काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)
Kashyapa Samhita Hindi
महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा
स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)
पृष्ठ 682, कुल 942 में से
संदर्भ में पढ़ें३२२ काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम् विशेषकल्पः ? ]
गला जकड़ जाता है, उसके थूक में बड़ी कठिनता से रक्तसहित श्लेष्मा आती है, कण्ठ में वेदना होती है तथा अतिसार, श्वास, हिक्का एवं मूढता हो जाती है। चरक चि. अ. ३ में कहा है—छर्दिः शैत्यं मुहुर्दाहस्तृष्णा मोहोऽस्थिवेदना। मन्दवाते व्यवस्यन्ति लिङ्गं पित्तकफोल्वणे ॥२८-३०॥
विधुफल्गू च तौ नाम्ना सन्निपातावुदाहृतौ।
उन दोनों सन्निपातों के नाम क्रमशः विधु और फल्गु है। अर्थात् वातपित्त प्रधान सन्निपात का नाम विधु एवं पित्त श्लेष्म प्रधान सन्निपात का नाम फल्गु है॥
श्लेष्मानिलाधिको यस्य सन्निपातः प्रकुप्यति ।।३१।।
(इति ताडपत्रपुस्तके १९१<sup>१</sup> तमं<sup>२</sup> पत्रम्।)
..................... सन्निपातः सुदारुणः ।।
श्लेष्म एवं वातप्रधान सन्निपात जिसके प्रकुपित हों......... (उसे शीतज्वर, निद्रा, क्षुधा, तृष्णा, पार्श्वग्रह, सिर का भारीपन, आलस्य, मन्यास्तम्भ, मूढता, उदर में दाह तथा कटि एवं बस्ति में वेदना होती है। इसे मकरी कहते हैं यह अर्थ भालुकितन्त्र के श्लोकों से पूर्ण किया गया है)।
**वक्तव्य—**इससे आगे यह ग्रन्थ खण्डित है। इस त्रुटित ग्रन्थ के पूर्वापर भाग में दिये हुए विषय की माधवनिदान के सन्निपात प्रकरण की मधुकोश एवं आतङ्कदर्पण की व्याख्या में भालुकितन्त्र नाम से दिये हुए श्लोकों के साथ समानता मिलती है। इस ग्रन्थ के त्रुटितअंश से पूर्व एवं पश्चात् के विषय में भालुकितन्त्र के श्लोकों की समानता मिलने से मध्य के त्रुटित भाग की भी समानता होनी चाहिये। भालुकितन्त्र में यह विषय निम्न प्रकार से मिलता है—आमो ह्याहारदोषात् प्रथममुपचितौ हन्ति वह्निं शरीरे—श्लेष्मत्वं याति भुक्तं सकलमपि ततोऽसौ कफो वायुदुष्टः ।। स्रोतांस्यापूर्ण रुन्ध्यादनिलमथ मरुत्कोपयेत्पित्तमन्तः—सम्पूर्च्छयान्योऽन्यमेते प्रबलमिति नृणां कुर्वते सन्निपातम्।। वातपित्ताधिको यस्य सन्निपातः प्रकुप्यति। तस्य ज्वरोऽङ्गमर्दस्तृट् तालुशोषप्रमील कौ ।। आध्मानतन्द्रारुचयः श्वासकासभ्रमश्रमाः। पित्तश्लेष्माधिको यस्य सन्निपातः प्रकुप्यति ।। अन्तर्दाहो बहिः शैत्यं तस्य तन्द्रा च वर्धते । तुद्यते दक्षिणं पार्श्वमुरःशीर्षगलग्रहः ।। निष्ठीवेत्कफपित्तं च कृच्छ्रात्कण्डूश्च जायते । विड्भेदश्वासहिक्काश्च वर्धन्ते सप्रमीलकाः ।। विभुः फल्गुश्च तौ नाम्ना सन्निपातावुदाहृतौ । श्लेष्मानिलाधिको यस्य सन्निपातः प्रकुप्यति ।। तस्य शीतज्वरो निद्रा क्षुत्तृष्णापार्श्वनिग्रहाः ।। शिरोगौरवमालस्यंमन्यास्तम्भप्रमीलकाः । उदरं दह्यते चास्य कटिबस्तिंश्च दूयते । सन्निपातः स विज्ञेयो मकरीति सुदारुणः ।। वातोल्बणः सन्निपातो यस्य जन्तोः प्रकुप्यति। तस्य तृष्णा ज्वरो ग्लानिः पार्श्वरुग् दृष्टिसंक्षयः ।। पिण्डिकोद्वेष्टनं दाह उरुसादो बलक्षयः । सरक्तं चास्य विण्मूत्रं शूलं निद्राविपर्ययः ।। निर्भिद्यते गुदं चास्य बस्तिश्च परिगृह्यते । आयम्यते भिद्यते च हिक्कते विलपत्यपि ।। मूर्च्छते स्फार्यते रौति नाम्ना विस्फारकः स्मृतः । पित्तोल्वणः सन्निपातो यस्य जन्तोः प्रकुप्यति ।। तस्य दाहो ज्वरो घोरो बहिरन्तश्च वर्धते । शीतं च सेवमानस्य कुप्यतः कफमारुतौ ।। ततश्चैनं प्रबाधन्ते हिक्काश्वासप्रमीलिकाः । विसूचिका पर्वभेदः प्रलापो गौरवं क्लमः ।। नाभिपाश्र्वरुजा तस्य स्विन्नस्याशु विवर्धते ।। स्विद्यमानस्य रक्तं च स्रोतोभ्यः संप्रवर्तते ।। शूलेन पीड्यमानस्य तृष्णा श्वासः प्रबाधते । असाध्यः सन्निपातोऽयं शीघ्रकारीति कथ्यते ।। न हि जीवत्यहोरात्रमनेनाविष्टविग्रहः । कफोल्वणः सन्निपातो यस्य
१. अस्याग्रे १९२ तमं पत्रं त्रुटितं ताडपत्रपुस्तके।
२. अत्र त्रुटितग्रन्थस्य पूर्वापरग्रन्थयोर्यादृशो विषयस्तादृश एव माधवनिदानसंनिपातप्रकरणव्याख्ययोर्मधुकोशातङ्कदर्पण-योर्भालुकितन्त्रनाम्नोद्धृतेषु श्लोकेषु दृश्यते। तदीयपूर्वापरभागयोरेतत्संहितायाः १९१ पत्रान्त्र १९३ पत्रादिग्रन्थयोश्च बहुशो लेखविषयसंवाददर्शनेन लुप्त १९२ पत्रीयविषयोऽपि तदीयमध्यभागगतश्लोकोक्तसंवादी स्यादिति विवेचनीयं विवेचकैः ।