसि च गुह्यकान् वा विद्यात् तत्र सर्षपानष्टशताभिमन्त्रितानवकिरेत्, सर्वे नश्यन्ति । यो वा द्विष्यात् तस्य वा द्वारेऽवकिरेद्यः पूर्वमाक्रामति, स आर्तिमाप्नोति । दुर्गेषु जपत्तस्तस्कर-

(इति ताडपत्रपुस्तके १८४ तमं पत्रम् ।)